Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 530
________________ ३।२२ ] उत्पादादित्रयात्मकं वस्तु २१५ निहतप्रज्ञामूर्त्तयः किन्नाम इदंतया नेदंतया व्यवस्थापयन्तीति यत्किञ्चिदेतत् । सकृद् विज्ञान - स्यैकस्य चित्रताप्रतीतिर्न नैरन्तर्यादिप्रतीतिः इति पर [म] गहनमेतत्' । अपरस्तु आह-प्रतीयमानमेव ज्ञानं [न] पूर्वं नापि परमिति कथमुच्यते 'क्षणो वित्क्षणमध्यस्थः' इति सोऽपि न युक्तकारी, विचारायोगात् । तथाहि - नीलादिव्यतिरेकेण ब्रह्मवत्तदभावात् । नीलादयश्च चित्रत्वात् नैकं युगपत् नीलादिचित्रत्वं प्रत्येति । न क्रमेण ५ सुखादिचित्रत्वमिति [ १७६ ] प्राकृतबुद्धिः । 'क्षणो वा क्षणमध्यस्थः' इति च पाठोऽस्ति । तत्रायमर्थ:- अचेतनो नीलादिरूपः चेतनश्च तद्बुद्धिस्वभावः चेतन एव इति क्षणो वा क्षण इव क्षणयोः अचेतनयोः चेतनयोः तयोरेव वा कारणाकार्यभूतयोः मध्यस्थो न जहाति निरंशताम् अणुरपि इति । शेषं पूर्ववत् । कारिक स्पष्टयन्नाह - विज्ञप्ति इत्यादि । विज्ञप्तिमात्रेऽपि अन्तर्ज्ञेयवादिमतेऽपि न केवलं १० सौत्रान्तिमत इति अपिशब्दार्थः । ज्ञानस्य अत्रापि अपिशब्दो लुप्तो द्रष्टव्यः, तेन अज्ञानस्यापि । कथंभूतस्य ? स्वहेतुफलमध्यवर्त्तिनः स्वस्य स्वो वा यो हेतुः यच्च फलम् तयोर्मध्ये वर्तितुं शीलमस्येति तद्वर्त्तिनः, षट्परमाणुमध्यवर्त्तिनः । परमाणोरपि च सांशत्वे अङ्गीक्रियमाणे नतत्क्षण (अनन्तक्षण) प्रसङ्गात् कारणात् तावतैव तैस्यानन्तक्षणप्रसङ्गमात्रेणैव परिसमाप्तत्वाद् अनाद्यनन्तसन्तानप्रयोजनस्य इति मन्यते । तदन्यकल्पनानर्थक्यम् तेभ्यः अनन्तक्षणेभ्यः ये १५ अन्ये क्षणाः तेषां कल्पनानर्थक्यम् । तथाहि - तन्मध्यवर्तिनः क्षणस्य स्वांशमध्यवर्तित्वेऽपि तदपरांशकल्पना, पुनरपि तस्मिन् सति तदन्यकल्पनेति परं सान्तरत्वे (त्व) चिन्तने स एव प्रसङ्गश्चिन्त्यः । सहभाविनां स्वसन्तानान्तरक्षणानाम् एतत् संभवति न वेति विचारचतुरधियो विचारयन्तु । यदि संभवति किमर्थं परमाणव एव उपद्रूयन्ते ? निरंशत्वे दूषणं दर्शयन्नाह - अनुप्रवेश इत्यादि । 'ज्ञानस्य' इत्यनुवर्तते । तस्य तद्वर्तिनः पूर्वत्र उत्तरत्र वा तयोर्वा २० तत्रानुप्रवेशे अङ्गीक्रियमाणे [१७६ख] पुनः इति पक्षान्तरसूचने । एकक्षणवर्ति एकक्षणमात्रं जगत् स्यात् । किंभूतम् ? निष्पर्यायम् पर्यायरहितमिति । अनेन सौत्रान्तिकयोगाचारयोः सकलमतनिषेधं दर्शयति । प्रज्ञाक र स्य तथाभ्युपगमं कुर्वतोऽपि उक्तम् - * "युगपच्चित्रप्रतिपत्तिवत् क्रमेणापि तत्प्रतिपत्तेरनिषेधात् प्रत्यक्षविरोधः" इति । 'यदि पुनः' इत्यादिना परमतमाशङ्कते - यदि पुनः कथञ्चित् केनापि प्रकारेण निरं- २५ शत्वेऽपि ‘[इ]ष्यते’ इत्यध्याहारः । कुतः ? इत्याह- अनुप्रवेशाभावात् इति । तत्रोत्तरमाहतथा परमाणूनाम् इत्यादि । तथा तेन प्रकारेण परमाणूनां घटारम्भकाचेतनसूक्ष्मभागानां प्रचयभेदो रचनाविशेषः ‘स्यात्' इति गतेन सम्बन्धः । अत्र निदर्शनम् 'क्रम' इत्यादि । एवं सति यत् सिद्धं तद्दर्शयन्नाह - तथा सति इत्यादि । तथा सति -- [ अत्यक्तपारिमण्डल्यनानात्वादृश्यताणवः । तत्प्रत्यनीकमात्मानं संयोगः विभ्रतेऽञ्जसा ||२२|| (१) उपहास पदमेतत् । (२) ब्रह्मवादी । ( ३ ) न पूर्वं कारणम्, नापि परम् कार्यम् । ( ४ ) क्षणानामभावात् । ( ५ ) परमाणोः । ( ६ ) ज्ञानस्य । ( ७ ) क्षणमध्यवर्तिनः । (८) पूर्वोत्तरयोर्वा मध्ये । (९) चित्रप्रतिपत्तेः । Jain Education International For Personal & Private Use Only ३० www.jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686