________________
३।२२ ]
उत्पादादित्रयात्मकं वस्तु
२१५
निहतप्रज्ञामूर्त्तयः किन्नाम इदंतया नेदंतया व्यवस्थापयन्तीति यत्किञ्चिदेतत् । सकृद् विज्ञान - स्यैकस्य चित्रताप्रतीतिर्न नैरन्तर्यादिप्रतीतिः इति पर [म] गहनमेतत्' ।
अपरस्तु आह-प्रतीयमानमेव ज्ञानं [न] पूर्वं नापि परमिति कथमुच्यते 'क्षणो वित्क्षणमध्यस्थः' इति सोऽपि न युक्तकारी, विचारायोगात् । तथाहि - नीलादिव्यतिरेकेण ब्रह्मवत्तदभावात् । नीलादयश्च चित्रत्वात् नैकं युगपत् नीलादिचित्रत्वं प्रत्येति । न क्रमेण ५ सुखादिचित्रत्वमिति [ १७६ ] प्राकृतबुद्धिः ।
'क्षणो वा क्षणमध्यस्थः' इति च पाठोऽस्ति । तत्रायमर्थ:- अचेतनो नीलादिरूपः चेतनश्च तद्बुद्धिस्वभावः चेतन एव इति क्षणो वा क्षण इव क्षणयोः अचेतनयोः चेतनयोः तयोरेव वा कारणाकार्यभूतयोः मध्यस्थो न जहाति निरंशताम् अणुरपि इति । शेषं पूर्ववत् ।
कारिक स्पष्टयन्नाह - विज्ञप्ति इत्यादि । विज्ञप्तिमात्रेऽपि अन्तर्ज्ञेयवादिमतेऽपि न केवलं १० सौत्रान्तिमत इति अपिशब्दार्थः । ज्ञानस्य अत्रापि अपिशब्दो लुप्तो द्रष्टव्यः, तेन अज्ञानस्यापि । कथंभूतस्य ? स्वहेतुफलमध्यवर्त्तिनः स्वस्य स्वो वा यो हेतुः यच्च फलम् तयोर्मध्ये वर्तितुं शीलमस्येति तद्वर्त्तिनः, षट्परमाणुमध्यवर्त्तिनः । परमाणोरपि च सांशत्वे अङ्गीक्रियमाणे नतत्क्षण (अनन्तक्षण) प्रसङ्गात् कारणात् तावतैव तैस्यानन्तक्षणप्रसङ्गमात्रेणैव परिसमाप्तत्वाद् अनाद्यनन्तसन्तानप्रयोजनस्य इति मन्यते । तदन्यकल्पनानर्थक्यम् तेभ्यः अनन्तक्षणेभ्यः ये १५ अन्ये क्षणाः तेषां कल्पनानर्थक्यम् । तथाहि - तन्मध्यवर्तिनः क्षणस्य स्वांशमध्यवर्तित्वेऽपि तदपरांशकल्पना, पुनरपि तस्मिन् सति तदन्यकल्पनेति परं सान्तरत्वे (त्व) चिन्तने स एव प्रसङ्गश्चिन्त्यः । सहभाविनां स्वसन्तानान्तरक्षणानाम् एतत् संभवति न वेति विचारचतुरधियो विचारयन्तु । यदि संभवति किमर्थं परमाणव एव उपद्रूयन्ते ? निरंशत्वे दूषणं दर्शयन्नाह - अनुप्रवेश इत्यादि । 'ज्ञानस्य' इत्यनुवर्तते । तस्य तद्वर्तिनः पूर्वत्र उत्तरत्र वा तयोर्वा २० तत्रानुप्रवेशे अङ्गीक्रियमाणे [१७६ख] पुनः इति पक्षान्तरसूचने । एकक्षणवर्ति एकक्षणमात्रं जगत् स्यात् । किंभूतम् ? निष्पर्यायम् पर्यायरहितमिति । अनेन सौत्रान्तिकयोगाचारयोः सकलमतनिषेधं दर्शयति । प्रज्ञाक र स्य तथाभ्युपगमं कुर्वतोऽपि उक्तम् - * "युगपच्चित्रप्रतिपत्तिवत् क्रमेणापि तत्प्रतिपत्तेरनिषेधात् प्रत्यक्षविरोधः" इति ।
'यदि पुनः' इत्यादिना परमतमाशङ्कते - यदि पुनः कथञ्चित् केनापि प्रकारेण निरं- २५ शत्वेऽपि ‘[इ]ष्यते’ इत्यध्याहारः । कुतः ? इत्याह- अनुप्रवेशाभावात् इति । तत्रोत्तरमाहतथा परमाणूनाम् इत्यादि । तथा तेन प्रकारेण परमाणूनां घटारम्भकाचेतनसूक्ष्मभागानां प्रचयभेदो रचनाविशेषः ‘स्यात्' इति गतेन सम्बन्धः । अत्र निदर्शनम् 'क्रम' इत्यादि । एवं सति यत् सिद्धं तद्दर्शयन्नाह - तथा सति इत्यादि । तथा सति
--
[ अत्यक्तपारिमण्डल्यनानात्वादृश्यताणवः । तत्प्रत्यनीकमात्मानं संयोगः विभ्रतेऽञ्जसा ||२२||
(१) उपहास पदमेतत् । (२) ब्रह्मवादी । ( ३ ) न पूर्वं कारणम्, नापि परम् कार्यम् । ( ४ ) क्षणानामभावात् । ( ५ ) परमाणोः । ( ६ ) ज्ञानस्य । ( ७ ) क्षणमध्यवर्तिनः । (८) पूर्वोत्तरयोर्वा मध्ये । (९) चित्रप्रतिपत्तेः ।
Jain Education International
For Personal & Private Use Only
३०
www.jainelibrary.org