________________
२१४
सिद्धिविनिश्चयटीकायाम्
[क्षणश्चित्क्षणमध्यस्थो न जहाति निरंशताम् । तथाणुरपि मध्यस्थः ततः प्रचयवर्धनम् ॥ २१ ॥
विज्ञप्तिमात्रेऽपि ज्ञानस्य स्वहेतुफलमध्यवर्तिनः सांशत्वे अनन्तक्षणप्रसङ्गात् ताव - तैव परिसमाप्तत्वात्तदन्यकल्पनानर्थक्यम् । अनुप्रवेशे पुनः एकक्षणवर्ति निष्पर्यायं ५ जगत् स्यात् । यदि पुनः कथञ्चिन्निरंशत्वेऽपि तथा परमाणूनामनुप्रवेशाभावात् प्रचयभेदः स्यात् । क्रम । तथा सति - ]
यथा चित्क्षणमध्यस्थः चिद्रूपौ कारणकार्यभूतौ यौ क्षणौ तयोर्मध्यम् अन्तरं तत्र तिष्ठति इति तत्स्थः । कोऽसौ ? इत्याह-- क्षणो भागः पूर्वस्य कार्यभूतः उत्तरस्य कारणभूतः, सोsपि चिप एव अन्यस्य तदभावात् । स किं करोति ? इत्याह-न जहाति न परित्यजति । १० किम् ? इत्याह - [ निरंशताम् ] निरंशस्य 'सर्वात्मना एकदेशेन ' इति विकल्पाऽयोगात् केवलं
[ ३ प्रमाणान्तरसिद्धिः
तत्र तिष्ठति इति न्यायात्, तथा अणुरपि परमाणुरपि न केवलं चित्क्षण एव मध्यस्थो 'न जहाति निरंशताम्' इति सम्बन्धः । ततः किं सिद्धम् ? इत्याह- ततः प्रचयवर्धनं तस्मान्न्यायात् कालप्रचयवत् देशप्रचयस्यापि वर्धनम्, 'स्यात्' इत्यध्याहारः ।
एतदुक्तं भवति - विक्षण (चित्क्षण) मध्यस्थः क्षणः पूर्वोत्तरक्षणाभ्यां सान्तरः, निरन्तरो १५ वा ? न तावदाद्यो विकल्पः ; चिरन्तनसौगतानां तथाऽभ्युपगमाभावात्, नैरन्तर्यविशिष्टानामेव क्षणानाम् उपादानोपादेयभावाभ्युपगमात् । येषामपि प्रज्ञाक र गुप्ता दी नां तथाभ्युपगमः तेषाम् असंसृष्टा क्षणा एव स्वकार्यं कुर्वन्ति न परमाणव इति किं कृतो विभागः ? अतिप्रसङ्गोऽत्रापि दुर्वारः । तन्न परमाणूनां कार्यारम्भे संयोगमुपकल्प्य [१७५ ख] " तन्निबन्धनं दोषचिन्तनं न्याय्यम् । जागरणप्रबोधचेतसोः उपादानोपादेयभूतयोः २० व्यवधाने "त्यवत् कार्यकारणभावनिषेधात् न सुस्थितं तन्मतम् । व्यवधानं च तयोः नाभावेन नापि कालेन ; तदनभ्युपगमात् । अत एव न सजातीयविज्ञानैः; स्वापादिदशायां तदनभ्युपगमात् । विजातीयैः व्यवधाने ; न विज्ञप्तिमात्रं स्यात् । भवतु वा तैर्व्यवधानम्, तथापि तेषामन्योन्यं तच्चेतोभ्यां च पुनरपि सान्तरत्वे तदेव चोद्यं तदेव उत्तरमित्यनवस्थाः प्रत्येकं गगनतलविसर्पिण्यो योज्याः । निरन्तरत्वे समायातो द्वितीयो विकल्पः । एवमर्थं च ' क्षणो २५ वित्क्षणमध्यस्थः' इति सामान्येनोक्तम् । सोऽपि न युक्तः संयोगवत् दोषात् । नैरन्तर्यम् संयोग इति शब्दभेदमात्रमुत्पश्यामो नार्थभेदम् । अन्ये तु मन्यन्ते सर्वचेतसां परस्परं न सान्तरत्वं नापि विपर्ययः”, तत्कथं 'क्षणो वित्क्षण' इत्यादि दोष इति तेन (ते) तत्प्रतीति पृथुवत्र
Jain Education International
(1) चितः प्रति कारणकार्य भावाभावात् । (२) प्राचीन बौद्धानाम् । (३) " अर्थान्तराभिसम्बन्धाजायन्ते येऽणवोऽपरे । उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ अणूनां स विशेषश्च नान्तरेणापरानणून् । ... " - प्र० वा० २।१९५-९६ । ( ४ ) असंसृष्टाः परमाणवः । (५) सर्वात्मना एकदेशेन वा संयोगः इति संयोग निबन्धनम् । (६) स्वापात् प्राग्वर्ति जाग्रच्चेतः स्वापानन्तरमुत्थितस्य प्रबोधचेतः, तयोः मिथः कारणकार्य भावः स्वापावस्थायां ज्ञानाभाववादिनः प्रज्ञाकरमतेऽस्ति । ( ७ ) यथा न नित्ये कारणकार्य भावः तथात्रापि । (८) जाग्रत्प्रबोधचेतसोः । (९) विज्ञानाद् व्यतिरिक्तैः अथैः । (१०) निरन्तरत्वं वा ।
For Personal & Private Use Only
www.jainelibrary.org