________________
३।२० ]
उत्पादादित्रयात्मक वस्तु गुणाःसहभाविनो जीवस्य ज्ञानादयः, पुद्गलस्य रूपादयः, पर्यायाःक्रमभाविनः सुखदुःखादयः, शिवकादयश्चं लक्ष्यन्ते प्रत्यक्षप्रमाणेन निश्चीयन्ते । अनेन प्रतीतिसिद्धत्वेन काल्पनिकत्वम् । ___*"युक्त्या यन्न घटामुपैति तदहं दृष्ट्वापि न श्रद्दधे" इति वदन्तं प्रति निदर्शनमाहधीविकल्पाऽविकल्पवद् इति । धियो विकल्पाविकल्पो इव तद्वत् इति । यथा धियः सकाशात् विकल्पो आकारौ भिन्नौ अभिन्नैव (अभिन्नाविव) लक्ष्येते तथा प्रकृताः स्वद्र-५ व्याद् इति निष्ठुरविचारचतुरस्य अनेन स्वमतत्यागं दर्शयति । नैयायिकादिकं प्रति निदर्शनं नोक्तं प्रतीतिबलेन तेन द्रव्यादिव्यवस्थोपगमात् । [१७४ख] अथवा, धियः सम्बन्धिनौ विकल्पौ स्वैः विभ्रमेतर-संशयेतर-दृश्येतर-ग्राह्यतर-नीलेतराकारैः भेदाभेदौ ताभ्यां तुल्यं वर्तत इति तद्वत् ।
कारिकां विवृण्वन्नाह-गुणिन इत्यादि । गुणिनः सकाशात् कथञ्चित् तत् सर्वात्मना अभिन्ना रूपादयः सुखादयो वा सकृद् एकदा प्रतीताः परीक्षितप्रमाणप्रमिताः । किं कुर्व- १० न्ति ? इत्याह-क्रमेण इत्यादि । दृष्टानुरूपत्वात् सर्वदा तत्त्वसिद्धः इति भावः । तदनभ्युपगच्छतोऽपि हताद् (हठात् ) आगच्छति इति दर्शयन्नाह-तथा इत्यादि । अत्रापि 'क्रमेण' इत्यादि संयोज्य व्याख्या कर्त्तव्या । प्रकृतं निगमयन्नाह-तत्सिद्धम् इत्यादि ।
ननु अस्ति स्थूलस्य एकस्य नानावयवगुणपर्यायात्मनो बुद्धौ प्रतिभासनम् , स नैकोऽवयवी गुणी वा युक्तः विचारायोगात् । तदेव दर्शयन्नाह-यत्पुनरेतद् इत्यादि । यत् परेण यथोक्त- १५ प्रमेयदूषणम् 'उक्तम्' इति शेषः । पुनः इति युक्त्यन्तरसूचने, एतन्निवेद्यमानं स्थूलस्य सूक्ष्म'नान्तरीयकत्वात् 'परमाणूनाम्' इत्युक्तम् । "तेच संयोगापेक्षा एव तं" जनयन्ति नान्यथा अतिप्रसङ्गात् इति संयोगे इति 'स" च एकदेशेन सर्वात्मना वा स्याद् गत्यन्तराभावात्' इति मनसि निधाय प्रथमपक्षे दूषणमाह-'दिगविभागेन' इत्यादि । [दिशः प्राच्यादयः] "तद्विभागेन संयोगे अङ्गीक्रियमाणे षडंशतापत्तेः "तेषामेव (क) परमाणुतैव न स्यात् सांशत्वात् घटादिवत् इति २० मन्यते । द्वितीयपक्षे तदाह-निरंशत्वे परमाणूनाम् अङ्गीक्रियमाणे परस्परानुप्रवेशात् कारणात् न प्रचयभेदः स्कन्ध[१७५क]भेदः इति शब्दः पूर्वपक्षसमाप्तौ । तदुक्तम्
*"तत्र दिग्भागभेदेन षडंशाः परमाणवः ।।
नो चेत् पिण्डोऽणुमात्रः स्यात् न च ते बुद्धिगोचराः॥" [न्यायवि० १।८६] इति। एतद् दूषयन्नाह-अत्र इत्यादि । अत्र पूर्वपक्षे उत्तरम् ‘उच्यते' इति शेषः ।
२५ यथा तथा]शब्दावन्तरेणापि तदध्यारोपात् प्रतिवस्तूपमालङ्कारमाश्रित्य कारिका व्याख्यायते
(१) जीवस्य । (२) मृदः पुद्गलस्य । (३) निषेधति इति सम्बन्धः । (४) उद्धृतमिदम्-अष्टश०, अष्टस० पृ. २३४ । (५) गुणपर्यायाः। (६) युक्त्यैकान्तवादिनः। (७) नैयायिकादिना। (6) "षट्केन युगपद् योगात् परमाणोः षडंशता। पण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥"-विज्ञ. विंशि० श्लो. १२। चतुःश० पृ०४८ । तत्त्वसं० पृ. २०३ । (९) अन्तरा विना न भवतीति नान्तरीयकम् अविनाभावीत्यर्थः। (१०) परमाणवः । (११) अवयविनम्। (१२) संयोगः। (१३) दिग्विभागेन । (१४) परमाणूनाम् । यतः सर्वे पदिग्वर्तिभिः परमाणुभिः संयुज्यन्ते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org