________________
२१२
सिद्धिविनिश्चयटीकायाम् [ ३ प्रमाणान्तरसिद्धिः न्तार्थमिति विभागः । यत एवं तत तस्मात् पूर्वोत्तरपरिणामात्मना सततं विवर्त्तमानं क्षणं [क्षणं]प्रति प्रतिक्षणं त्रीणि उत्पादस्थितिभङ्गाः लक्षणानि यस्य तत् त्रिलक्षणम् 'सत् सर्वम्' इति सम्बन्धः । तत् किं कुर्वत् किं करोति ? इत्यत्राह-हेतुफल इत्यादि । हेतुफलयोर्व्यवस्था पूर्वः पूर्वो हेतुः परं परं फलम् इति लौकिकी स्थितिः ताम् इति । तदनेन यदुक्तं केनचित्'*"पूर्व ५ कार्यम् उत्तरं कारणम्" इति; तन्निरस्तम्; *"शुचि नरशिरःकपालं प्राण्यङ्गत्वात्" [न्यायप्र० पृ० २] इत्यादिवत् प्रसिद्धिबाधनादिति । यदि वा, हेतुफलमेव विशिष्टा नानाप्रकारा या अवस्था दशा ताम् इति ।*"स्वरूपमेव जन्य जनकंच" इति , तदनेन निरस्तम् । कथम् ? वि[कल्पयन् ] जन्यजनकताप्रतीतेः आत्मनि स्वस्वरूपेण कल्पनायाम् ततस्तद्वय
वस्थायाः काल्पनिकत्वं कल्पयन् अविकल्प इत्युक्तं भवति । नीलादिसुखादिविशेष [१७४क] १. स्यापि (वि) कल्पत्वेन प्रतिभासाद्वैतमपि तथा स्यात् । प्रत्यक्षबाधनम् इतरत्र समानम् । *"नहि पूर्वोत्तरपरिणामरहितं किञ्चित् क्वचित् प्रत्यक्षबुद्धौ प्रतिभाति" इत्युक्तम् ।।
अथवा, 'अवस्थातुः एकान्तेन अवस्था भिन्नाः इति मतम् अयुक्तमिति कथितं भवति । भवति परत्र सहकारित्वेन उपकारके सन्तानान्तरे सति कार्यव्यपदेशभाग , "उपकार्ये कारण
व्यपदेशभाग् भवति इति समञ्जसम् । कुतः पुनः सत् सर्वं"तथाविधम् ? इत्यत्राह-प्रत्यनीक १५ इत्यादि । उत्पादस्य प्रत्यनीकस्वभावः स्थितिः तदविनाभावाद् वस्तुस्वभावस्य उत्पादस्य ।
कुत एतदपि इति चेत् ? अत्राह-द्रव्याद् इत्यादि ।
[द्रव्यात् स्वस्मादभिन्नाश्च व्यावृत्ताश्च परस्परम् ।
लक्ष्यन्ते गुणपर्याया धीविकल्पाविकल्पवत् ॥२०॥
गुणिनः कथश्चिदभिन्नाः रूपादयः सुखादयो वा सकृत्प्रतीताः क्रमेण 'तथा... २० तत्सिद्धम् । यत्पुनरेतत्-परमाणूनां संयोगे दिग्विभागेन अङ्गीक्रियमाणे षडंशतापत्तेः । निरंशत्वे परस्परानुप्रवेशान्न प्रचयभेद इति; अनोत्तरम् ।]
द्रव्यात् इत्यनेन गुणपर्यायैकान्तं निषेधति, अभिन्नाश्च इत्यनेन तेषां तद्वतो दैकान्तम् , व्यावृत्ताश्च इत्यनेन सांख्यमतम्", परस्परं वा (चाs) भिन्ना व्यावृत्ताश्च इत्यनेनापि", स्वस्माद् इत्यनेन *"सर्वस्योभयरूपत्वे" [प्र०वा० ३।१८१] इत्यादिकम् ।
(१) प्रज्ञाकरेण भाविकारणवादिना । “यथा च कारणस्य पूर्व भावं विना न भवति कार्य तथा अवश्यंभावि कारणं कार्यस्य परभाव विना नेति समान कार्यकारणभावनिबन्धनमिति द्वयोरपि परस्परं कार्यकारणभावः।"-प्र. वार्त्तिकाल. पृ०२८ । (२) "लोकविरुद्धो यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शङ्खशुक्तिवत्'-न्यायप्र०पृ०२ । परीक्षा० ६।१९। (३) यत् अद्वैतवादिनां मतम् । (४) हेतुफलव्यवस्थायाः। (५) कथयन् । (६) विवेकरहित एव । (७) कल्पनात्मकमेव । (८)नैयायिकादेः । (९) पदार्थान्तरे । (१०) उपकर्तुं योग्ये पदार्थे तु । (११) उपकार्यम् उपकारकं च, अत एव कारणकार्यात्मकम् । (१२) "उक्त च-.."द्रव्यात् स्वस्मादभिन्नाश्च व्यावृत्ताश्च परस्परम् । उन्मजन्ति निमज्जन्ति जलकल्लोलवजले ॥" -न्यायकुमु. पृ० ३७० । “देवैर्निवेदितं चैतत् स्वयमन्यत्र तद्यथा । द्रव्यात् स्वस्माद"."-न्यायवि. वि० प्र० पृ० ४३२ । (१३) द्रव्यात् । (१४) अभेदप्रतिपादकम् । (१५) सांख्यमतं नषेधति । (१६) धर्मकीर्तिकृताक्षेपं निषेधति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org