________________
३११९ ] उत्पादादित्रयात्मकं वस्तु
२११ अवश्यंभावात् । अथ 'तत्संसर्ग एव स स्वभावो न पूर्वम् ; हन्त कथम् *"मूलप्रकृतिः" ? [सांख्यका० ३] इति युक्तम् हेतुफलात्मना इति ।
एतेन वैशेषिकादिमतमपि चिन्तितम् । यदैव द्रव्यस्य हेत्वात्मता तदैव फलात्मता । अयं तु विशेषः-कदाचित् कस्यचिदभिव्यक्तिः अनभिव्यक्तिस्वाह च (क्ति श्च, आह च-) *"[सर्व] सर्वत्र विद्यते” इति कश्चित् ; तं प्रत्याह-क्रमाद् इति । क्रमम् आश्रित्य इत्यर्थः, इतरथा ५ सव्येतरगोविषाणवत् न हेतुफलव्यपदेशः । व्यङ्ग्यव्यञ्जकभावेऽपि अस्य चोद्यस्याऽनिवृत्तेः।
विवर्तते तदात्मना किन्तु स्वत एवेति पुरुषाद्यद्वैतवादिनः *"पुरुष एवेदम्" [ऋक्० १०।९०।२] इत्यादि वचनात् । 'यद् उत्पद्यते तत् परतः, नश्वरः, स्वात्मनि क्रियाविरोधात्, उत्पत्तिसमये स्वमयभावाच्च । तथा परत एव विन (विनाशो न) स्वतः, सर्वदा विनाशप्रसङ्गात्' इति केचित् ; तान् प्रति आह-स्वतः अन्यतः इति । [वि] वर्तेत' इति सम्बन्धः। स्वतः १० तथा विवर्तनस्वभाववैधुये परतोऽपि न विवर्तेत खरशृङ्गवत् , गगनच्चैयमर्थं (गगनवच्चे, एवमर्थ) च उत्पित्सु इत्याद्युक्तम् । परतः तद्विवर्तनप्रतिषेधे प्रत्यक्षादिविरोधः ।
'द्रव्यम् उत्पित्सु' इत्यादि समर्थयते यदि इत्यादिना । यदि चेत् स (सत्) विद्यमानं सर्व सर्वदा उत्पादात्मकं न स्यात् सकृदपि तथोत्पादात्मकत्वप्रकारेण मा भूत् , भवति च, ततो मन्यामहे सर्वदा उत्पादात्मकमिति । अनेन चरमक्षणकथा क्षीणेति दर्शयति । ननु यदि १५ नाम च (न) कदाचिद् दुषात्मकं (उत्पादात्मक) वस्तु तस्य किमायातं येन सर्वदा तत् तदात्मकं स्यादिति चेत् ; न तर्हि इदानीं कदाचित् स (सन्तं) क्षणिकमुपलभ्य सर्वदा "तत्तथा [१७३ख] इत्यनुमानम् । शेषं चर्चितमत्र । तथा स्थित्यात्मकं सर्वदा यदि न स्यात् ; सकृदपि तथा" माभूत् । भवति च तदात्मकं तत्प्रतीतेः प्रतिपादनात् । ततः सर्वदा तदात्मकमिति निराकृतमेतत् यदुक्तं प्रज्ञा क रे ण-*"दध (देव) दत्तादेः उपलम्भदशायां भवत् (तु) कालान्तर- २० स्थायिता तथाप्रतीति(ते) र्नान्यदा विपर्ययात्" इति; कथम् ? "अदृष्टस्य ज्ञानादेः "अभिमतस्वाभावाऽसिद्धिप्रसङ्गात् । दृष्टानुरूपतत्त्वव्यवस्थापनम् अन्यत्र समानम् । 'खरविषाणवत' इति उभयत्र निदर्शनम् । एतद् अन्यत्राऽवृत्ति (त्राप्यति) दिशन्नाह-तथा इत्यादि । पृथगस्य उपादानं दृष्टान्तार्थं परं प्रति अस्यै' सिद्धत्वात् , नैयायिकादिकं प्रति एतत् साध्यार्थम् पूर्वं दृष्टा
(१) कपिलादिसंसर्गे सत्येव । (२) कार्योत्पादनस्वभावः। (३) अविकृतिः-नित्येति कथमुच्यते ? (४) सांख्यः । "किं सांख्यमतमवलम्ब्य सर्व सर्वत्र विद्यते।"-प्र. वार्तिकाल. पृ० १८०। (५) समसमयभाविनोः कार्यकारणभावाभावात् । (६) हेतुफलात्मना। (७) "पुरुष एवेदं यद् भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥"-श्वे० ३।१५। (८) 'न स्वत उत्पद्यते' इति सम्बन्धः । (९) स्वभावतः एव विनश्यतीति सम्बन्धः । इति बौद्धाः। (१०) नैयायिकादयः। (11) नैयायिकमतापेक्षया इदमुक्तम् । (१२) नहि स कश्चित् क्षणो विद्यते यस्मात् अग्रिमक्षणोत्पत्तिनं भवति इति चरमक्षणस्य अभाव एव । (१३) उत्पादात्मकम् । (१४) 'सत् क्षणिकमेव' इत्यनुमानं स्यात् । (१५) स्थास्नु । (१६) स्थित्यात्मकम् । (१७) यदा देवदत्तो न दृश्यते तदा । (१८) यदि उपलब्धस्यैव तत्स्वभावता व्यवस्थाप्यते तदा अदृष्टस्य-अनुपलब्धस्य । (१९) अभिमतो यः प्रतिभासरूपः स्वभावः तस्य असिद्धिः स्यादिति भावः । (२०) देवदत्तादौ । (२१) खरविषाणस्य उत्पादादिस्वभावशून्यस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org