________________
२१०
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः वा विग्रहः । तदनेन उत्पादं प्रतीवपिनासं (प्रति इव विनाशं) प्रत्यपि भावस्य कृतकस्य वा' सापेक्षत्वाद् भावस्य विनाभावसाविनासाविनाभाव (विनाशाविनाभाव)साधने तद्भावं प्रत्यनपेक्षत्वमसिद्धमित्युक्तम् [१७२ख] भवति । ननु यदुक्तम्-'तहिये (तदिमे) अर्थाः स्वरसत एव उत्तरीभवन्तः' इति ; तदयुक्तम् ; कस्यचित् पूर्वस्य कुतश्चिद् विनाशे परः अन्य ५ एव जायते इति चेत् ; अत्राह-ननु इत्यादि । ननु नैव निरन्वयनिवृत्तौ अत्यन्तमभावे कस्य कारणस्य कारणाकारणाहिता (कस्य कारणाहिता) कार्योत्पत्तिः अनियमप्रसङ्गादिति मन्यते । कथं तर्हि कार्योत्पत्तिः ? इत्यत्राह-अनादिनिधनम् इत्यादि ।
[अनादिनिधनं द्रव्यमुत्पित्सु स्थास्नु नश्वरम् ।
स्वतोऽन्यतो विवर्तेत क्रमाद्धेतुफलात्मना ॥१९॥ यदि सर्व सत् उत्पादस्थित्यात्मकं सर्वदा न स्यात् सकृदपि तथा मा भूत् खरविषाणवत् , तथा तत् पूर्वोत्तरपरिणामात्मना सततं विवर्तमानं प्रतिक्षणं त्रिलक्षणं हेतुफलव्यवस्थामात्मनि विकल्पयन् परत्र कार्यकारणव्यपदेशभाग् भवतीति समन्जसम् , प्रत्यनीकस्वभावाविनाभावात् ।]
अविद्यमाना (नम् ) आदिनिधनम् अनादिनिधनं, सादित्वे कार्यानुपादानकारणा१५ (ण)भावे सदपि सहकारिकारणम् अकिञ्चित्करम् । न चैवं शक्यं वक्तुं कदाचिदनुपादाना कार्योत्पत्तिः अन्यदा अन्यथेति ; तथाऽदर्शनात् । दर्शनानुसारेण च तत्त्वव्यवस्थानात् । कथश्चैवं वादिनां कार्यदर्शनाद् उपादानकारणानुमानम् ? सर्वत्राऽऽशङ्काऽनिवृत्तेरति तद्व्यवहारोच्छेदः । सान्तत्वे पुनः अशेषसन्ताननिवृत्तिरिति । निरूपयिष्यते चैतत् जी व सि द्धौ। किन्तदित्थ
म्भूतम् ? इत्याह-द्रव्यम् इति । न चैतत् चोद्यम्-"रूपादिव्यतिरेकेण किं तत्' इति ? २० *"प्रतिभासैक्यनियम" [सिद्धिवि० १११०] इत्यादिना प्रसाधनात् । पुनरपि कथम्भूतं
तदिति आहोस्वित् [तदित्याह-उत्पित्सु स्थास्नु नश्वरम् ] इत्यादि । तत्किं कुर्यात् ? इत्याह-विवर्तेत । केन प्रकारेण ? हेतुफलात्मना मृत्पिण्डघटादिस्वभावेन ।
ननु च प्रधानं महदादिफलात्मना विवर्त्तते नतद्धत्वात्मना * "मूलप्रकृतिरविकृतिः" [सांख्यका० ३] इति वचनादिति चेत् ; न ; महदादिपरिणामजननस्वभावस्य अकादाचित्कत्वे २५ "तदनुपरतिरिति कपिलोऽन्यो वा मुत्को न म कथं (वा कथं मुक्तः ?) यदि पुनः कपिलादिना [१७३ क] संसर्गाभावात्तदुपरति” [रिति] मतिः; सापि न युक्ता; "अविकले कारणे कार्यस्य
(१) हेतोः । (२) विनाशं प्रत्यन्यानपेक्षणादिति हेतुः असिद्धः इति भावः । (३) पर्यायस्य । (४) उत्तरांशः उद्धृतः-न्यायवि० वि० प्र० पृ० ४१४ । (५) सर्वथा नूतनस्योत्पादे । (६) उपादानकारणाभावे इत्यर्थः। (७) उपादानकारणात् । (८) कार्यकारणव्यवहाराभावः। (९) सर्वथा निरन्वयविनाशस्वीकारे। (१०) चतुर्थप्रस्ताचे । (११) गुणव्यतिरिक्तं द्रव्यं नास्ति इति शङ्काभिप्रायः। (१२) सांख्यःप्राह । (१३) न प्रधानम् अन्यहेतुतः समदभूतं तस्य नित्यत्वादिति । (१४) अकार्यभूता नित्यति । (१५) महदादिकार्याणां सर्वदोत्पत्तिः । (१६) जीवात्मा । (१७) कपिलादिकं प्रति महदादिकार्योत्पादस्याभावः । (१८) नित्ये प्रधानाख्य कारणे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org