________________
३।१८ ] उत्पादादित्रयात्मकं वस्तु
२०९ भावनियतैव । पक्षधर्मोपसंहारमाह-तथा इत्यादि । सुगमम् । चेच्छब्दः [१७१ख] पराभिप्रायद्योतकः । अत्रोत्तरमाह-भाव इत्यादि । भाव इत्येतदुपलक्षणं तेन कृतक इत्येतदपि गृह्यते । कालान्तरस्थान (नं) च उत्पादश्च तौ प्रति अनपेक्षणात् तद्भावनियतः कालान्तरस्थानोत्पादभावनियतः सिध्येत् । अस्याऽनभ्युपगमे दूषणमाह-नान्यथा अतो हेतोविनश्वराभावः सिध्येत् व्यभिचारित्वात् हेतोरिति मन्यते । एतदनेन दर्शयति-यथा क्षणिकत्वे सत्त्वा- ५ दिविरुद्धः 'विपक्ष एव निश्चयात् , तथा अन्येन तस्य अविनाभावसाधकोऽप्यनपेक्षणादिति हेतुः तत्रैव विनिश्चयाविशेषादिति ।। ___स्यान्मतम्-'कालान्तरस्थानोत्पादौ प्रति अनपेक्षणात्' इत्यसिद्धम् ; तद्भावनियतत्वे तौ प्रति सापेक्षत्वाद् भावस्य इति । तत्रोत्तरमाह-सतोऽर्थस्य इत्यादि । सतो विद्यमानस्य अर्थक्रियाकारिणो भावस्य पुनः इति वितर्के उत्तरकालम् उत्पत्तेः स्थितौ किमपेक्षणीयं स्यात् १० न किञ्चिदित्यर्थः । सतोऽर्थस्य स्वभावभूताया अन्यस्या वा केनचित् करणे विनाशे च दोषात्, एवमर्थं च सतोऽर्थस्य इत्युक्तम् , यतः अपेक्षणीयात् कादाचित्की स्थितिः स्यात् तथा तेनैव प्रकारेण पुनः उत्पित्सोर्भावस्य उत्पत्तौ न किञ्चिदपेक्षणीयम् यतोऽपेक्षणीयात् कादाचित्त्वो (चित्को)त्पत्तिः स्यादिति । 'यतः' इत्याद्यनुवृत्तेः। इत्येवं समानं विनाशवदत्वाप्यतदत्तप्येतदस्ति (वदन्यत्राप्येतदस्ति) इति मन्यते ।
नन्वस्य अपेक्षणीयस्याभावेऽपि स्थास्नु-उत्पित्सु-स्वभावापेक्षणात् , अस्य च सर्वदाऽसन्निधानादसिद्धो [१७२ क] हेतुः इति चेत् ; अत्राह-यदि पुनः इत्यादि । भावो जीवादिः स्थास्नुः उत्पित्सु वति (र्वा न) भवेत् न कदाचिदपि तिष्ठेद् उत्पद्येत वा खपुष्पवत् इति । तिष्ठति उत्पद्यते च ततः तत्स्वभाव इति । ननु तद्भावं प्रति अनपेक्षत्वं नश्वरत्वमेव साधयति प्रत्यक्षादिबाधाऽभावात् न स्थित्युत्पत्तिस्वभावं "विपर्ययादिति चेत् ; अत्राह-नहि इत्यादि । हिः २० यस्मात् तद्भावं प्रति अनपेक्षत्वं नश्वरत्वमेव नान्यत् साधयति इति न समन्जसम् उपपन्नम् । कुत एतत् ? इत्यत्राह-अन्यत्रापि । आपाद्यसाध्येऽपि अविशेषाद् विशेषाभावात् ; तत्रापि प्रत्यक्षादिबाधाऽभावादिति मन्यते ।
उपसंहारव्याजेन परकीयस्य हेतोरसिद्धतां दर्शयन्नाह-तद् इत्यादि । यत एवं तत् तस्मात् इमे प्रत्यक्षतः प्रतीयमाना अर्था जीवादयः स्वरसत एव [स्व] भावत एव उत्तरी- २५ भवन्तः पूर्वाकारपरित्यागाऽजहवृत्तोत्तराकारं गच्छन्तः आत्मसात्कुर्वन्ति इति युक्तम् । किम् ? इत्याह-अतिशयाधानं योग्यतास्थापनम् । कथम् ? इत्याह-यथायोगमिति उत्पादविनाशसहकारिकारणसंबन्धो योगः तस्य अनतिक्रमेण । कथंभूतम् ? इत्याह-परस्परोपकारम् इति । परस्परेण सहकारिणा उपादानस्य अनेन सहकारिण उपकारो यस्मिन् येन इति
(१) कथञ्चिन्नित्ये । (२) विपक्ष एव । (३) स्थितेः । (४) उत्पत्तिस्थितिस्वभावः । (५) बाधासनावात् । (६) उत्पत्तिस्थितिस्वभावम् । (७)आपाद्यं यत् साध्यम् उत्पत्तिस्थितिस्वभावरूपं तस्मिन् । (6) पूर्वाकारपरित्यागः उत्तराकारस्वीकारश्च परस्परम् अजहवृत्तः-ध्रौव्यत्वं स्वीकुर्वन्नेव संजायते इति भावः । द्रष्टव्यम्-पृ.१टि. ९। (९) उपादानेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org