________________
२०८
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः [ अनिष्टसिद्धः पारायं यथाऽनिष्टं प्रसाधयेत्' ।
संहतत्वं तथा सत्त्वं शब्द[क्षणिकतान्वयि] ॥१८॥ परार्थाश्चक्षुरादयः 'नहि विपक्ष एव निर्णयात् कृतकत्वस्य । *"यद् यद्भाव प्रति अन्यान्यपेक्षं तत्तद्भावनियतं यथा अन्त्या कारणसामग्री स्वकार्यजननं प्रति" इति परस्य ५ चोदितचोद्यमेतत् । तथा चेत भावः कालान्तरस्थानोत्पादं प्रत्यनपेक्षणात् तद्भावनियतः सिध्येत् नान्यथा । सतोऽर्थस्य पुनः उत्तरकालं स्थितौ किमपेक्षणीय स्यात् यतः कादाचित्की स्थितिः स्यात्, तथा पुनरुत्पित्सोरुत्पत्तौ न किञ्चिदपेक्षणीयमिति समानम् । यदि पुनः भावः स्थास्नुरुत्पित्सुर्वा न भवेत् न कदाचिदपि तिष्ठेदुत्पद्येत वा खपुष्पवत्। नहि
तन्नश्वरत्वमेव साधयतीति समञ्जसम् अन्यत्राप्यविशेषात् । तदिमेाः स्वरसत एवोत्तरी१० भवन्तो यथायोगं परस्परोपकारमतिशयाधानमात्मसात्कुर्वन्ति । कस्यचित् कुतश्चिद्विनाशे परोऽन्य एव जायते । ननु निरन्वयनिवृत्तौ कस्य कारणाहिता कार्योत्पत्तिः ?]
अनिष्टस्य परिणामाऽनित्यत्वस्य सिद्धेः तत्रैव सर्वहेतूनां दर्शनान्न तत्साध्यमिति 'वैफल्याच साधनस्य' इति शेषः, यदर्थं तत्प्रयुक्तं तस्य असाधनात अनिष्टसिद्धिं समर्थयते पारा
य॑म् इत्यादिना । चक्षुरादीनां संबन्धि संहतत्वं कर्तृ प्रसाधयेत् यथा येन [१७१क] १५ तत्रैव दर्शनप्रकारेण । किम् ? इत्याह-पारार्थ्यम् । किम्भूतम् ? अनिष्टम् तेषामेवे
सांख्येन संहतं तत् साधयितुम् इष्टं संहतं प्रसाधयेत् । एवं परप्रसिद्धं निदर्शनं प्रतिपाद्य दार्शन्तिकं प्रतिपादयति तथा सत्त्वं शुद्धतररूपम् 'अनिष्टं प्रसाधयेत्' इति सम्बन्धः । किंभूतं सत्त्वम् ? इत्याह-शब्द इत्यादि ।
___कारिकार्थं प्रकटयति-परार्थाश्चक्षुरादयः इत्यादिना । कुत एतत् ? इत्यत्राह-नहि २० इत्यादि । विपक्ष एव परिणाम एव निर्णयात कृतकत्वस्य इति । ननु यद्यपि कृतकत्वस्य तत्रैव निर्णयः तथापि न तेन तव्याप्तिः अनुमानेन तद्विपरीतव्याप्तिप्रसाधनादिति परः । तदेव दर्शयन्नाह-यद् यद्भावम् इत्यादि । ननु पूर्वम् 'उत्पादस्थितिभङ्गानाम्' इत्यादिना सर्वमेतदुक्तम्, इति किमर्थं पुनरपि उच्यते इति चेत् ? सत्यमुक्तम् , किन्तु पूर्व विनाशे अयमिव
(अयमेव) स्वतन्त्रो हेतुः, अधुना अनेन कृतकत्वादेः नाशित्वेन अविनाभावः साध्यत इति २५ विभागः । यद्वा 'विपक्ष एव निर्णयात्' इत्यस्य हेतोभक्तेनैव परग्रथनासिद्ध तामुद्भानैव (हेतोर्यत्तेनैव परं प्रत्यसिद्धता उद्भाविता) तां परिहरति परस्य चोदितचोद्यमेतत् इति निपानार्थ (निदर्शनार्थम् ) । यद्वस्तु यस्य भावो यद्भावः तं प्रति अनपेक्षं तद्वस्तु तद्भावनियतं द्वितीयेन तच्छब्देन यदुक्तं तस्य परामर्शः । अत्र दृष्टान्तमाह-यथा इत्यादिकम् । अन्त्या चासौ कारणसामग्री च इति तत्सामग्री स्वकार्यजननं प्रति अनपेक्षा सती तद्भावनियतैव स्वकार्यजनन
(१) “यथा परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवदिति । तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्धः ।"-न्यायबि० ३।८७, ८८ । (२) चक्षुरादीनाम् । (३) विपक्ष एव । (४) पक्ष एव । (५) पृ० २०२ । (६) तद्भावं प्रत्यन्यानपेक्षत्वादिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org