________________
३१७] क्षणिके नार्थक्रिया
२०७ कारिकां विवृण्वन्नाह-पक्ष इत्यादि । जीवच्छरीरं सर्व पक्षः, घटादिः विपक्षः, ताभ्यां सर्वस्य चेतनेतरजातस्य संग्रहात् यथा जीवच्छरीर(रे)प्राणादिः अनन्वयः साधर्म्यदृष्टान्तरहितः तथा क्षणिकत्वे साध्ये, अपिशब्दो भिन्नप्रक्रमः 'सत्त्वकृतकत्वादिः' इत्यस्य अनन्तरं द्रष्टव्यः । यदि वा, यथास्थानमेव अपिशब्दोऽस्तु । तत्रायमर्थः-क्षणिकत्वे अपिशब्दाद् अक्षणिकत्वेऽपि इति । नहि तत्रापि सपक्षोऽस्ति, अनन्वयः इत्यपेक्षा । कुतः ? इत्यत्राह-नहि ५ इत्यादि । [हि] यस्मात् न व्याप्तिसाधने सत्त्वादेः क्षणिकेतरत्वाभ्याम् अविनाभावसिद्धौ तृतीयाराशिरस्ति सपक्षाभिधाना प्रतिरत्र तद्रासौ (अस्ति यत्र तद्राशौ) हेतुः सत्त्वादिः वर्तेत । शब्दादिः तृतीया राशिरस्ति इति चेत् ; अत्राह-शब्द इत्यादि । अपिशब्दात् न केवलं विवादगोचरे वस्तुनि इति तथा क्षणिकत्वप्रकारेण अनिश्चयात सत्त्वादेः इति । न च तथाऽनिश्चितसत्त्वं वस्तु निदर्शनम् , इतरथा साध्यमपि स्यादविशेषात् । यदा पुनः शब्द एव क्षणिक[:] १० साध्यः तदा शब्दस्य बुद्ध्यादिभिः सह उपादानं तेनं तेषां समानताप्रतिपादनार्थम् ।
अत्रापरः प्राह-अपरापरताल्वादि-चक्षुरादि-तैलादिव्यापारसाफल्यात् शब्दादीनाम् अपरापरस्वभावसिद्धिः(द्धेः) क्षणिकत्वविनिश्चयः; तदसारमिति दर्शयन्नाह-तत एव इत्यादि । यत एव अपरः तैव्यापारः अपरापरशब्दादिस्वभावमन्तरेण अनुपपन्नो वैफल्यात् , तत एव अनित्यतामात्र परिणामिनित्यत्वं साध्यं क्वचित् सौगतस्य तत्रैव तद्व्यापारस्य उक्तविधिना १५ साफल्यात् । एतदुक्तं भवति-ततो न्यायात् शब्दादौ परिणामाऽनित्यत्वं सिद्ध तन्निदर्शनमुच्यते नान्यत्र सिद्धसाधनात् , तथा च दृष्टान्ताभावात्तदसाध्यमुक्तम् । [१७० ख] एतच्चोक्तमिति किमनेनेति चेत् ; न; अन्यथा अभिप्रायात् । यदुक्तं प्रज्ञा क रे ण-*"क्षणिकत्वे साध्ये न दृष्टान्ताभावो नीलादेः सर्वस्य, तत्र यद्य(द)वभासते तत्तथैव परमार्थसद्व्यवहारावतारि यथा नीलं नीलतयाऽवभासनं तथैव तदवतारि, सर्वमवभासते च क्षणिकतया ।" इति; २० तत्र पक्षस्य प्रत्यक्षबाधनं हेतोश्च असिद्धत्वमनेन कथ्यते । अथवा, क्षणिकत्वात् नीलादेरव्यतिरेके तद्वत् तस्यापि स्वभावविप्रकर्ष इति दृष्टान्तस्य साध्यसाधनोभयवैकल्यम् । तत्र तदनभ्युपगमे क हेतोः उपसंहार इति प्रदर्यते ।
स्यान्मतम्-सौगतस्य दानादिचेतांस्येव पुण्यपापव्यपदेशभाञ्जि, तेषां च स्वसंवेदनाध्यक्षविषयत्वात् न [स्व]भावविप्रकर्ष इति साधनविकलता दृष्टान्तस्येति; तदशिक्षिताभिधानम् ; यतः २५ ततः कालान्तरे फलाऽसिद्धः, तदन्याभ्युपगमस्य अवश्यंभावात् । अथ मतम्-स्वभावविप्रकर्षेऽपि पुण्यपापयोः सर्वैरपि वादिभिः साधनात् , साध्यविकलता दृष्टान्तस्येति; तदनुपपन्नम् ; प्रक्रमाऽपरिज्ञानात् । ततः तदसाध्य 'साधनात् । साध्यं तु उक्तमेव ।
साम्प्रतं हेतोविरुद्धत्वात् न तत् साध्यम्; इत्याह-अनिष्टसिद्धेः।
(१) शब्देन । (२) बुद्ध्यादीनाम् । (३) ताल्वादिव्यापारः। (४) क्षणिकत्ववत् । (५) नीलादेरपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org