________________
२०६
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः ननु च उत्पादस्य अहेतुकत्वे नित्यं सत्त्वमसत्त्वं वा । तदुक्तम्
*"नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।।
अपेक्षातो हि भावानां कादाचित्कत्वसंभवात् ॥" [प्र०वा० ३।३४] इति चेत् ; अत्राह-कांश्चित् द्रव्य इत्यादि । कांश्चिद् विवक्षितान् द्रव्यक्षेत्रकाल५ स्वभाव[विशेषान् ] विशेषशब्दः प्रत्येकं द्रव्यादिभिः सम्बन्धनीयम् (नीयः), परिहृत्य । का (क) ? अन्यत्र अभिमतकालादौ भवन् जायमानः वाशब्दो भिन्न[१६९ख] प्रक्रम इवार्थः 'उत्पाद' इत्यस्यानन्तरं द्रष्टव्यः। तत उत्पाद इव विनाशः तदपेक्षो अन्यद्रव्यापेक्षः तद्धतुः द्रव्यादिहेतुको युज्येत। कुत एतत् ? इत्यत्राह-प्रतीति(ते)रविरोधात् । अथवा, यथानिवेशमेव
वा शब्दो व्याख्येयः। विनाशवद् उत्पादोऽपि स्वत एव इति स्वभाववादिनं प्रति 'कांश्चिद्' १० इत्यादेः उपन्यासात् । अत्र 'च' इति समुच्चये । शेषं पूर्ववत् ।
एवं सत्यपि दृष्टान्ते व्याप्तिग्रहणाभावात् क्षणक्षयादौ सर्वहेतूनां गमकत्वं प्रतिपाद्य संप्रति दृष्टान्ताभावात्तत्प्रतिपादयन्नाह-जीवच्छरीर इत्यादि ।
यदि वा, यदुक्तम् अर्च टे न-*"सत्त्वादेः अन्वयाभावेऽपि व्यापकानुपलब्धः विपक्षव्यतिरेकाद् गमकत्वम्" इति' ; तत्र कृतं निषेध (धम्) उपसंहरन्नाह-जीवच्छरीर १५ इत्यादि।
[ जीवच्छरीरे प्राणादिर्यथाऽहेतुर्निरन्वयात् ।
तथा सर्वः सत्त्वादिरहेतुः क्षणिक क्वचित् ॥१७॥ पतविपक्षाभ्यां सर्वस्य संग्रहात् यथा जीवच्छरीरे प्राणादिरनन्वयः तथा क्षणिकत्वेऽपि सत्त्वकृतकत्वादिरिति । न हि क्षणिकत्वेतराभ्यां तृतीया राशिरस्ति यत्र हेतुर्वर्तते २० शब्देऽपि तथानिश्चयात् । अपरापरताल्वादिचक्षुरादितैलादिव्यापारसाफल्याच्छब्दा
दीनामपरापरस्वभावसिद्धेः क्षणिकत्वविनिश्चयः, तत एव अनित्यतामात्रं साध्यं क्वचित् सिद्धम्, तत्रैव तद्व्यापारस्य साफल्यात् ।]
जीवच्छरीरे सात्मकत्वे साध्ये प्राणादिः हेतुः यथा येन प्रकारेण अहेतुः । कुतः ? इत्याह-निरन्वयात् साधर्म्यदृष्टान्ताभावात् । तथा सर्वः शुद्धाशुद्धस्वभावः सत्त्वादिः २५ निरन्वयादहेतुः क्षणिके क्वचित् कस्मिंश्चित् शब्दादौ साध्ये क्षणिकत्वे वा क्वचित् साध्ये ।
अथवा, जीवच्छरीरे सात्मकत्वे साध्ये प्राणादिः हेतुः निरन्वयाद् अन्वयाभावं प्राप्य योऽसौ उक्तः स यथा येन व्यतिरेकाभावप्रकारेण सत्त्वादिरहेतुः। शेषं पूर्ववत् ।
(१) "एतच्च बाधकं प्रमाणं व्यापकानुपलब्धिरूपमुत्तरत्रावसरप्राप्तं स्वयमेव वक्ष्यति । तदनया बाधकप्रमाणप्रवृत्त्या साध्यधर्मस्य वस्तुनः साधनधर्मस्वभावता सिध्यति ।"-हेतुबि० टी० पृ. ४४। (२) "अनयोरेव द्वयो रूपयोः सन्देहे अनैकान्तिकः। यथा सात्मकं जीवच्छरीरं प्राणादिमत्वादिति । न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिवर्तेत | आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् । न तत्रान्वेति । एकात्मन्यपि असिद्धेः।"-न्यायबि०३१९६-९९, १०३-४। (३)शुद्धः सत्त्वं हेतुः। अभिन्नविशेषणविशिष्टः 'उत्पत्तिमत्वात्' इति, भिन्नविशेषणविशिष्टः कृतकत्वादिति । एतौ अशुद्धौ । द्रष्टव्यम्-न्यायबि. ३१९-११।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org