________________
२०५
२१६]
न निर्हेतुको विनाशः ___ अत्र प्रतिविधीयते-यथैव हि सौगतस्य प्रागभावः प्रध्वंसाभावश्च तुच्छो नास्ति तथैव करणात् , एकान्तेन भिन्न कार्यमपि [१६८ ख] नास्ति किन्तु उपादानमेव उपादेयो भवति इति प्रतिपादितम्' *"विज्ञप्ते" [सिद्धिवि० ३।१४] इत्यादिना । ततः प्रागभावं घटविविक्तमृत्पिण्डाकारं द्रव्यं भावीकुर्वन् घटीकुर्वन् घटपर्यायोपेतं जनयन् उत्पादहेतुः उपादानम् , सहकारिकारण (ण) कारणकलापं इति चेत् ; प्राग्भावं घटसत्त्वम् अभावीकुर्वन् स्वपर्यायकपालविविक्तं ५ कुर्वन् विनाशहेतुः किन्नानुमन्यते ? अयमेवाचार्यस्य अभिप्रायः । 'यदि पुनः' इत्यादि[ना]पूर्वपक्षान् (क्षं) यदि पुनः (तथैव) इत्यादिना तु अपरपक्षं दर्शयति । यदि इति पराभिप्रायसूचने, पुनः इति वितर्के, भावस्य घटादेः प्रध्वंसाभावोऽपि न केवलं प्रागभावः स्वत एव स्वस्मादेव नश्वरस्वभावात् नान्यतो मुद्गरादेः । अत्र निदर्शनमाह-अभावान्तरवत् इतरेतरात्यन्ताभाववत् , सोऽपि स्वभावः, कुतः ? इत्याह-स्वहेतोरेव । प्रध्वंसः कपालात्मना भावः स्वत एव अभावत्वात् १० इतरेतराभाववत् ; अत्र दूषणमाह-तथैव इत्यादि । तथैव तेनैव प्रकारेण भावस्य स्थितिः परापर[क्षणेषु] अवस्थानमपि न केवलं प्रध्वंस एव स्वत एव स्यात् इति । शक्यं हि वक्तुं भावस्य स्थितिः स्वत एव भावधर्मत्वात् प्रध्वंसवत् । न चात्र धर्म्यसिद्धिः; पूर्वस्य उत्तरक्षणे विवेकवद् अविवेकत्वात् [स्यापि प्रसिद्धः, त]था चोक्तं न्या य वि नि श्च ये
*"भेदज्ञानात् प्रतीयेते प्रादुर्भावात्ययौ यदि । अभेदज्ञानतः सिद्धा निरंशे न (स्थितिरंशेन) केनचित् ॥" [न्यायवि० श्लो० ११४]
अत एव न स्वरूपासिद्धो हेतुः प्रत्यक्षादिबाधितो वा पक्षः । अनेन [१६९क] पूर्वस्य हेतोविरुद्धत्वमित्थं कथयति-तत्र यदुक्तं प्राग्भावम् इत्यादि ; तद्युक्तम् ; यतो नश्वरं चेत् 'तमभावीकुर्वन् विनाशहेतुः किं तेन ? स्वयमेव नाशात् । 'विपरीतं चेत् ; तदशक्यम् । नहि अनश्वरं तं कश्चिद् अभावीकत्तुं समर्थ इति चेत् ; अत्राह-यथा च इत्यादि । यथा इति २० वचनाद् अनुक्तमपि 'तथा' इति गम्यते । तथा स्वयम् आत्मनोऽपि अनुत्पित्सोश्च पुनः उत्पादहेतुः 'अकिञ्चित्करः' इति सम्बन्धः । प्रथमस्य [स्वयम् उत्पत्तेरन्यस्य शशविषाणवत् कारणसन्निधानेऽपि अनुत्पत्तेरिति भावः । एवं स्थितावपि दर्शयति स्थास्नोः इत्यादिना । स्थितिहेतुः अकिञ्चित्कर इत्येवं सर्व समानम् । अनेनैव तद्दर्शयति-उत्पादस्थितिभङ्गान् प्रति अनपेक्षत्वं भावस्य सिद्धं तत्स्वभावापेक्षणात् इति तद्वि (तद्वद्वि)नाशेऽपि । 'यदि पुनः २५ तं प्रति नापेक्षं तत्स्वभावस्य सर्वदा सन्निधानात्' इत्युच्यते तथा प्रतीतेः ; तदितरत्र समानमिति । तथा च
*"विरुद्धाव्यभिचारी स्यात् सर्वो हेतुः परोदितः ।
समत्वात् परपक्षेऽपि यद्वा स्यात् कल्पितः स्वयम् ॥" (१) पृ० १९८ । (२) अन्यः कारणसमूहः । (३) “तथैव स्थिति प्रत्यनपेक्षं स्थास्नु तद्धतोरकिकिंवत्करत्वात् , तदव्यतिरिक्ताव्यतिरिक्ताकरणादित्यादि सर्व समानम्।"-अष्टश. अष्टस० पृ० १. (४) स्थितिरूपस्य धर्मिणोऽसिद्धिः । (५) भेदवत् । (६) अभेदस्यापि । (७) भावम् । (८) विनाशहेतुना । (९) अनश्वरस्वभावम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org