________________
२०४
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः मुद्रादिः करोति इत्येवं 'भावं न करोति' इति हेतोः क्रियाप्रतिषेधात घटादेः करणनिराकरणात् अकिश्चित्करत्वं विनाशहेतोः, क्रियाप्रतिषेधरूपत्वात् प्रसज्यप्रतिषेधस्य इति तत् तस्मात् केन अपेक्ष्येत न केनचित् कचित् कार्ये इत्यर्थः ।
___ उपसंहरन्नाह-तत इत्यादि । यत एवं ततः स्वभावतो नश्वरोऽर्थः सिद्धः । तथा च ५ प्रयोगः-यो यं प्रति अन्यानपेक्षः स तत्स्वभावनियतः यथा अन्त्या कारणसामग्री स्वकार्योत्पादनं
प्रति अनपेक्षा तत्स्वभावनियता, विनाशं प्रति अन्यानपेक्षश्च भावः इति । एवं दृष्टान्तं व्याख्याय दार्टान्तिकं विवृण्वन्नाह-तथैव इत्यादि । तथैव तेनैव प्रकारेण भावस्य घटादेः उत्पादहेतुः अकिञ्चित्करः। कुत एतदिति चेत् ? अत्राह-'कृतस्य उत्पादन' इत्यादि । इदमत्र तात्पर्यम्
यथा विनाशोऽभाव इति भाववतो भेदविचारमर्हति तथा उत्पादोऽपि तदविशेषादिति । तथाहि१० यदि सत एव स्वभावभूत उत्पादः क्रियते; तर्हि स एव क्रियते इति कृतस्य उत्पादने प्रयो
जनाभावात् हेतुस्वभाववदिति । एतेन स्वभावभूतोऽपि चिन्तितः । न खलु सतो घटस्य अर्थान्तरभूतोऽपि सः क्रियमाणः कश्चन अर्थं पुष्णाति ।
स्यान्मतम्-अस्य विकल्पद्वयस्य निरालम्बनत्वात् नातः प्रकृतसिद्धिरिति चेत् ; अत्राहतत एव इत्यादि । तत एव अनन्तरविकल्पभेदादेव नान्यतोऽभावस्यापि न केवलमुत्पादस्य १५ स्वभावतः सिद्धत्वाद् 'उत्पादहेतुः अकिञ्चित्करः' इति सम्बन्धः । अस्य [१६८क] विकल्पद्वयस्य निरालम्बनत्वे सौगतस्य इष्टाऽसिद्धिरिति मन्यते ।
परमतमाशङ्कते-प्रागभावम् इत्यादिना । अथ कोऽयं प्रागभावो नाम ? उत्पत्तेः पूर्वमभाव इति चेत् ; स मृत्पिण्डादन्यः, स एव वा स्यात् ? प्रथमपक्षे नैयायिकादेः तन्मतं न सौगतस्येति
तन्मतानभिज्ञानात् । न च तुच्छमभावं कश्चिद् भावीकरोति बन्ध्यासुतादेरपि तत्करणप्रसङ्गात्, २० भावोपादानकल्पनावैफल्यप्रसङ्गाच्च । तन्नाद्यः पक्षः। द्वितीयेऽपि पक्षे 'मृत्पिण्ड एव प्रागभावः, तं भावीकुर्वन्' इत्युक्तम् , तँस्य पूर्वमेव सतः तदयोगात् । अथ तं घटाभावात्मकं भावीकुर्वन् इत्ययमर्थो विवक्षितः, सोऽपि न युक्तः, तंतो घटस्य भिन्नत्य भावात् व्यपदेशादिभेदात् । तन्न द्वितीयोऽपि युक्तः । यदप्यत्रोत्तरम्-'प्राग्भावम्' इत्यादि । तत्रापि चिन्त्यते-किमिदं प्राग्भाव
मिति ? यदि विनाशात् पूर्वकालभावी घटः प्राग(ग्)भावः तमिति; तर्हि बौद्धस्य न कश्चित् २५ तुच्छो विनाश इति कस्य ततः प्राग् अन्यदा वा भावः ? न खलु बन्ध्यासुतात् प्राक् किञ्चिद्
भवति । तत एव "तम् अभावीकुर्वन्' इत्ययुक्तम् ; अभावस्य ततो"व्यतिरेकाव्यतिरेकयोर्यथोक्तदोषात् । अथ "तम् 'अभावीकुर्वन् कपालीकुर्वन्' इत्युच्यते; तदसारम् ; तस्यैव कपालभावयोगात् , घटनाशे कपालभावायोगात् , ततो यत्किञ्चिदेतदिति ।
(6) “अथ क्रियानिषेधोऽयं भावं नैव करोति हि । तथाप्यहेतुता सिद्धा कतुर्हेतुत्यहानितः ॥" -तत्त्वसं० श्लो. ३६६। (२) “यद्भावं प्रति यन्नैव हेत्वन्तरमपेक्षते । तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात् ॥ निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा। विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः॥"-तत्वसं. श्लो० ३५४-५५ । (३) स्वकार्योत्पादमस्वभावनियता । (४) उत्पादः । (५) सद्भावकरणप्रसङ्गात् । (६) अभावादेव सर्वकार्योत्पत्तेः । (७) मृत्पिण्डस्य । (८) मृत्पिण्डम् । (९) मृत्पिण्डात् । (१०) प्राग्भावम् । (११) भिन्नाभिन्नपक्षयोः। (१२) भावम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org