________________
॥१६]
क्षणिके नाथक्रिया
२०३ न्तरं दर्शयन्नाह-सम्बन्ध इत्यादि । सम्बन्धस्य पारतन्त्र्यस्य असिद्धः कारणाद् अस्य घटादेविनाश इत्येवं व्यपदेशोपि, अभिधानमपि न केवलम् अनन्तर एव दोष इति अपिशब्दः, मा भूत् ।
ननु किमुच्यते [१६७क] सम्बन्धासिद्धिः (द्धेः) इति, यावता विशेषणीभावो भावाभावयोः सम्बन्धः सिद्ध इति चेत् ; न; अत्र अनवस्थितेः प्रतिपादनात् । माभूत् तयोः सम्बन्धो ५ व्यपदेशो वा तथापि न दोषः, सम्बन्धरहितस्य अभ्युपगमात् इत्येके; तदपि न सुन्दरम् ; साक्षात् परम्परया वा तस्य इन्द्रियेण असम्बन्धो न; अग्रहणप्रसङ्गात् । तथापि ग्रहणे रूपादेः तेनै सम्बन्धकल्पनमनर्थकम् ।
स्यान्मतम्-अभावेन तस्य स्थगनात् तथोपलम्भाद्यभावादयुक्तस्य (क्त'तस्य) करणेऽपि' इत्यादि । तत्रोत्तरमाह-नच इत्यादि । नच नैव व्यतिरिक्तो घटादेः अर्थान्तरभूतो विनाशो नाम । १० स्फुटार्थे नाम शब्दः, तद्ग्राहकप्रमाणाभावेन अभावात् । दूषणान्तरमाह-तदात्मानम् इत्यादि। अस्यायमर्थः-सन्नपि तदात्मानं तस्य दृश्यस्य घटादेः आत्मानं स्वभावम् अखण्डयन् अविनाशयन् तदवस्थमेव तदात्मानं स्थगयति, न च यतः स्थगनात् न दृश्येत । सता हि स्वविषयज्ञानजननयोग्येन अवश्यं तत्कर्त्तव्यमिति मन्यते । तदात्मखण्डने स एव दोषोऽनवस्था च ।
प्रकृतं निगमयन्नाह-तदयम् इत्यादि । यत एवं तत् तस्माद् अय लोके प्रतीयमानो १५ विनाशहेतुः मुद्गरादिः । तेंदतक्रियाविकलो घट[स्वभावा] स्वभावविनाशकरणविकलः कथं नैव अपेक्ष्यो 'विनाशकार्ये' इत्युपचारयतो (पस्कारः, यतः) अपेणात् कादाचित्को भावस्य विनाशः स्यात् । यत इति वा आक्षेपे, नैव स्यात् , नित्यः स्यात् इत्यर्थः ।। अत्रैव दूषणान्तरमाह-विनाशो यद्यभाव[:]स्याद् इत्यादिना । [विनाशो यद्यभावः स्यात् क्रियाप्रतिषेधान्न[चेत् ।
भावं न करोतीति केनापेक्ष्येत तत्कचित् ॥१६॥ ततः स्वभावनश्वरोऽर्थः सिद्धः, तथैव भावस्य उत्पादहेतुरकिञ्चित्करः कृतस्य उत्पादने प्रयोजनाभावात् । तत एवाभावस्यापि स्वतः सिद्धत्वात् । प्रागभावं भावीकुर्वन्नुत्पादहेतुश्चेत् ; प्राग्भावमभावीकुर्वन् विनाशहेतुः किन्नानुमन्यते ? यदि पुनर्भावस्य प्रध्वंसाभावोऽपि स्वत एव अभावान्तरवत् स्वहेतोरेव अभावत्वात् , तथैव भावस्य २५ स्थितिरपि। यथा च स्वयमनुत्पित्सोः उत्पादहेतुः स्थास्नोः स्थितिहेतुरिति उत्पादस्थितिहेतुरिति उत्पादस्थितिभङ्गान् प्रत्यनपेक्षत्वं भावस्य सिद्ध तत्स्वभावापेक्षणात् , कांश्चिद् द्रव्यक्षेत्रकालस्वभावविशेषान् परिहृत्य अन्यत्र भवन् उत्पादो विनाशो वा तदपेक्षस्तद्धेतुश्च युज्येत प्रतीतेरविरोधात् ।]
विनाशः यद्यभावः प्रसज्यप्रतिषेधरूपा [१६७ख] भावनिवृत्तिः यदि तर्हि अभावं ३०
(1) पूर्ववदुपलम्भादिप्रसङ्गलक्षणः । (२) भावाभावयोः । (३) इन्द्रियेण सह । (४) आत्मखण्डनं भिन्नमभिन्नं वा क्रियते इत्यादि । (५) भिन्नाभिन्नविनाशकरणरहितः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org