________________
सिद्धिविनिश्चयटीकायाम्
*“विनाशनियतो भावः तं 'प्रत्यन्यानपेक्षणात् । तद्धे तूनामसामर्थ्यात्" इति;
तदेतदन्यत्रापि समानमिति तत्साधनमिति दर्शयन्नाह - 'उत्पादस्थितिभङ्गानाम्'
इत्यादि ।
२०२
[ ३ प्रमाणान्तरसिद्धिः
[ उत्पादस्थितिभङ्गानां स्वभावादनुबन्धिता । तद्धेतूनामसामर्थ्यादतस्तत्त्वं त्रयात्मकम् ॥१५॥
यथैव हि भावस्य विनाशहेतुः स्वभावभूतस्य विनाशं न करोति कृतस्य करणाभावात् । नापि परभूतं करोति, तस्य करणेऽपि प्रागिव तदवस्थस्य तथोपलम्भादिप्रसङ्गात् । सम्बन्धासिद्धेः अस्येति व्यपदेशोऽपि मा भूत् । न च व्यतिरिक्तो घटादेर्विनाशो १० नाम | सन्नपि तादात्मानमखण्डयन् तदवस्थमेव स्थगयति यतोन दृश्येत । तदयं विनाशहेतुः तदतत्क्रियाविकलः कथमपेक्ष्यः यतः कादाचित्को विनाशः स्यात् ? ]
प्रागसत आत्मलाभः उत्पादः, सतः पुनरभावो [१६६ख ] भङ्गः पूर्वस्य द्वितीयादिक्षणे, अवस्थानं स्थितिः इति एतेषां स्वभावात् स्वरूपेण हेतुभूतेन अनुबन्धिता अविनाभाविता । कुत एतत् ? इत्यत्राह - -हे (तद्धे ) तूनाम् इत्यादि । तेषाम् उत्पादस्थितिभङ्गानां ये हेतवः तेषाम् १५ असामर्थ्यात्, ‘उत्पादस्थितिभङ्गेषु' इति विभक्तिपरिणामेन सम्बन्धः । अतः अस्मात् न्यायात् तत्त्वं जीवादिस्वरूपं त्रयात्मकम् उत्पादस्थितिभङ्गात्मकम् ।
सदृष्टान्तं कारिकार्थं दर्शयन्नाह - यथैव हि इत्यादि । यथैव येनैव प्रकारेण, हिः इति वितर्के भावस्य घटादेर्विनाशहेतुः मुद्गरादिः स्वभावभूव (तं) स्यात्म (स्वात्म) भूतं 'भावस्य ' इत्येतदत्रापि सम्बन्धनीयम्, विनाशम् अभावं न करोति । कुत एतत् ? इत्यत्राह - कृतस्य २० इत्यादि । कृतस्य स्वकारणात् निष्पन्नस्य भावस्य करणाभावाद् भावस्य स्वभावभूतविनाशकरणाभाव एव कृतः स्यात्, तस्य च स्वहेतोः उत्पत्तेर्न करणमिति मन्यते । अस्वभावभूतं तर्हि करोति; इत्याह-नापि इत्यादि । परभूतम् अर्थान्तरभूतं नापि करोति तस्य परभूतस्य विनाशस्य करणेऽपि न करणे (नाकरणे ) प्रागिव तदवस्थस्य पूर्वावस्थाऽविचलितस्य भावस्य तथा पूर्ववद् उपलम्भादिप्रसङ्गात् । आदिशब्देन अर्थक्रियादिप्रसङ्गात् इति गृह्यते । दूषणा
Jain Education International
(१) विनाशं प्रति अन्य कारणानामपेक्षा नास्तीत्यर्थः । (२) “विनाशहेत्वयोगात् । स्वभावत एव भावा नश्वराः, नैषां स्वहेतुभ्यो निष्पन्नानामन्यतो विनाशोत्पत्तिः तस्यासामर्थ्यात् । न हि विनाशहेतुर्भावस्य स्वभावमेव करोति तस्य स्वहेतुभ्यो निर्वृत्तेः । नापि भावान्तरमेव ; भावस्य तदवस्थत्वात्तथोपलब्ध्यादिप्रसङ्गः । नापि भावान्तरेणावरणम् ; तदवस्थे तस्मिन्नावरणायोगात् । नापि विनाशहेतुना अभावः क्रियते अभावस्य विधिनान्यतयोपगमे व्यतिरेकाव्यतिरेकविकल्पनातिक्रमात् । भावप्रतिषेधकरणे न तस्य किंचित् भवति न भवत्येव केवलमिति । एवं च कर्ता न भवतीत्यकत्तु रहेतुत्वमिति न विनाशहेतुः कश्चित् । वैयर्थ्याच्च । यदि स्वभावतो नश्वरः न किञ्चिन्नाशकारणैः, तत्स्वभावतयैव स्वयं नाशात् । यो हि यत्स्वभावः स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षते । " - हेतुबि ० पृ० ५६ । प्र०वा०स्व० १।२७२ ।
For Personal & Private Use Only
www.jainelibrary.org