________________
३।१४] क्षणिके नार्थक्रिया
२०१ तयोः सहभावेऽपि युगपद्भावेऽपि कथञ्चिदेकत्वभावेऽपि वा । किम् ? इत्याह-'सहोप' इत्यादि । पूर्ववद् व्याख्यानम् । तथाहि-तस्या विभ्रमः (म) स्वभावोपलम्भे न इतरस्वभावोपलम्भः । न हि शुक्ले शङ्ख पीततोपलम्भे शुक्लस्वभावोपलम्भः । ततो न युक्तम्-*"अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४] इति,
*"नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः ।
ग्राह्यग्राहकवैधुर्य्यात् स्वयं सर्व प्रकाशते ॥" [प्र० वा० २।३२७] इति च । वदात्मनः (संविदात्मनः) पुरुषवत् स्वप्नेऽप्यदर्शनात् ततो भ्रान्तिमात्रे व्यवतिष्ठेत । इतरस्वभावादर्शनेऽपि गतेयं विभ्रमवार्ता इति निरभिधेयमेतत्-*"अवेद्यवेदकाकारा"[प्र०वा० २॥३३०] इत्यादि। *"अविभागोऽपि"[प्र०वा० २।३५४] इत्यादि च । न खलु चन्द्रमस्यविभागेऽवभासने चन्द्रद्वयप्रतिभासकल्पननु (नं) लोकबाधनात् । प्रज्ञा क रः (र स्य)*"पूर्व-१० मविभागबुद्ध्यात्मनो दर्शनं पुनः तत्पृष्ठभाविना विकल्पेन स ग्राह्यग्राहकसम्वित्तिभेदवानिव लक्ष्यते" इति वचनं [१६६क] नहि निर्विकल्पकेन किञ्चित् लक्ष्यते नाम, इति सः धर्म की तैः अभिप्रायमज्ञात्त्वैव मन्यते, तथा तदभिप्रायाऽभावात् , अन्यथा *"मन्त्राद्युपप्लुताक्षाणाम्" [प्र०वा० २।३५५] इत्यादि निदर्शनमप्रेक्षाकारितां तस्य सूचयेत् । नहि नाम सविभ्रमे अक्षविभ्रमो निदर्शनम् , ईश्वरादिविभ्रमस्य तज्जातीयस्य भावात् । न चास्य द्विचन्द्रादि- १५ भ्रान्तिरपि इन्द्रियजा इति सिध्यति । शक्यं हि वक्तुम्-प्रथमम् एकेन्दुदर्शनम् , पुनस्तस्य विकल्पेन द्वित्वाध्यवसाय इति । तथा च तस्या इन्द्रियजत्वं साधयतों धर्म कीर्तेः [अकीर्तिः] आयाता। शेषमत्र प्रथमपरिच्छेदेऽभिहितं प्रकृतेऽपि द्रष्टव्यम् । ततो यत्किञ्चिदेतत् ।
एतेन नैयायिकादिरपि जैनं प्रति *"कार्यकारणयोः" इत्यादि वदन निवारितो द्रष्टव्यः । तथाहि-संविदः संशयविपर्ययज्ञानस्य यः 'स्थाणुर्वा पुरुषो वाऽयम्' इति, पुरुषे स्थाणौ वा स्थाणु- २० रिति पुरुषः इति वा विभ्रमस्वभावः, यश्च 'अयम्' इति धर्मिमात्रे इतरस्वभावोऽविभ्रमस्वभावः तयोः । शेषं पूर्ववत् । भवतु अविरुद्धमेकं ज्ञानमिति चेत् ; अत्राह-विज्ञप्तेः इत्यादि । तद् अनन्तरोक्तम् अन्यत्रापि अर्थेऽपि समानं कल्पयन् केन वार्यते । कुत एतत् ? इत्यत्राहपरिणाम इत्यादि । "सनिदर्शनमत्रैव हेतुमाह-चित्र इत्यादिना ।
यत्पुनः परेण भावविनाशयोरपि (रवि)नाभावसाधने उक्तम्
(१) संविदः । (२) संवित् । (३)"यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥" इति शेषः । (४) "विकल्पेन अनुभवादुपजायमानेन व्यवस्थाप्यते व्यवहारतः। अनुदर्शनं दर्शनानुरूपो विकल्पः ।"-प्र० वार्तिकाल० ३।३५७ । (५) प्रज्ञाकरः । (६) धर्मकीर्तेः । (७) द्विचन्द्रादिभ्रान्तः । (6) "नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥"किं वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् । तत्तुल्यं विक्रियावच्चेत् सैवेयं किं निषिध्यते ॥"-प्र०वा. १२९०-१६ इत्यादिना भ्रान्तेरिन्द्रियजत्वं साधयतः । (९) अविभ्रमस्वभावः। (१०) दृष्टान्तसहितम् । (११) "अहेतुत्वाद्विनाशस्य स्वभावादनुबन्धिता। न हि विनश्वरं तद्भावे हेतुमपेक्षते स्वहेतोरेव विनश्वराणां भावात् ।"-प्र० वा० स्व. पृ० ३६० । "विनाशं प्रति सर्वेषामनपेक्षतया स्थितेः।"सर्वत्रैवानपेक्षाश्च विनाशे जन्मिनोऽखिलाः । सर्वथा नाशहतूनां तत्राकिञ्चित्करत्वतः ॥"-तत्त्वसं० श्लो० ३५३, ३५७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org