________________
सिद्धिविनिश्चयटीकायाम्
[ ३ प्रमाणान्तरसिद्धिः
ततः
क्षणिकेऽपि तद॑सम्बन्धे न तस्यै तद्व्याप्तिसिद्धिः इति मन्यते । यत्र उपलब्धिलक्षणप्राप्तं [ यत् ] नोपलभ्यते तत्र तन्नास्ति यथा प्रदेशविशेषे घटः, नोपलभ्यते च तथाविधं कारणं कार्ये इति स्वभावानुपलब्धिः । तत्र तदुपलम्भे वा सर्वस्य सर्वत्रोपलम्भ इति प्राप्तम् । न चैवम्, प्रदेशविशेषे घटवत् कारणे कार्यस्य तत्र च कारणस्य अनुपलब्धिः दृश्यस्य अभाव इति क्षणिकतासिद्धेः न युक्तम्–‘तदेवम्' इत्यादि इत्यभिप्रायवतो मतमाशङ्कते कार्य इत्यादि । कार्यकारणयोः सहावस्थाने अभ्युपगम्यमाने । एतदुक्तं भवति - यथा सतः कारणस्य कार्ये अवस्थानं तथा कार्यस्य कारणे इति । [ततः ] किं स्यात् ? इत्याह- दधिक्षीरादिषु सहोपलम्भेन 'कार्यकारणयोः' इति सम्बन्धः, अभेदादिप्रसङ्गः । अस्यायमर्थः - यदि कार्यं दध्यादि पूर्व कारणेन क्षीरादिना, कारणं क्षीरादि कार्येण दध्यादिना पुनः सहोपलभ्यते तदा 'अस्य इदं [१६५क] कारणम्, इदमस्य कार्यम्' इति यो भेदः तस्य अभावो अभेदः, यदि वा यदा जैन-सांख्ययोः कारणे कार्यं तत्र कारणं तादात्म्येन वर्त्तते तदा कार्यकारणयोः सहावस्थाने एकत्वेन अवस्थाने सति कदाचित् क्षीरादिषु । केन किम् ? इत्याह- सहोपलम्भेन एकत्वोपलम्भेन अभेदः कार्यमेव कारणमेव वा स्यात्, आदिशब्देन वर्त्तमानत्वादिव्यपदेशादिपरिग्रहः, तस्य प्रसङ्गः । इत्येवं चेत्; अस्य उत्तरमाह - संविद् इत्यादि । संविदः तैमिरादिज्ञानस्य यो १५ विभ्रमस्वभावो द्विचन्द्राद्यपेक्षया * “तिमिराशुभ्रमण " [ न्यायवि० १।६ ] इत्यादिवचनात् यश्च इतरस्वभावः स्वरूपापेक्षयाऽविभ्रमस्वभावः * “सर्वचित्त चैत्तानाम् " [ न्यायबि० १।१०] इत्याद्यभिधानात् । अथवा, संविदो निखिलकल्पनाज्ञानस्य यो विभ्रमः स्वभावो *"अभिलापसंसर्ग" [ न्यायवि० १५] इत्यादिवचनात् यश्च इतरस्वभावः स च कथितः, तयोः सहभावेऽपि न केवलम् असहभावे । किम् ? इत्याह- सहोपलम्भादेः इत्यादि । सहोप२० लम्भः सहदर्शनम् आदिर्यस्य अभेदादेः तस्य अभावात् । न वै द्विचन्द्रादिज्ञानस्य प्रतिभा
५
१०
२५
३०
२००
एव तत्स्वभावोपलम्भोऽस्ति विप्रतिपत्त्यभावेन ततः कस्यचित् कदाचिदपि कचित् प्रवृत्ता [त्य ] - भावप्रसङ्गात् । न चैवम्, ततोऽपि प्रवृत्तिदर्शनाद् असत्त्वाख्यात्यादिवादभेदाभावप्रसङ्गाच्च । एतत् सौत्रान्तिकं प्रति पूर्वोक्तस्य व्यभिचारप्रदर्शनार्थं व्याख्यानम् । तयोः सहभावेऽपि कथचिदेकत्वम्, भावेऽपि सर्वथैकत्वोपलम्भादेरभावाद चोद्यमेतत् इति व्याख्येयम् [१६५ख ] ।
- साम्प्रतं योगाचरं प्रति व्याख्यानं क्रियते - संविदो यो विभ्रमस्वभावो ग्राह्यग्राहकसंवेदनत्रयस्वभावः यश्च इतरस्वभावोऽद्वयसं वित्स्वभावः । तथा चोक्तम्
*“अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः । अन्यथैवावभासन्ते तद्रूपरहिता अपि ।। "
Jain Education International
[प्र० वा० २।३५४, ५५ ] इत्यादि ।
(१) अर्थक्रियाया अभावे । ( २ ) सवस्य । ( ३ ) क्षणिकत्वेन व्याप्तिसिद्धिः । ( ४ ) कार्ये । (५) 'सर्व चित्त चैत्तानाम्' इत्यादिना कल्पनाज्ञानस्यापि स्वरूपसंवेदनं अविभ्रमात्मकमेव । ( ६ ) यदि ततः प्रवृत्तिर्न स्यात्तदा ।
For Personal & Private Use Only
www.jainelibrary.org