________________
३१४ ]
क्षणिके नार्थक्रिया चशब्दो भिन्नप्रक्रमः इवार्थः अकालिकैः इत्यस्यानन्तरं द्रष्टव्यः। ततोऽयमर्थः-जातेषु निष्पाद्येषु । केषु ? अर्थेषु कार्येषु सत्सु । कैः ? इत्याह-नित्यैः इति । किंभूतैः ? इत्याह
अन्योऽन्यसहकारिभिः एककार्ये परस्परसहायैः इत्यर्थः । यदि वा, कचित् कार्ये एकस्य उपादानत्वे अन्येषां तत्सामग्रीपतितानां सहकारित्वम् , तेषाम् उपादानत्वे तस्य सहकारित्वमित्यन्योऽन्यसहकारिणः तैः इति । किम् ? इत्याह-अन्ये इत्यादि । तेषु अर्थेषु एकत्र एक- ५ स्मिन् उपादाने सहकारिणि वा कारणे समर्थ व्याप्रियमाणे वा अन्ये सहकारिणः उपादानपदार्था हेतवो न निवर्तेरन् किन्तु सर्वेऽपि तान् कुर्वन्ति तत्करणैकस्वभावत्वात् । अत्र निदर्शनमाह-अकालिकैः इति । [१६४ क] यथा अकालिकैः क्षणिकैः अन्योऽन्यसहकारिभिः जन्येष्वर्थे [षु ए]कत्र अन्ये न निवर्तेरन् हेतवः तथा प्रकृतेऽपि' इति ।
यथा इत्यादिना कारिकां विवृणोति । कार्यकालाऽनतिक्रमेण यथाकार्यकालम् कत्तरि १०. कस्मिंश्चित् जनके सति । कुतः ? इत्याह-स्वभावतः स्वस्वाभाव्यात् । केषु सत्सु ? इत्यत्राहतद् इत्यादि। अत्रापि 'स्वभावतः' इत्येतद् अपेक्ष्यम् । तत्करणसमर्थेषु यथास्वकालम् उत्पित्सुकार्यजननशक्तेषु । किम्भूतेषु ? इत्याह-स्वकारण इत्यादि । पुनरपि किम्भूतेषु ? इत्याह-पुनः इत्यादि । पूर्वं समर्थे तस्मिन् सत्यपि पुनः पश्चात् आगन्तुकेषु । [पु]नरपि तानेव विशिनष्टि-परस्पर इत्यादिना । तस्मिन् सति किं जातम् ? इत्याह-'तत्' [इत्यादि । १५ तत् ] इत्यनेन विवक्षितं कार्य परामृश्यते । तत्करणसमर्थे अन्यतमस्मिन् उपादानकारणे सहकारिणि वा सति नवै नैव [अ]परे निवर्तेरन् । कुवद् (कुत एतत् ?) इत्यत्राह-प्रत्येकस् इत्यादि । एकस्य एकस्य तत्करणस्वभावत्वादिति भावः । अत्र दृष्टान्तमाह-क्षणिकवद् इति । क्षणिक इव तद्वत् इति । यथा क्षणिके तत्करणसमर्थे अन्यतमस्मिन् अपरे [न] निवर्तेरन् तथा नित्येऽपि इति ।
यत्पुनरत्रोक्तं परेण-*"क्षणिकस्य स्वहेतोः स स्वभावः यः सहकारिकारणापेक्षः कार्यजनकः, स न नित्यस्य, तदभावात् , आकसिकत्वे अनियमप्रसङ्गः" इति; तदसारम् ; कार्याणां नित्यानां तदनिवारणात् । एवमर्थः नोकं (मर्थमत्रोक्त) 'तथैव कालान्तरस्थायिनाम्' इत्यादि, अन्यथा 'कूटस्थानाम्' इत्यादि ब्रूयात् । [१६४ख] कूटस्थपक्षेऽपि अयं न दोषः नित्यत्वात् तत्स्वभावस्य, अनित्यो हि स्वभावः स्वयमुत्पद्यमानोऽनियतः स्यात् इति युक्तम् । अत २५ एवोक्तम्-'यथाकार्यकालम्' इत्यादि ।
प्रकृतं निगमयन्नाह-तदेवम् इत्यादि । तत् तस्माद् एवम् उक्तप्रकारेण क्षणिकेतरैकान्तौ क्षणिकाऽक्षणिकैकान्तौ नान्योऽन्यं परस्परम् अतिशयाते भेदं लभेते ? क्षणिकवद् अक्षणिकेऽपि अर्थक्रियासंभवेन व्यापकानुपलब्धिः (ब्धेः), सत्त्वेन व्याप्तिसिद्धिः । अथवा, अक्षणिकवत्
(१) नित्येऽपि । (२) बौद्धन । (३) 'सत्त्वमर्थक्रियया व्याप्तम् , सा च क्रमयोगपद्याभ्याम् , ते च नित्यान्निवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते, सा च स्वव्याप्यं सत्वम् इति' व्यापकानुपलब्धिबलात् सत्वस्य क्षणिकत्वेन व्याप्तिः साध्यते । यदा अक्षणिकेऽपि अर्थक्रिया सिद्धा तदा न सत्वक्षणिकत्वयोः व्याप्तिः सिद्धेति भावः। द्रष्टव्यम्-पृ० १९० दि. ४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org