________________
१९८
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः जनयन्ति इति । तत्रेदं चिन्त्यते- उपकारमुपादानस्य अपरमुपकारमुपकल्पयन्तः प्रकृतमुपकारं जनयन्ति, अनुपकल्पयन्तो वा ? प्रथमपक्षे-अपरोपकारकरणेऽपि तदुपादानोपकारकरणमित्यनवस्थायाम्, अपरापरोपकारकरण एव उपयुक्तशक्तीनां सहकारिणां प्रकृतकार्यजन्मनि व्यापार (रो)
नस्यात् ] । द्वितीयपक्षे-उपकारोपादानस्य उपकारमकुर्वन्त एव उपकारं कुर्वन्ति सहकारिणो न ५ कार्योपादानस्य तमकुर्वतः (न्तः) कार्यमिति किं कृतो विभागः ? अस्यैव समर्थनार्थ सौगतप्रसिद्धं दृष्टान्तमाह-क्षणिकस्य च इति । च शब्द इवार्थो निपातानामनेकार्थत्वात् । तदयमर्थ उक्तो भवति-यथा क्षणिकस्य उपादानकारणस्य सहकारिभिः आत्मा न भिद्यत तैरेवं फलानां विविधात्मनामुत्पत्तौ तथा प्रकृतस्यापि इति । न हि तस्यापि निरंशस्य स्वहेतोः उत्पन्नस्य अथैः
किञ्चित् क्रियते भेदप्राप्तः इति । १० कारिकां विवृण्वन्नाह सामग्रीवशात् इति । सामग्रीवशात् कार्यभेदेऽपि फलनानात्वेऽपि
क्षणिकानां स्वभावस्य स्वरूपस्य भेदो यथा न भवति । कथम्भूतानां तेषाम् ? इत्याहअक्षेपकारिणाम् इति अविलम्ब्यकारिणाम् इत्यर्थः । कुत एतत् ? इत्याह-अनाधेय इत्यादि । निरंशत्वेन तेषु अतिशयस्य केन [अपि आधान] प्रहाणाभावादिति मन्यते । तथैव तेनैव प्रका
रेण कालान्तरस्थायिनां नित्यानां क्रमोत्पित्सु [१६३ख] काया)विशेषेऽपि स्वभावभेदो १५ मा भूत् 'सामग्रीवशाद्' इत्येतदत्रापि सम्बन्धनीयम् । तद्वशादितीदे (द्धि देशादि) भिन्न कार्य
मेव जायते न तेषाम् अतिशयाधानप्रहाणम् इति मन्यते । कुतस्तर्हि क्रमेण कार्यमिति चेत् ? अत्राह-कार्यकाल इत्यादि । विचारितमेतत्- 'यद यदा कार्यमुत्पित्सु' इत्यादिना । तथा सति क्रमभाविसहकारिवैफल्यम् , उपादानादेव क्रमकार्यनिष्पत्तेः। तत्सहकारिणः तन्निष्पत्तौ
उपादानं किमर्थं गृह्यते तत्राऽसमर्थत्वात् ? अन्यथा प्रागपि ततः कार्य सहकारिणः समर्थाः जन२० यन्ति नोपादानम्” इति किं कृतो विभागः ? ।
तेषामेवे वा तदन्वयव्यतिरेकानुविधानात् न नित्यव्यापिनः सन्निधानेऽपि अतिप्रसङ्गात् इति चेत् ; अत्राह-नित्यैश्च इत्यादि ।
[नित्यैश्च जातेष्वर्थेषु अन्योऽन्यसहकारिभिः ।
तेष्वेकत्र समर्थेऽन्ये न निवर्तेरन्नकालिकैः ॥१४॥ ___ यथाकार्यकालं स्वभावतः कर्तरि स्वकारणा[त्तथोत्पन्नेषु] तत्करणसमर्थेषु पुनरागन्तुकेषु परस्पर[उपकारिषु] तत्करणसमर्थेऽन्यतमस्मिन् सति न वै अपरे निवर्तेरन् प्रत्येकं तत्करणस्वभावत्वात् क्षणिकवत् । तदेवं क्षणिकेतरैकान्तौ नान्योन्यमतिशयाते। कार्यकारणयोः सहावस्थाने दधिक्षीरादिषु सहोपलम्भेन अभेदादिप्रसङ्गः इति चेत्;
संविदो विभ्रमेतरखभावयोः सहभावेऽपि सहोपलम्भादेरभावात् । विज्ञप्तेः 'तदन्यत्रापि ३० कल्पयन् केन वार्यते ? परिणाम । चित्र]
__ (1) उपकारम् । (२) स्वरूपम् । (३) सहकारिभिरेव । (४) क्षणिकस्यापि । (५) स्वभावभेदप्राप्तः। (६) नित्यानाम् । (७) पृ० १९४ । (८) सहकारिणः सकाशात् कार्यनिष्पत्तौ । (९) यद्यपादानं प्राक् समर्थम् । (१०) समर्थमपि । (११) सहकारिणामेव । (१२) तस्य कारणत्वम् ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org