________________
३११३]
क्षणिके नार्थक्रिया स्यान्मतम् , पूर्वस्याभावो यद्यपि इष्टकालवद् अनिष्टेऽपि काले समस्ति तथापि अभिमताभावकाल एव भवति कार्यमिति; तत्राह-अभावस्य च इत्यादि । अन्यस्माद् अभावाद् भिद्यमानोऽभावः कथश्चिद्भावः [त]स्य ततो भेदाभ्योगात् इत्यभिप्रायः । कुत एतत् ? इत्यत्राह-तर्हि(नहि)आनन्तर्यम् इत्यादि । न[हियस्माद् आनन्तयं कार्योत्पत्तेः प्राग अनन्तरम् अभावस्य भाव आनन्तर्यमभावं विशेषयति अन्यस्मादभावाद् व्यवच्छिनत्ति, तुच्छाभावस्य ५ विशेषयितुमशक्तेः। एतदपि कुतः ? इत्याह-अर्थ इत्यादि । अर्थस्य जीवादेः स्वभावस्य अन्वयापत्तेः। एतदुक्तं भवति-यदा पूर्वस्य कथञ्चिदुत्तराकारेण गमनम् अभावः, तदाऽसौ केनचिद् बन्ध्यासुताद्यभावच्छिद्येत[वं व्यवच्छेद्यत]नान्यदा इति । यदि वा, कार्योत्पत्तेः प्राग् अनन्तरकारणस्य भाव आनन्तर्यं तदभावं विशेषयति । नहि पूर्वमनन्तर[१६२ख] स्याभावो न सर्वस्य इति । कुतः ? इत्याह-'अर्थ' इत्यादि । पूर्ववद् योज्यम् ।
यदुक्तं सा (शा) न्त भद्रे ण-*"निरुध्यमानं कारणं निरुद्धम्" इति; तदसारम् ; यतो निरुध्यमानं यदि स्वोत्पत्तिसमये; हेतुफलयोः समकालता, अन्यदा तु तदेव नास्ति इति किं निरुध्यमानं नाम ? अन्यथा अर्थ इत्यादि दोषः । ततः स्थितम्-यथा प्राक् समर्थे नित्ये कारणे अजातं कार्यं पश्चात् स्वयमेव नियतकालं जायमानं [न] तस्य कार्य तथा क्षणिकेऽपि स्वसत्ताकाले समत्वेऽनुपजातं पुनस्तथा जायमानं न तस्य इति ।
ननु च यद् यदा कार्यम् उत्पित्सु तत्तदोत्पादनात्मकं कारणं नित्यं यदि क्रमवत्सहकारिकारणमपेक्ष्यते तदेव अनित्यत्वम्, तत्कृतमुपकारमात्मसात्कुर्वतो गत्यन्तराभावात् । अन्यथा किं तैदपेक्षया अतिप्रसङ्गात् । तदुक्तम्-*"अपेक्ष्येत परः कार्यम्" [प्र०वा०३।१८०] इत्यादि । इति चेत् ; अत्राह-हेतोः इत्यादि ।
[हेतोरात्मा न भिद्यत स्थिरस्य सहकारिभिः ।
उत्पत्तौ च क्षणिकस्य फलानां विविधात्मनाम् ॥१३॥ सामग्रीवशात् कार्यभेदेऽपि यथाऽक्षेपकारिणां क्षणिकानां स्वभावभेदो न भवति अनाधेयाप्रहेयातिशयत्वात् तथैव कालान्तरस्थायिनां क्रमोत्पित्सुकार्याविशेषेऽपि स्वभावभेदो मा भूत् । कार्यकाल]
हेतोः कारणस्य उपादानत्वेन अभिमतस्य । किम्भूतस्य ? स्थिरस्य नित्यस्य आत्मा २५ स्वरूपं न भिद्यत । कैः ? इत्याह- सहकारिभिः निमित्ताऽसमवायिकारणैः । कस्मिन् सति ? इत्यत्राह-उत्पत्तौ सत्याम् इति । केषाम् ? इत्याह-फलानां विविधात्मनांदेशादिभिन्नस्वभावानाम् । 'सहकारिभिः' इत्येतद् अत्रापि सम्बन्धनीयम् । अतोऽयमर्थो जायतेसहकारिभिः कृत्वा फलानां विविधात्मनामुत्पत्तौ न उपादानोपकारोत्पत्तौ हेतोः आत्मा न भिद्यत इति । यदि पुनरयं निर्बन्धः [१६३क] सहकारिण उपादानस्य उपकारं कुर्वन्त एव प्रकृतफलानि ३०
(१) नित्यस्य । (२) क्षणिकस्य । (३) सहकारिकारणापेक्षया। (४) "यदि विद्येत किञ्चन । यदकिन्चित्करं वस्तु किं केनचिदपेक्ष्यते॥" इति शेषः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org