________________
१९६
सिद्धिविनिश्चयटीकायाम्
[ ३ प्रमाणान्तरसिद्धिः
इति । द्वितीयं प्रयोगमाह-तच्च उत्तरम् अनन्तरं वा कार्यं तस्य कार्यं न भवति । कुत एतत् ? इत्यत्राह - जातेरुत्पत्ते [:] तदत्यये कारणाभिमतात्यये । अत्रापि 'यथा व्यवहितम्' इति निदर्शनं योज्यम् । यथा भाविकालव्यवहितं विधवागर्भ कार्यं विनष्टस्य परिणेतुर्न भवति तथा प्रकृतमपि इति ।
५ कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा यदुक्तं परेण - "अप्राप्त कालत्वाविशेषेऽपि पूर्वः अनन्तरमेव कारणं न व्यवहितं विचित्रत्वाद् भावशक्त ेः । नहि प्राप्तकालमपि सर्वं कारणमिति सन्दिग्धविपक्षव्यावृत्तिको हेतुः । एतेन द्वितीयोऽपि हेतुः चिन्तितः । " इति; एतत् परिहरन्नाह - व्यवहितस्य इत्यादि । व्यवहितस्य चिरविनष्टस्य अनन्तरनष्टस्य च कार्योत्पत्तौ [१६१ख] क्रियमाणायां व्यावृत्तेः निर्वृत्तेः अविशेषात् उपयोगः व्यापारो न १० विशिष्येत । तथा च अनन्तरवद् व्यवहितमपि कारणं स्यात् 'विचित्रत्वाद् भावशक्तेः' अत्रापि न दण्डधारितम् इति प्रज्ञा कर गुप्तस्यैव मेतं न धर्मो त रा दी ना म् इति मन्यते । कुतो न विशिष्यते ? इत्याहह - निवृत्तेः निःस्वभावत्वात् । ननु यदि निवृत्तेः निःस्वभावत्वान्न विशेषः, कस्य तर्हि विशेषः ? इत्याह- भावस्यैव नाऽभावस्य कथञ्चित् केनापि समर्थेतरादिप्रकारेण विशेषस्य भेदस्य उपपत्तेः उपयोगो न विशिष्यत इति ।
१५
अत्राह कश्चित् - व्यवहितमपि किश्चित् कारणं जाग्रज्ज्ञानादिः प्रबोधादेः, तस्य च स्वकाले भावत्वाद् विशेषोपत्तिः इति साध्यविकलो दृष्टान्त इति तत्राह - चित्र इत्यादि । चित्रो निर्भासो यस्य तत्तथोक्तं तच्च तत्क्षणिकज्ञानं च तस्य इव तद्वत् इति । चित्रकक्षणिकज्ञानसमानस्य भावस्य परिणामिन इत्यर्थः । एतदुक्त' भवति - यत् तद् व्यवहितस्यापि कारणत्वे जाग्रद्विज्ञानं दृष्टान्तीकृतम्, तच्च निरंशैकपरमाणुपर्यवसितस्वभावम्; तर्हि न तत् वादिनः प्रतिवादिनो २० वा प्रमाणतः सिद्धमिति कथं निदर्शनं पुरुषवत् ? अथ *" चित्रप्रतिभासापि एकैव बुद्धिः" [प्र० वार्तिकाल० ३।२२०] इत्यादि वचनात् चित्रमेकम्; न तत् सौगतस्य दर्शनमनुसरति किन्तु जैनस्य अक्रमेण इव क्रमेणापि आत्मनो दृश्येतरस्वभावेनापि चित्रत्वप्रसाधनात् । तन्न किञ्चिदेतत् ।
२५
उपसंहारमाह-यत एवं ततः अनेन । केन ? उत्तरेण कार्येण [१६२ क] कथम्भूतेन ? पूर्वस्य कारणस्य अभावे एव न भावे भवता जायमानेन । किंकत्तथ्यम् ( किं कर्त्तव्यम् ) ? इत्याह-अनिष्टेऽपि न केवलम् इष्टे अनन्तरकाले भवितव्यमिति । इति पूर्वाभावस्य तत्कारणस्य सर्वत्र काले अविशेषात् । न चाऽविकले कारणे कार्यानुत्पादो युक्त इति मन्यते । ननु सर्वदा तदविशेषेऽपि कार्यं प्रतिनियतकालं जायते इति चेत्; अत्राह - अन्यथा इत्यादि । अनिष्टकालोत्पत्त्यभावप्रकारेण अन्यथा स्वत एव आत्मनैव नियतकालं यत् स्वातन्त्र्यं निर्हेतुकत्वं सूचयत् दुस्तरं कार्यलक्षणम् परायत्तत्वम् अतिवर्त्तेत भावाऽभावयोः अँनायत्तत्वात् ।
३०
(१) अभावस्य । (२) प्रज्ञाकरो हि व्यवहितकारणवादी । ( ३ ) प्रज्ञाकरः । " गाढसुप्तस्य विज्ञानं प्रबोधे पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चतम् ॥” - प्र० वार्तिकाल० पृ० ६७ । (४) जाग्रद्विज्ञानम् । (५) विज्ञानाद्वैतवादिनः प्रज्ञाकरस्य । (६) जैनादेः । (७) स्वतन्त्रत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org