________________
३।१२]
क्षणिके नार्थक्रिया
१९५
यत् सजातीयं विजातीयं च यदा कार्यम् उत्पित्सु तस्य तदा यदुत्पादनं सत्ता सम्बन्धिनः करणं तदात्मकम् । किं तत् ? इत्याह- कारणम् इति । नन्वेवं कार्यभेदात् तस्यै भेदः स्यात् । तदुक्तम्-*" क्रमाद्भवन्ती' धीश्चेयं क्रमं तस्यापि संशति" [प्र० वा० १।४५ ] इति चेत्; अत्राह - कार्यभेदेन [न] भिन्नं ' कारणम्' इति पघटना । दृष्टान्तमाह--क्षणिकं यथा इति ।
दृष्टान्तं व्याचष्टे--क्षणिकं प्रदीपादि कारणं स्वभावनानात्वमन्तरेण स्वभावदेशादिभिन्नम्, अत्र आदिशब्देन चिरन्तर (न्तन) बौद्धापेक्षया सामर्थ्यपरिग्रहः इदानीन्तनापेक्षया कालपरिग्रहः, तस्य हि वल्ली दाहाद एक (वर्त्तिदाहाद्येक )स्मात् क्रमभावि ९ तस्य र्पाकोर्थादे' $ कार्यं जायते अनेकं तैलर्देशाननदाहादिकं कार्यं यथा करोति । दृष्टान्तं व्याख्याय दाष्टन्तिके योजयति–तथा कालभेदभिन्नम् अनेकं कार्यं करोति इति अक्षणिकं 'स्वभावनानात्वमन्तरेण' १० इत्येतदत्रापि अनुवर्त्तनीयम् । कुत एतत् ? इत्यत्राह - कार्य इत्यादि । इतर आह - यदनन्तरम् इत्यादि । यत् तस्य अनन्तरं यद् वस्तु नोत्पन्नम् अपि तु पश्चात् कालान्तरे न तत् तस्य कार्यम्, कुत एतत् ? अक्षेपकारित्वात् कारणस्य । अस्योत्तरमाह-इत्येवं परस्य अयुक्तम्। कुतः? इत्याह- देशव्यवधानेऽपि न [१६१क] केवलं [काल ] व्यवधाने तत् तथा प्रसङ्गात् ; तथाहियस्य अनन्तरदेशे यन्नोत्पन्नं न तत् तस्य कार्यम् अपेक्ष्यकारित्वात् कारणस्य इति न योगिज्ञानं १५ त्रैलोक्यकार्यमिति सर्वज्ञाभावः, इतरथा सर्वार्थदेशेन तेनैं भवितव्यमिति प्राप्तम् ।
अथ देशव्यवधानेऽपि जातं ' तस्य' इत्युच्यते न कालव्यवधाने; तदाहइत्यादिना । तत्रोत्तरमाह - 'अप्राप्त' इत्यादि ।
ह - कालस्यैव
[ अप्राप्तकार्यकालत्वात् यथा व्यवहितमकारणम् । तदुत्तरं वा तत्कार्यं न च जातेस्तदत्यये ॥ १२ ॥
व्यवहितस्य कार्योत्पत्तौ व्यावृत्त्यविशेषात् उपयोगो न विशेष्येत, निवृत्तेः निःस्वभावत्वात् । भावस्यैव कथञ्चिद् विशेषोषपत्तेः चित्रनिर्भासक्षणिकज्ञानवत् ततोऽनेन पूर्वस्याभावे भवता अनिष्टेऽपि भवितव्यम् अभावस्य सर्वत्राविशेषात् । अन्यथा स्वत एव नियतकालं कार्यलक्षणमतिवर्तते । अभावस्य च भेदायोगात् । नहि आनन्तर्यमभावं विशेषयति अर्थस्वभावान्वयापत्तेः ।]
Jain Education International
५
अत्रायमभिप्रायः-ध तरा दी नां पूर्वमनन्तरं कारणम्, उत्तरं कार्यम्, विपरीतम् अकार्यकारणम्, तत्र यदनन्तरं तैः कारणमभ्युपगन्तव्यम्, तत् कारणं न भवति इत्यकारणम् । कुतः ? अप्राप्तः कार्यकालो येन तस्य भावाद् अप्राप्त कार्यकालत्वात् । दृष्टान्तमाह-यथा व्यवहितमिति । यथा रण्डागर्भं प्रति परिणेता कालेन व्यवहितोऽकारणम् तथा प्रकृत
(१) कारणस्य । ( २ ) ( एतदन्तर्गतः पाठो व्यर्थः । (३) दशा - वर्तिका तस्याः आननदाहः मुखदाहः इत्यर्थः । (४) योगिज्ञानेन । (५) तुलना - "सत्यभवतः स्वयमेव नियमेन पश्चाद्भवतः तत्कार्यत्वं विरुद्धम्, कालान्तरेऽपि किन्न स्यात्तदभावाविशेषात् समनन्तरवत् । " - अष्टश० अष्टस० पृ० ९० ॥
For Personal & Private Use Only
२०
www.jainelibrary.org