________________
१९४
“सिद्धिविनिश्चयटीकायाम्
[ ३ प्रमाणान्तरसिद्धिः
ร
1
कार्यं स्वोत्पत्तिसमय इत्येककालीनता सकलसन्तानस्य इति । ततः तस्माद् अनन्तरदोषा [त्] प्राक् स्वोत्पत्तिसमये तत्करणसामर्थ्ये तस्य विवक्षितस्य कार्यस्य करणं निष्पादनम् तत्र सामर्थ्यं तस्मिन् सति अनुत्पन्नं कार्यं तदभाव एव कारणाभावे एव भावि तत्कारणाभाव एव भवत् तस्य विनष्टस्य कार्यम् इत्येवं मृत्त्वा सटित्वापि अङ्गीकर्त्तव्यम् । [१६०क] अयमत्राभिप्रायः५ यथा प्राक् समर्थात् नश्वरात् पश्चात् जायमानं कार्यं 'तस्य' इति व्यपदिश्यते तथा अनश्वरादपि इति न तत्रेदं दूषणं धर्म कीर्त्ति ना कीर्त्तितं तत्कीर्त्तिमावहति । नन्वेवं तयोः अविशेष एव दर्शितः इति चेत् ; अत्राह - परपक्ष इत्यादि । परपक्षे अक्षणिकवादिपक्षे पुनः एतावानेव अधिको विशेषः क्षणिकपक्षाद् भेदकः । कोऽसौ ? इत्याह- कारणस्य इत्यादि । नन्वेवं कार्यो - त्पत्तिर्न स्यात् कारणसत्तया तद्विरोधादिति चेत्; अत्राह - न च इत्यादि । किं तर्हि कारणाभावेन १० तदुत्पत्तिर्विरुध्येत, अन्यथा निर्हेतुकत्वमिति मन्यते । प्रकृतोपसंहारमाह-यत एवं तत् तस्मात् एतदुपलभ्यमानं पित्रादि कारणं कार्योत्पत्तौ क्रियमाणायां तन्निमित्तं वा तिष्ठतु तत्कालं वा अवस्थितिं करोतु मा वाऽभूत् पूर्वमेव वा नीरूपतां व्रजन् प्राक् तत्करणसमर्थं पश्चान्न करोति एवं (त्व) किन्तु प्रागेव करोति ।
ननु सौगतस्य क्षणादूर्ध्वं [न] तिष्ठन्ति भावाः तत्किमर्थमिदमुच्यते - 'तिष्ठन्तु' ( तिष्ठतु) १५ इति ? दृष्टार्थं (दृष्टान्तार्थम्) । यथा ' अवतिष्ठमानं प्राच्यमर्थं तदैव सकलं करोतु' इत्युच्यते तथा तद्विपरीतमपि उच्यतामविशेषात् ।
पर आह
ह - नवै नैव पश्चात् करोति स्वयमभावात् पश्चात् इति । किं तर्हि ? तत्का पश्चाद् भवति 'स्वयम्' इत्येतद् अत्राप्यपेक्ष्यम् इत्येतत्कारणात् प्रतिनियतकालं क्रियाविशेषणमेतत् । यथास्वं क्रमेण 'स्वयम्' इत्यनुवर्तते, कार्यं भवति इति । [ १६०ख] ततो २० निराकृतमेतत् -"नाक्रमात् क्रमिणो भावा:" [प्र० वा० १।४५ ] इत्यादि ।
ननु यथा नश्वरात् तत्कार्यं पश्चाज्जायमानमपि [न] सकलमेकदैव जायते तथा नित्यादपि जायते इति न युक्तम्–'प्रतिनियत कालम्' इत्यादि इति चेत्; - यद् यद् (यदा) इत्यादि ।
अत्राह -
२५
[ यद् यदा कार्यमुत्पित्सु तत्तदोत्पादनात्मकम् । कारणं कार्यभेदेन न भिन्नं क्षणिकं यथा ॥ ११ ॥
यथा क्षणिक प्रदीपादि कारणं स्वभावनानात्वमन्तरेण स्वभावदेशादिभिन्नमनेकं क्रमभावि तैलदशाननदाहादि कार्यं करोति तथाऽक्षणिकं कालभेदभिन्नम् कार्य । यदनन्तरं यन्नोत्पन्नं न तत्तत्कार्यम् अक्षेपकारित्वात् कारणस्येत्ययुक्तं देशव्यवधानेऽपि तथा प्रसङ्गात्। कालस्यैव···]
(१) " न चैवाक्षणिकस्य क्वचित् कदाचित् शक्तिरस्ति क्रमयौगपद्याभ्यां कार्यक्रियाशक्तिविरहात्-." -हेतुबि० पृ० ६३ । (२) यदि कारणाभावेन कार्योत्पत्तेर्विरोधो नास्ति तदा । ( ३ ) करोति । (४) क्रमरहितात् नित्यात् । (५) उद्धृतोऽयम् - न्यायवि० वि० प्र० पृ० ४७५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org