________________
३।१०] क्षणिके नार्थक्रिया
१९३ राभावेन तदुपलब्धिलक्षण प्राप्तताऽसिद्धरिति । तन्न प्रत्यक्षतः क्षणिकेयक्रियासिद्धिः । अत एव नानुमानतोऽपि; तत्पूर्वकत्वादस्येति मन्यते ।।
ननु यदुक्तम्-'अन्यत्रापि समानम्' इति; न समानम् ; अक्षणिकात् क्रमाऽक्रमाभ्यां कार्योत्पत्तेः [विरोधात् ; तत्परिहरन्नाह-पूर्वमित्यादि] ।
[पूर्वं नश्वराच्छक्तात्कार्यं किन्नाविनश्वरात् ।
कार्योत्पत्तिर्विरुध्येत न वै कारणसत्तयां ॥१०॥ यस्मिन् सत्येव यद्भावः तत्कार्यमितरत् कारणमिति क्षणिकत्वेन संभवत्येव सहोत्पत्तिप्रसङ्गात् कुतः सन्तानवृत्तिः ? ततः प्राक् तत्करणसामर्थ्य अनुत्पन्नं तदभाव एव भावि तत्कायमिति मृत्वापि अङ्गीकर्तव्यम् । परपक्षे पुनः एतावानेव विशेषः कारणस्य। न च कारणाभावेन तदुत्पत्तिर्विरुध्येत । तदेतत् कारणं कार्योत्पत्ती तत्कालं वा तिष्ठतु मा १० वा भूत् प्राक् तत्करणसमर्थ पश्चान्न करोत्येव । न वै पश्चात् करोति अभावात् , तत् स्वयं पश्चात् भवति, इत्यत्रापि प्रतिनियतकालमपेक्ष्यम् , [यतो] यथास्वं क्रमेण कार्य भवति ।]
पूर्वं स्वसत्ताकाल इति यावत् [१५९ख] शक्तात् समर्थात् । कुतः ? नश्वरात् क्षणिकात् कार्य 'जायते' इत्यध्याहार । कदा ? पश्चात् कालान्तरे । अत्र दूषणमाह-किन्न १५ इत्यादि । [किं] अविनश्वराद् अक्षणिकात् प्राक् शक्तात् कार्यं पश्चान्न जायते ? तथोत्पादनस्वभावस्य अविशेषात् । नन्वेवं कार्यकालेऽपि कारण[सं]भव इति कुतः कार्यभाव इति चेत् ; अत्राह-कार्योत्पत्तिविरुध्येत नवै नैव कारणसत्तया किन्तु तदभावेन ।
यदुक्तं परेण-*"अन्वयव्यतिरेकनिवन्धनः कार्यकारणभावः । तत्र अन्वयः कारणभावे भावः, व्यतिरेकः तदभावे अभावः" इति तन्निराकृत्य कारिकार्थ दर्शयितुकाम आह- २० यस्मिन् इत्यादि। यस्मिन् सत्येव नाऽसति यद्भावः तस्य (तत्) कार्यम् इतरत् पूर्वं कारणम् इत्येवं क्षणिकत्वे भावानाम् अङ्गीक्रियमाणे न संभवत्येव । कुत एतत् ? इत्यत्राह-सहोत्पत्ति इत्यादि। कार्यकारणयोः युगपदुत्पत्तिप्रसङ्गात् कुतः सन्तानवृत्तिः । एतदुक्तं भवति-यदि सत् कारणं कार्यं जनयति तर्हि स्वोत्पत्तिसमये जनयति, तदैव तस्य सत्त्वात् । तथा तत्कार्ये 'विश्व
(१) प्रत्यक्षपूर्वत्वादनुमानस्य । (२) उद्धृतोऽयम्-न्यायवि० वि० प्र० पृ० ४७५ । (३) कारणकार्ययोः सहभावविरोधात् । (४) "तद्भावे भावः तदभावेऽभावश्च प्रत्यक्षानुपलम्भसाधनश्च कार्यकारणभावः"-हेतुबि. पृ० ५४ । “यतोऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः"-हेतुबि० टी० पृ. १७०। "भावे भाविनि तद्भावः भाव एव च भाविता । प्रसिद्ध हेतुफलते प्रत्यक्षानुपलम्भतः।"-सम्बन्धप० श्लो०१६, प्र. वार्तिकाल. भू०। प्रमेयक. पृ० ५१०। "कार्यकारणभावप्रसाधनं भावाभावप्रसाधनप्रमाणाभ्यां यथा इदमस्मिन् सति भवति सत्स्वपि तदन्येषु समर्थेषु तद्धतुषु तदभावे न भवतीति ।" -वादन्या० पृ० १४ । “अस्मिन् सति इदं भवत्यस्योत्पादादिदमुत्पद्यते इत्येतदेव हेतुलक्षणं भगवतोक्तम्" -प्र. वार्तिकाल. पृ० ६७, ६८, २७ । “अन्वयो नाम सर्वत्र सत्येव साध्ये हेतो वो व्याप्त्या । चासति साध्ये हेतोरभावो व्यतिरेकः"-हेतुबि. टी.पृ०२२४।(५) कार्यकारणयोः । (६)कारणकाले कार्यसद्भावे । (७) समस्तमुत्तरोत्तरक्षणवृत्तिकार्यम् ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org