________________
१९२
सिद्धिविनिश्चयटीकायाम् [ ३ प्रमाणान्तरसिद्धिः आचार्यः-तथा तेन प्रकारेण अक्षणिकस्य कारणस्य सत्तैव अर्थक्रिया प्रत्यक्षा इति न ततः साध्यो व्यावर्त्तते इति मन्यते ।
___ अनन्ने (नन्वे)कस्य कालत्रयानुयायित्वम् अक्षणिकसत्त्वम् , न च तत् प्रत्यक्षतः प्रत्येतुं शक्यं तत्र तदसामर्थ्यात् , [१५८ख] तस्य पूर्वापरकोटिविच्छिन्नत्वं क्षणिकसत्त्वम् , तच्च ततः ५ प्रत्येतुं शक्यं ततोऽस्याभावात् कथमुक्तमिति चेत् ? अत्राह-अविशेषात् अस्य विशेषस्याभावादिति । यथैव हि एकस्य कालत्रयानुयायिसत्त्वं द्रष्टुमशक्यं तथा बाह्यस्येतरस्य वा परमाणोः क्षणमात्रसत्त्वम् । कल्पनया तु तदुभयं शक्यमिति मन्यते ।।
__ ननु न परमाणोः पूर्वापरयत्ता (योरसत्ता) क्षणिकत्वमुच्यते, अपि तु दृश्यस्य स्थूलस्य, ततोऽयं विशेष इति चेत् ; अत्राह-प्रतीतीत्यादि । अत्रायमभिप्रायः-अस्मिन् पक्षे यथा युगपदे१० कस्य स्थूलस्य एकानेकात्मकत्वं तथा क्रमेणापि इति, क्षणक्षयपक्षे प्रतीतिवा(वत्त्व)लक्षणो
विशेषः अक्षणिकपक्षाद् भेदः इतरथा (रत्रापि अ) क्षणिकपक्षे प्रतीत्यनुग्रहणलक्षणोऽन्य एक्षा ततान्यथा (णोऽप्यस्त्येव, ततोऽन्यथा) चिन्तितम् अन्यथा परस्य कार्य प्रवृत्तम् ।
इतर आह-कार्योत्पत्तिः इत्यादि । अत्र दूषणम्-अन्यथापि (त्रापि) अक्षणिकेऽपि .. समानम् । 'तदुत्पत्तिः सा स्यात्' इति परमतमाशङ्कते-कार[णात् ] इत्यादि । चेत् शब्दः परा१५ भिप्रायद्योतकः । नन्वेतद् आशङ्कितं परिहृतं च 'कारणस्य क्षणिकस्य' इत्यादिना; सत्यम् ;
तथापि दूषणान्तरप्रतिपादनार्थं तत्पुनः आशङ्क्यते, तदेवाह-किं तेन (केन) इत्यादि । किं सत्त्वं नानार्थ (केन नाम अर्थ) क्रियालक्षणेन व्यापकन व्याप्तम् ? न केनचिदिति। एव (वं) मन्यतेयदा सत्तैव अर्थक्रिया; तथाऽभेदान्न तयोः कल्पितोऽपि व्याप्यव्यापकभावः । नहि तदेव ते । तथा सति यद् दूषणं तदाह-तत इत्यादि । तत [१५९क] उक्तन्यायात् स्वभावस्य सत्तास्वरूपस्य २० अनुपलब्धिरेव उक्ता न व्यापकाऽनुपलब्धिः विपक्षे सत्ताबाधकं प्रमाणम् इति एवकारार्थः ।
अनेन अनुपलब्धिविशेषापरिज्ञानम् अ च ट स्य दर्शयति । सैवास्तु को दोषः इति चेत् ; अत्राहसा पुनः इत्यादि । सा परेण उच्यमाना पुनः इति वितर्के क्षणिकोपलब्धिः क्षणिकसत्ता विषये" विषयिशब्दोपचारादेवमुच्यते । अथवा 'उपलभ्यते इति उपलब्धिः' इति व्युत्पत्तेः । असिद्धव
अज्ञातैव। कुत एतत् ? इत्यत्राह-विप्रतिपत्ते विरुद्धा अक्षणिकस्य प्रतिपत्तिः विप्रतिपत्तिः तस्याः। २५ अनेन "तदभावसाधने विरुद्धोपलब्धि दर्शयति । प्रतिपत्त्यभावाद्वा विप्रतिपत्तेः। अनेन स्वभावा
नुपलब्धिः । अस्यानभ्युपगमे दूषणमाह-अन्यथा अन्येन विप्रतिपत्त्यभावप्रकारेण साधनस्य क्षणिकत्वानुमानस्य वैयर्थ्यात् सा असिद्धैव इति । समारोपव्यवच्छेदोऽपि प्रथमं चिन्तितः । इदमत्र तात्पर्यम्-अनुपलब्धिलक्षणप्राप्तायाः सत्तायाः न तावत् स्वभावानुपलब्धिः विपक्षेऽभावसाधनं स्वयमनभ्युपगमात् । नाप्युपलब्धिलक्षणप्राप्तायाः; नित्यवत् क्षणिकेऽपि "तददर्शने गत्यन्त
(१) अक्षणिकात् । (२) कालत्रयानुयायित्वम् । (३) क्षणिकत्वम् । (४) प्रत्यक्षात् । (५) नित्यस्य । (६) अपि द्रष्टुमशक्यमिति सम्बन्धः । (७) अभावः । (0) सत्त्वमेव । (९) व्याप्यं व्यापकं च । (१०) उपलब्धिर्हि ज्ञानात्मिका विषयिणी तस्याः विषयभूतायां सत्तायामुपचारः क्रियते । (21) अक्षणिकाभाव । (१२) अर्थक्रियाऽदर्शने ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org