________________
३९] तर्कस्य प्रामाण्यम्
. १९१ सर्वतः कुदस्यात् (कूटस्थात् ) कालान्तरस्थायिनश्च यदि वा दृश्याभिमताद् [१५७ख अन्यतश्च अक्षणिकात् चेत् सत्तां निवर्तयेत् । कथम्भूताम् ? व्याप्यां 'स्वव्याप्याम्' इत्यवगन्तव्यम् , यथा 'मातरि वर्तितव्यम्' इत्यत्र 'स्वस्याम्' इति । का ? इत्यत्राह-अर्थक्रिया इति । कस्मिन् सति ? इत्याह-स्वनिवृत्तौ इति । तत्र दूषणम् सा अर्थक्रिया स्वाहिमेत (स्वाभिमत) क्षणिके वस्तुनि । केन प्रमाणेन प्रकारेण वा सिध्यति, न केनचित् । एतदुक्तं ५ भवति-अक्षणिके व्यापकयोः क्रमाऽक्रमयोरनुपलम्भः क्षणिकेऽपि इति तत्रापि तदभावो न वा कचिदिति ।
___ कारिका विवृण्वन्नाह- क्रम इत्यादि । क्रमाक्रमयोर्मध्ये । कथंभूतयोः ? व्यापकयोः 'अर्थक्रिया' इति सम्बन्धः । अन्यतरेण क्रमेण अक्रमेण वा क्षणिके निरन्वयनश्वरे वस्तुनि या अर्थक्रिया तस्याः प्रत्यक्षप्रवृत्तिः अध्यक्षोत्पत्तिरवा (रेव) विपक्षे अक्षणिके । यदा हि १० 'शब्दः क्षणिकः सत्त्वात्' साध्यते तदा अन्यः सर्वः क्षणिकः सपक्षो भवति अक्षणिको विपक्ष इति बाधकप्रमाणवृत्तिः 'अर्थक्रियायाः' इति गतेन सम्बन्धः। अन्वयप्रतिपत्तिरेव व्यतिरेकप्रतिपत्तिः; कथमन्यथा *"निश्चितान्वयवचनादेव सामर्थ्याद् व्यतिरेकगतेः तद्वचनं निग्रहस्थानम्" उक्त (इत्युक्त) शोभेत ? सात्मके च कचित् प्राणादेरदर्शनेऽपि कुतश्चित् निरात्मकानिवृत्तिः स्यादिति मन्यते। तथाभ्युपगच्छतो दोषमाह-सा इत्यादि। सा अर्थक्रिया । पुनः इति १५ वितर्के क्षणक्षयानुपलक्षणात् कथं केन प्रकारेण प्रत्यक्षा ? तस्या अपि क्षणिकैकान्ते क्षणिकत्वेन अनुपलक्षणादिति मन्यते । [१५८क] प्रत्यक्षापि कथं तत्सम्बन्धिनी क्षणक्षयसम्बन्धिनी सिध्येत् । दृष्टान्तम् आह-जातेः इत्यादिकम् । कथं केन प्रकारेण प्रत्यक्षा । सुगमम् । मा सिधत् तत्सम्बन्धिनी सा; को दोष इति चेत् ? अत्राह-क्षणिकस्य इत्यादि । क्षणिकस्य अर्थक्रियायाः या सिद्धिः निर्णीतिः तामन्तरेण क्षणिकात् सत्ता अर्थक्रिया व्यावर्त्तमाना २० कथञ्चित्क्षणिक सत्ताम् अर्थक्रियां साधयेत् । कुत एतत् ? इत्यत्राह-विपक्षानतिशायनात् । उपसंहारमाह-तद् इत्यादि । यत एवं तस्माद् अयं सौगतः क्षणिके अर्थक्रियामेव कुतश्चित प्रमाणात् साधयितुम् अर्हति, अन्यथा तत्र तत्साधनाभावप्रकारेण विपक्षव्यावृत्तेरसिद्धिः (द्धः) विप[क्षाद] क्षणिकाद् अर्थक्रियायाः या व्यावृत्तिः तस्या असिद्धः इति । 'का' इति योगविभागात् का-सः तात्परः तपरः इति यथा । अपर आह-कारणस्य । कथम्भूतस्य ? २५ क्षणिकस्य सत्तैव स्वरूपसत्त्वमेव अर्थक्रिया, तदुक्तम्-*"भूतिर्य(य)षां क्रिया सैव" । कथंभूता सा ? इत्याह-प्रत्यक्षा इति एवं चेद् यदि । पराभिप्रायसूचकः चेत् शब्दः । उत्तरमाह
(१) अर्थक्रियाया अभावः । (२) प्रदीपादिः । (३) व्यतिरेकवचनम् । (४) "अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति वैधर्म्यवति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धर्भावात् द्वितीयस्यासामर्थ्यमिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव ।"-वादन्या० पृ. ६५ । (५) अतीन्द्रियत्वात् । (६) क्षणक्षयसम्बन्धिनी । (७) अर्थक्रिया । (८) 'का' इति पञ्चमीविभक्तः संज्ञा । (९) पञ्चमीतत्पुरुषसमासः । (१०)"क्षणिकाः सर्वसंस्काराः अस्थिराणां कुतः क्रिया ? भूतियेषां क्रिया सैव कारक सैव चोच्यते ॥"-बोधिचर्या० पृ० ३७६ । मध्यमकवृ० पृ. ११६ दि०१। ब्र. भा० पृ० ५३१ । रत्नाकराव. पृ. २९ । स्या० म० श्लो०१६।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org