________________
१९०
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः यत्सत् इत्यादि । यत् सत् अर्थक्रियाकारि तत्सर्वं क्षणिकमेव नित्यं न भवति इत्येवं प्रत्यक्षसिद्धौ शब्दक्षणिकत्वमेव किमनुमेयं किन्तु सर्वम् अनुमेयं स्यात् इति न किञ्चित् प्रत्यक्षप्रमाणप्रमेयं भवेत् । अथ सुखादि-नीलादि तत्प्रमेयमिष्यते, तथा क्षणिकत्वमपि अस्तु तदविशेषादिति न किञ्चिदनुमेयम् । न च योगिज्ञानविषयीकृते समारोप्येभ्यासदशाचद्यतः (रोपोऽनभ्या५ सदशा च, यतः) तद्वयवच्छेदकरणादनुमेयं स्यात् , समारोपे वा न प्रत्यक्षतः तद्व्याप्तिसिद्धिः । न वा निश्चितलिङ्गवत् सो अनुमानकरणमिति मन्यते ।
एतेन सैन्बन्धसम्बन्धजं मानसमध्यक्षं चिन्तितम् ।
एवं तावत् सामान्येन परस्य साकल्येन व्याप्तिग्रहणे (णम) संभवीति प्रतिपाद्यं (घ) यदुक्तम् " अ र्च टे न-*"सर्वस्य क्षणिकत्वेन साकल्यव्याप्तिग्रहणं नाध्यक्षतः, अपि तु १० अक्षणिकात् सर्वतः सत्त्वं व्यावर्त्तमानं तीरादर्शिशकुनिन्यायेन गत्यन्तराऽभावात् क्षणिके
व्यवस्थितिं कुर्वत् तेन व्याप्तमिति निश्चीयते, ततः तव्यावृत्तिश्च तद्व्यापिकाया अर्थक्रियायाः] व्यावृत्तेः, अस्याश्च व्यापकयोः क्रमयोगपद्ययोः।" इति । तत्राह-सत्ताम् इत्यादि ।
[सत्तां सर्वतोऽक्षणिकात् स्वनिवृत्तौ निवर्तयेत् ।
व्याप्यामर्थक्रियां चेत्सा क्षणिके केन सिध्यति ॥९॥ क्रमाक्रमयोः व्यापकयोरन्यतरेण क्षणिके अर्थक्रियायाः प्रत्यक्षप्रवृत्तिरेव विपक्षे बाधकप्रमाणवृत्तिः । सा पुनः क्षणक्षयानुपलक्षणात् कथं प्रत्यक्षा ? प्रत्यक्षापि कथं तत्सम्बन्धिनी। जातेः 'कथंप्रत्यक्षा। क्षणिकस्यार्थक्रियासिद्धिमन्तरेण सत्ता व्यावर्तमाना कथश्चित्क्षणिके सत्तां साधयेत् विपक्षानतिशायनात् । तदयं क्षणिके अर्थक्रियामेव कुतश्चित् २० साधयितुमर्हति अन्यथा विपक्षव्यावृत्त्यसिद्धः। कारणस्य क्षणिकस्य सत्सेवार्थक्रिया प्रत्यक्षेति
चेत् । तथाऽक्षणिकस्य अविशेषात् , प्रतीतिवत्त्वविशेषः इतरत्रापि । कार्योत्पत्तिः'' 'अन्यत्रापि समानम् । कारणाच्चेत् ; किं केन व्याप्तम् ? ततः स्वभावानुपलब्धिरेव विपक्षे बाधक प्रमाणम् । सा पुनः क्षणिकोपलब्धिरसिद्धैव विप्रतिपत्तेः अन्यथा साधनवैयर्थ्यात् । ]
(1) प्रत्यक्षप्रमेयम् । (२) व्याप्तिः । (३) मनःसंयुक्तेन आत्मना सम्बद्धाः सर्वेऽर्थाः । (४) "नैव प्रत्यक्षतः कार्यविरहाद्वा सर्वशक्तिविरहोऽक्षणिकत्वे उच्यते किन्तु तदव्यापकविरहात् । तथाहि-क्रमयोगपधाभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिब्यापकयोस्तयोरक्षणिकत्वे विरोधान्निवृत्तेस्तव्याप्तायाः कार्यक्रियाशक्तरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति यत् सत्तत् क्षणिकमेव इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिःनिश्चयो भवति ।"-हेतुबि० टी० पृ० १४६ । (५) “यथा किल वहनारूढर्वणिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति। स यदा सर्वतः पर्यटस्तीरं नासादयति तदा वहनमेवागच्छति तद्वदेतदपि द्रष्टव्यम् । यतश्चावश्याभ्युपगमनीयोऽयं पक्षः तस्मान्न किञ्चिदनया अविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् ।"-हेतुबि० टी० पृ० १९३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org