________________
३९ ]
१८९
*
"
प्रमाणम्" [ न्यायभा० पृ० १] अर्थसहकारिव्यवसायादिविशेषणज्ञानकं प्रमातृप्रमेयाभ्यामर्थान्तरं प्रमाणम्" इत्यस्य च वचनात् स्वविषयकार्येण तेन भवितव्यम् इति न स्वस - मानसमयभुवो ग्रहणम् तस्य तदकारणत्वात् । यच्च कारणं तदपि तद्देशादिसन्निहितमेव न सर्व विवक्षितम्, अन्यथा स्वान्यकार्यदेशादौ तेन तत्कर्त्तव्यमिति निरूपयिष्यते अनन्तरमेव । ततः सूक्तम् - [सन्निहितेत्यादि ] सन्निहितः तत्कालानन्तरकालो यो विषयः तस्य बलेन उत्पत्तेः ५ कारणात् प्रत्यक्षस्य, तज्ञानं( तज्ज्ञानं ) न प्रत्यक्षं भवितुमर्हतीति । हेत्वन्तरमाह - अविचारकत्वात् इति । अविकल्पकत्वाऽस्वग्रहणात्मकत्वाभ्यां सन्निहितस्यापि विषयस्य अव्यवस्थापकत्वात् तेन्न तँद् भवितुमर्हतीति । तद्वयाप्तिज्ञानं तर्हि अनुमानं स्यादिति चेत्; अत्राह - तद्धलाद् इत्यादि । न केवलं तज्ज्ञानं प्रत्यक्षं न भवितु [ १५६ख ] मर्हती त्कं (त्थम् ) किन्त्वनुमानं च तदपि न स्यात् । यदि चेद् विकल्पज्ञानमूक (मूह) ज्ञानं न भवेत् । कथम्भूतम् ? तद्बलोत्पन्नं प्रत्यक्ष - १० सामर्थ्योत्पन्नम् * “ऊहो मतिनिबन्धनः" इति वचनात् । अस्ति तत्, केवलं प्रमाणं न भवति, प्रमाणमपि लिंगिक (लैङ्गिक ) मेव इति चेत्; अत्राह - अनधिगत इत्यादि । अनधिगतं प्रत्यक्षादिना अविषयीकृतं लिङ्ग लिङ्गिस्वलक्षणं यत् तस्याध्यवसायेऽपि न केवलम् अनध्यवसाये यदि न प्रमाणान्तरम् । तथाहि - यदि न प्रमाणं प्रत्यक्षमपि न स्यात् तस्यापि तल्लक्षणान्तराभावात् । यदि न तदन्तरं किन्तु अनुमानमेनमेव, अनुमानं न स्यात् अनवस्थानादिति मन्यते । १५
तर्कस्य प्रामाण्यम्
2
ननु माभूद् अनुमानं तथापि न सौगतस्य काचित् क्षतिः स्वयं तदभावोपगमात् । तत्वाभ्युपगतस्य प्रतिभासाद्वैतस्य प्रत्यक्षतः सिद्धिरिति चेत्; अत्राह - तत्प्रत्यक्ष इत्यादि । ते च ते सौगतकल्पिते परमार्थसंवृतिरूपे प्रत्यक्षम (क्षा) नुमाने च ताभ्याम् कथम्भूताभ्याम् ? इत्याहअविकल्पित इत्यादि । सुगमम् । नार्थाधिगतिर्नाम व्यवहारे अर्थस्य व्यप्तिलक्षणस्य परमार्थे तद्द्वैतलक्षणस्य अधिगतिर्न, प्रत्यक्षस्य सकलविकल्पविकलस्य परं प्रति असिद्ध:, अनुमानस्य २० 'च सांवृतस्य तत्त्वाऽसाधकत्वादिति मन्यते ।
ननु यदुक्तम्–'माऽनुमा’—- अनुमानेन नार्थाधिगतिः नाम इति; तत्सिद्धसाधनम्; तेनं तदधिगतेरनभ्युपगमात् । समारोपव्यवच्छेदकरणात् तत् प्रमाणमिष्यत [१५७क] इति चेत् ; अत्राह - समारोप इत्यादि । न केवलम् अर्थाधिगतेः अपि तु " तद्वयवच्छेदस्याप्यभावात् । अर्थाधिगतिमन्तरेण स्वापादिवत् तद्वयवच्छेदासंभवादिति मन्यते ।
२५
यस्तु मन्यते प्रज्ञा क र गुप्तः - " योगिज्ञानं व्याप्तिज्ञानम्" इति” । तं प्रत्याह
1
(१) समसमयभाविनोः कार्यकारणभावाभावात् । ( २ ) व्याप्तिज्ञानम् । ( ३ ) प्रत्यक्षम् । ( ४ ) व्याप्तिज्ञानम् । (५) प्रतिभासा द्वैतस्वरूपस्य । (६) जैनादिकम् । (७) विकल्परूपस्य । (८) मा अनुमा प्रमाणम् इत्यर्थः । (९) अनुमानेन । (१०) अनुमानम् । " यदा पुनरनुमानेन समारोपव्यवच्छेदः कृतो न भवतीति तदर्थंमन्यत् प्रवर्तते । " - प्र० वा० स्व० पृ० १२५ । "समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते । " - प्र०वा० ३।४८ । ( ११ ) समारोपव्यवच्छेदस्य । ( १२ ) तुलना - " अन्ये तु व्याप्तिग्रहणकाले प्रतिपत्तुर्योगिन इवाशेषविषयं परिज्ञानमस्तीति ब्रुवते ।" - प्रश० व्यो० पृ० ५७० । "योगिप्रत्यक्षतो व्याप्तिसिद्धिरित्यपि दुर्घटम् " - त० इलो० पृ० १७९ । न्यायकुमु० पृ० ४३२ । प्रमेयक० पृ० ३५१ |
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org