________________
सिद्धिविनिश्चयटीकायाम् [प्रमाणान्तरसिद्धिः असतश्च सत्त्वेन अन्यथा वा कल्पनं नान्यतो व्यवहारात् इति चेत् ; कुतस्तदसत्त्वसिद्धिः ? 'अनुपलम्भात्' इत्यनुत्तरम् ; स्वयमेव अतः परेणअनुमानव्यवस्थानात् [१५५ख] *"प्रतिषेधाच कस्यचित्" इति वचनादिति । अस्य व्यवहारेण प्रामाण्ये कुतः अन्तः परमार्थतोऽन्याभावसिद्धिः यतः स्वसंवेदनाध्यक्षाद्वैतमेव इति युक्तम् । नाप्यत एव तदभावः सिध्यति; तत्र अस्य ५ अव्यापारात् , इतरथा सुखादीनां परस्परमनुलम्भात् सर्वाभावः स्यात् ।
एतेन "यदुक्तं प्रज्ञा क रे ण-*"प्रतिभासाद्वैतादन्यस्य अभावात् कथमुच्यते भूता इत्यादि" इति ; तन्निरस्तम् । 'अस्याः' ग्रहणम् उपलक्षणम् , तेन अन्यस्यामपि, तन्न तस्य प्रमाणम् इत्यनुमानोच्छेदः ।।
___ कारिका) दर्शयितुमाह-परोक्षस्य इत्यादि। परोक्षस्य इन्द्रियविषयस्य सम्बन्धात् १० तदविनाभाविनोऽन्यतः ततोऽन्यस्मात् सिद्धिः अनुमानमेव न प्रमाणान्तरम् । इति शब्दः
परपक्षसमाप्तौ । सूरिः आह-अत्र इत्यादि । अत्र परपक्षे संबन्धो लिङ्गलिङ्गिनोः अविनाभावो नैव प्रत्यक्षो भवितुमर्हति यतो यस्मात् तत्प्रत्यक्षभवनाहत्वात् अनुमानव्यवस्था स्यात् । यत इति वा आक्षेपे, नैव स्यात् । एतदुक्तं भवति-*"उपलम्भः सत्ता"[प्र०वार्तिकाल० ३।५४]
इति वचनात् प्रत्यक्षभवनार्हत्वाभावेन सर्वचस्तभावे (सर्ववस्त्वभावे) नानुमानं कारणाभावे १५ कार्यानुत्पत्तेरिति । एतदेव दर्शयन्नाह-नहि इत्यादि । हि यस्मात् न कस्यचित् सौगतस्य
नैयायिकादेर्वा साकल्येन सामस्त्येन व्याप्तिज्ञानं लिङ्गलिङ्गिसम्बन्धग्रहणं प्रत्यक्षं क्वचिद् व्यवहारे परमार्थे वा देशे वा कदाचित् संसारिदशायां योगिदशायां वा काले वा भवितुमहति । ततो निराकृतमेतत्-*"यस्य यावता (ती) देशमात्रा" [१५६क] [प्र०वार्तिकाल.
३।६१] इति । केनचिद् धर्मेण न तावद्वैशयेन ; तत्र तदभावात् , तथा अव्यवहारात् । १० तथापि तत्र तदङ्गीकरणे न किञ्चिदविशदं ज्ञानं भवेत् । नापि चक्षुराद्यक्षप्रभवत्वेन ;
तत्र तदव्यापारात् , अन्यथा प्रत्यक्षसंख्यानियमव्याघातः । अभ्यासजत्वेनेति चेत् ; अत्रेदं चिन्त्यते-विकल्पमात्रं वा अभ्यासपरिकरगोचरीकृतं तत् स्यात् , अनुमानं वा ? प्रथमविकल्पे न तत्प्रमाणम् , कामाद्युपप्लुतदृष्टिवत् । द्वितीये व्याप्तिज्ञानादनुकृतान्वयव्यतिरेकं कारणम् *"नाकारणं विषयः” इत्यस्य *"प्रमाणतोऽर्थप्रतिपत्त्या प्रवृत्तिसामर्थ्याद् अर्थवत्
. (१) असत्वेन वा। (२) बौद्धेन । (३) "धर्मकीर्तिरप्येतदाह-प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित्॥"-प्र०मी० पृ० ८। प्रमेयरनमा०२११। “तथा चोक्तं तथागतैः-प्रमाणान्तरसामान्यस्थिते..."-सर्वद० सं० पृ० १९। (४) "तस्मात् संवेदनमेव केवलमद्वैतमपरस्याभावादिति स्थितम् ।" (पृ० २९०) "नाद्वैतादपरं तत्त्वमस्ति"-प्र. वार्तिकाल. पृ.३०। (५) "उपलम्भः सत्तेति व्यवस्था"-प्र० वार्तिकाल। (६) व्याप्तिज्ञाने । (७) उद्धतमिदम्-अनेकान्तजय० पृ. २०७ । धर्मसं० पृ. १७६। बोधिचर्या० प० पृ. ३९८ । तत्वार्थश्लो. पृ० २१९ । आप्तप. पृ० १६८ । प्रमेयक० पृ. ३५५, ५०२। न्यायकुमु० पृ. ६४० । स्या०र० पृ० ७६९ । न्यायवि.वि. प्र० पृ० २९० । स्था० मं.पृ० २०६ । “अहेतुश्च विषयः कथम्"-प्र. वा. ३१४०६ । “नाहेतुर्विषयः"
बि० टी० पृ० ८० । “नाननुकृतान्वयव्यतिरेक कारणं नाकारणं विषयः"-न्यायकुमु० पृ. ६४०। सन्मति० टी० पृ० ५१०। प्र० मी० पृ. ३४ । षड्द. ६० वृ० पृ० ३७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org