________________
३१८]
तर्कस्य प्रामाण्यम् *"अर्थस्यासंभवेऽभावात् प्रत्यक्षेपि प्रमाणता ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥" इति । एवं स्वमतं व्यवस्थाप्य सौगताः कदाचिदेवं ब्रूयुः-अस्माकं कथं चिनो ('चिन्तो) पमानवद्' इति । तत्राह आचार्यः-कस्यचिद् इत्यादि । कस्यचित् धूमादेः कथञ्चित् केनापि प्रकारेण स्वतः[न]साधनान्तरेण ज्ञानापेक्षामन्तरेण सिद्धिः[१५५क]निर्णीतिः[ता]मन्तरेण उत्तरस्य ५ अध्यक्षद् (वत् ) अनुमानस्याऽवृत्तेः चिन्तोपमानवत् इति । अत्रायमभिप्राय:-अस्याः सिद्धेः सद्भावे ततः अनुमानमेव अस्तु इत्ययुक्तं प्रत्याख्या[नम्] । [प्रत्यक्षा]नुमानयोरन्यतरत्र तदन्तर्भावात् न दोष इति चेत् ; अत्राह-भूता इत्यादि ।
[भूता भव्याः सर्वे सन्तो भावाः क्षणक्षयाः ।
इति व्याप्तौ प्रमाणं ते न प्रत्यक्षं न लैङ्गिकम् ॥८॥ परोक्षस्य सम्बन्धात्तदविनाभाविनोऽन्यतः सिद्धिरनुमानमेवेति; अत्र सम्बन्धो नैव प्रत्यक्षो भवितुमर्हति यतोऽनुमानव्यवस्था स्यात् । न हि कस्यचित् साकल्येन व्याप्तिज्ञानं क्वचित् कदाचित् प्रत्यक्षं सन्निहितविषयबलोत्पत्तेरविचारकत्वात् । यदि तहलोत्पन्नं विकल्पज्ञानं न भवेत् अनुमानं च न स्यात् । अनधिगतलिङ्गलिङ्गिस्वलक्षणाध्यवसायेऽपि यदि न प्रमाणान्तरं प्रत्यक्षमपि न स्यात् । तत्प्रत्यक्षानुमानाभ्याम् अविकल्पित [सांवृता- १५ भ्याम्] नार्थाधिगतिर्नाम। समारोपव्यवच्छेदस्याप्यभावात् । यत् सत् तत्सर्वं क्षणिकमेवेति प्रत्यक्षसिद्धौ शब्दक्षणिकत्वमेव किमनुमेयम् ?]
भावाः सन्तः पदार्थाः सर्वे निरवशेषाः। केते ? इत्याह-भूता इत्यादि । क्षणि(ण)क्षया इत्येवं व्याप्ती व्याप्तिविषये प्रमाणं ते सौगतस्य न प्रत्यक्षं न लैङ्गिकम् नानुमानम् । तदभावाभ्युपगमान्नायं दोष इत्येके । तेषां व्याप्तरग्रहे नानुमानं नाम, इत्ययुक्तमि- २० दम् -*"प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे ।" इति । व्यवहारेण तदभिधानाददोष इति चेत् ; व्यवहारेण तत् न परमार्थतः [इति] कुतोऽवसेयम् ? विचारादिति न युक्तम् ; अस्य॑ अप्रमाणत्वे नातस्तदवसेयम् अतिप्रसङ्गात् । प्रमाणत्वमपि नाध्यक्षत्वेन [अंनभ्युपगमात् ] विरोधाच्च । नानुमानत्वेन; अनभ्युपगमात् । तन्न विचारात् तदवसेयम् । प्रत्यक्षादिति; न; एवंवादिनः स्वसंवेदनप्रत्यक्षादन्यस्य असंभवात् । न च तत् स्वरूपादन्यत्र वृत्तिमत् इति कुतस्ततः 'अन्यत् २५ प्रत्यक्षम् अनुमानं च व्यवहारेण' इति प्रतिपत्तिः ? नहि नीलज्ञानं पीतादिकम् इदंतया नेदंतया वा व्यवस्थापयितुमलम् , ज्ञानान्तरकल्पनावैफल्यप्राप्तेः । अथ अन्यत् प्रत्यक्षादिकम् असत् ;
(१) प्रत्यक्षमनुमानञ्च । (२) "अत एवाह-अर्थस्यासंभवे..."-प्र. वार्तिकाल. ३।११। तरवसं. प. पृ. ७७५ । आप्तप० पृ..१७३ । न्यायवि०वि० प्र. पृ.२.। सन्मति.टी. पृ. ५५५ । न्यायावता. वा.व.पृ.८६ । “धर्मकीर्तिरप्येतदाह" प्रमाणमी.पृ.८। (३)चिन्तायाः तर्कस्य अन्तर्भावात् । (५) व्याप्तिज्ञान । (५) "द्विविधं सम्यग्ज्ञानम् । प्रत्यक्षमनुमानं च"-न्यायबि० ॥२,३ । प्र. वा. २।१। “प्रत्यक्षानुमानभेदेन द्विविधमेव प्रमागं प्रतिपत्तव्यम्"-प्र• वार्तिकाल• २।१ । (६) बिचारस्य । (७) विचारात् । () निर्विकल्पकस्य हि प्रत्यक्षत्वमभ्युपगभ्यते, विचारस्य च विकल्परूपत्वादिति भावः। (१) स्वसंवेदनप्रत्यक्षम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org