________________
१८६
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः साक्षात् परम्परया तत्सन्निकर्षजं विशदमविशदं वा प्रत्यक्षमुच्यते तथा प्रसिद्धसाधात् साध्यसाधनोपमानसाधात् कृतेनाकृतज्ञानम् उपमानमस्तु अवान्तरविशेषस्य सर्वत्र भावादिति ।
__ पर आह-नन्वेवम् इत्यादि । ननु इति अक्षमायाम् । एवं सति उपमानाऽनुमानयोः अभेदप्रसङ्गः; भेदश्च तयोर्लोके प्रसिद्ध इति मन्यते । [१५४क] 'तथास्तु' इति वदन्तमाचार्य ५ प्रत्याह-स एव तत्र इत्यादि। तत्र तयोः उपमानाऽनुमानयोर्मध्ये साधनम् अनुमानम् । काभ्याम् ? इत्याह-उदाहरण इत्यादि । उदाहरणं निदर्शनं तेन यत् साधम्यं कृतकत्वादि समानधर्मेण सदृशत्वम् वैधयं तद्धर्माऽभावेन विसदृशत्वं पक्षस्य ताभ्याम् इति । सह इत्यनेन अन्वयव्यतिरेकवत् पूर्ववच्छेषवत्सामान्यतोऽदृष्टम् इत्यनुमानं दर्शयति पृथग्वा इत्यनेन केवलान्वयि पूर्ववच्छेषवद् इति केवलव्यतिरेकि पूर्ववत्सामान्यतोऽदृष्टम् इति च उपमानलक्षणमुक्तमिति नोच्यते ।
अत्र दूषणमाह आचार्य:- अत्रापि इत्यादिना । न केवलं पूर्व (4) व्याप्तिज्ञान[स्य] मानसाध्यक्षत्वकल्पने किं चैत्रापि (किन्त्वत्रापि) उपमानसाधम्योनुमानयोरभेदः स्यात् *"प्रसिद्धसाधात् साध्यसाधनम्" [न्यायसू०१।१।६] इत्यस्य *"उदाहरणसाधर्म्यात् साध्यसाधनम्" न्यायसू० १।१।३४] इत्यस्य च विशेषाऽदर्शनात् इति मन्यते । तथा च
परैः परमार्थतः तयोर्भेदं कथयति लक्षणं च समानं ब्रूते इति विपरीतलक्षणप्रज्ञो जडात्मा १५ इति । सत्यं निदर्शनमात्रमेतत् तेन वैधोभयोपमानानुमानयोरभेदः स्यादिति च द्रष्टव्यम् ।
___ एवं स्वयम् आचार्येण नैयायिके निरस्ते सौगताः प्राहुः-ततोऽनुमानमेव इत्यादि । अस्यायमर्थः-यस्मात् कृतेन अकृतवीक्षणं 'सर्वम्' इति विभक्तिपरिणामेन सम्बन्धः ।।
अत्राह पर:-प्रसिद्धसाधादन्यतो वा साध्या[१५४ख]विनाभाविनः साध्यसाधनमनुमानमस्तु परंतु उपमानादिकं स्यादिति चेत् ; अत्राह सौगतः-सर्वथा इत्यादि। सर्वेण प्रसिद्धसाधर्म्य२० प्रकारेण अन्येन वा सर्वथा अविनाभावसम्बन्धप्रतिपत्तेः विना तमन्तरेण प्रामाण्यानुपपत्तेः
अनुमानमेव अस्तु इति सम्बन्धः। एतदुक्तं भवति-यदि प्रसिद्धसाधर्म्यस्य अन्यस्य वा अविनाभावसम्बन्धप्रतिपत्तिरस्ति ; सिद्धमस्मत्समीहितम् । अन्यथा ततो जायमानं न किञ्चित्प्रमाणम् अतिप्रसङ्गादिति । ननु यथा प्रत्यक्षस्य अविनाभावसम्बन्धप्रतिपत्तेविना प्रामाण्यं तथा
उपमानादेः स्यादिति चेत् ; अत्राह-प्रत्यक्षेऽपि इत्यादि । न केवलमन्यत्र अपि तु प्रत्यक्षेपि २५ समानः सदृशः प्रसङ्गः प्रसक्ति: 'अविनाभाव' इत्यादिकस्य । तदपि हि वस्तुप्रतिबन्धात् तत्र प्रमाणं नान्यथा ।
अत्राह चार्वाकः-अनुमाने तर्हि अविनाभावसम्बन्धप्रतिपत्तेरभावात् प्रामाण्यं न स्यादिति; तत्राह-तथैव इत्यादि । तथा तेन प्रत्यक्षप्रकारेण अनुमानेऽपि न केवलम् अन्यत्र समानः प्रसङ्गः इति पदघटना । अस्ति च तत्रापि सा” इति मन्यते । तदुक्तम्
(१) ज्ञानम् । (२) न हि किञ्चिदवान्तरविशेषमात्रेण प्रमाणान्तरत्वं भवति । (३) “तत्पूर्वक त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति" (सू० १।१।५) "त्रिविधमिति अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति ।” न्यायवा० पृ० ४६ । (४) नैयायिकादिः । (५) नैयायिकः । (६) अविनाभावग्रहणं बिना यत् ज्ञानं सादृश्याद् भवति तद् भवतु उपमानमित्यभिप्रायः । (७) उपमानादावेव । (८) प्रत्यक्षमपि । (९) प्रत्यक्षेऽपि । (१०) अर्थाविनाभावप्रतिपत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org