________________
३।७ ]
उपमानस्य प्रत्यभिज्ञानेऽन्तर्भावः
१८५
'गोरलाभे गवयेन तत्कार्यं कर्त्तव्यम्' इति [१५३क ] श्रुत्वा कश्चित् कञ्चिद् आटव्यं ' पृच्छति 'कथंभूतो गवयो भवति' ? स तं प्रत्याह- 'गौरिव गवयः' इति । स पृष्ट्वा एवं श्रुत्वा नगरे गामुपलभ्यं पुनः अटवीं पर्यटन्, यद्वा (दा) तत्रे गवयमुपलभ्य गां स्मरति तदा सा गवि गवयसादृश्यविशिष्टे स्मृतिः प्रमाणं मीमांसकस्य उपमानाख्यं मानं स्याद् भवेत्, गवयं पश्यतः पुंसः । चेच्छब्दोऽत्र द्रष्टव्यः, कात्वा (काका) वा तदर्थो व्याख्यातव्यः । अत्र दूषणमाह- 'कथम् ' ५ इत्यादि । कथं केन प्रकारेण न प्रमाणम् अपि तु प्रमाणमेव । अन्यत्र वचित् महिष्यादौ 'स्मृतिः' इति सम्बन्धः । कथंभूते ? इत्याह- 'तद्' इत्यादि । तस्माद् गवयाद् विसदृशरूपेण लक्ष्यते इति तद्विलक्ष्यः तस्मिन्नपि न केवलं तत्सदृशे गवि इति । एतदुक्तं भवति - यथा सादृश्यविशिष्टे [गवि तद्विशिष्ठे वा ] सादृश्ये, गोग्रहणमुपलक्षणम्, स्मृतिः प्रमाणान्तरं तथा वैलक्षण्यविशिष्टे महिष्यादौ तद्विशिष्टे वा वैलक्षण्ये इति । ननु गोसदृशालम्भनादि यथा १० सदृशस्मृतेः प्रयोजनं नैवं वैलक्षण्यस्मृतेरिति चेत्; अत्राह - प्रयोजनवशात् इति । वैदिकवद् इतर प्रयोजनभावादिति भावः ।
उ
*
कारिकां विवृणोति उपमा इत्यादिना । 'गौरिव गवयः' इति वाक्याद् यथा क्वापि गवि सादृश्यप्रतिपत्तिः तथा कस्यचित् महिष्यादेः केनचिद् गवादिना वैलक्षण्यप्रतिपत्तिः । कुतः ? अर्थापत्तेः, यत एवं तत् तस्मात् उत्तरप्रत्यक्षात् गवयप्रत्यक्षात् पूर्वस्य गवादेः स्मृतिः १५ प्रमाणमस्तु अविशेषेण सदृशस्मृतिवद् विसदृशस्मृतिरपि प्रमाणं भवतु । कुत एतत् ? इत्याह[१६३] प्रयोजन इत्यादि ।
२०
ननु यदुक्तम्- 'चिन्तोपमानवत्' इति ; तत्र साकल्येन [लिङ्ग ]लिङ्गिसम्बन्धबुद्धिर्यदि चिन्ततेयस्याः (चिन्ता; तस्याः ) साक्षात् परम्परया मनोऽर्थसन्निकर्षादुत्पत्तेर्मानसप्रत्यक्षत्वेन प्रमाणता इति सिद्धसाधनम् । अथवा यदुक्तम्- ' प्रमाणान्तरम्' इत्यादि तदपि तादृगेव; वैधम्र्यो - पमानत्वाद्स्य, शेषं मानसमध्यक्षम् इति नैयायिकादयः । तान् प्रत्याह - प्रसिद्ध इत्यादि । प्रसिद्धेन गवादिना प्रसिद्ध ं वा यत् साधर्म्यं तस्मात् साध्यस्य संज्ञासंज्ञिसम्बन्धज्ञानस्य साधनम् प्रमातृप्रमेयाभ्यामन्यैः कारणकलापः उपमानम् प्रमाणम् । अस्य फलम् अर (आह-) संज्ञा इत्यादि । उपमानार्थ उपमानफलम् इत्येवं 'च' शब्द: पूर्वसमुच्चये किं परिसंख्यानेन परिगणनेन, न किञ्चित् । किं तर्हि भवतु ? इत्याह - कृतेन इत्यादि । कृतेन निश्चितेन [ अ ] कृतस्य परो- २५ क्षस्य यद् वीक्षणं ज्ञानं तस्य सर्वस्यैव निरवशेषस्यैव भवति उपमानम्, उपमानादपरं परोक्षं प्रमाणं मा भूद् इति मन्यते । एतदुक्तं भवति - यथा विशदेन्द्रियार्थसन्निकर्षजज्ञानसाधर्म्यात्
(१) वनवासिनम् । (२) अटव्याम् । (३) प्रमाणान्तरमस्तु । ( ४ ) गोसदृशस्य यागादौ आलम्भमं क्रियते इति सदृशस्मृतेः वैदिकं प्रयोजनं विद्यते इति भावः । (५) लौकिकजनस्य गोविलक्षणमहिषादिज्ञानरूपं प्रयोजनमस्त्येवेति भावः । (६) " तस्य ग्रहणं प्रत्यक्षानुपलम्भसहायान्मानसात् प्रत्यक्षात् । धूमम ग्निसहचरितमिन्द्रियेणोपलभ्य अनग्नेश्च जलादेव्यवर्तमानमनुपलम्भेन ज्ञात्वा मनसा निश्चिनोति धूमोऽग्नि न व्यभिचरतीति । " - न्यायकलि० पू० ३ । (७) सिद्धसाधनमेव । (८) प्रमातृप्रमेयाम्यामन्यस्य प्रमाणता भवति ।
२४ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org