________________
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः णाम्येव नान्यथा' इत्यवधारणप्रधानम् । एतेन तयोः [१५२ख] स्वरूपाभेदं कथयति । तत् किम् ? इत्याह-संकीर्येत न वा संकीर्येत ? कथम् ? इत्याह-कथंचन, अनुमानप्रकारेण अर्थापत्तिप्रकारेण चैकीभवेद्वा न वा ? यदि संकीर्येत; तर्हि यथा कु मा रि ल स्य प्रमाणषट्कवार्ता वार्तव तथा प्रकारस्य (प्र भा क र स्य) प्रमाणपञ्चककथा कृत्वैव (कथैव) । अथ न संकीर्येत; त्रिरूपलि५ गजनितादनुमानानुमानद्वत्त (दनुमानात्) यथा साधर्म्यदृष्टान्तरहिताया अर्थापत्तेः भेदः तथा तस्याः पक्षधर्मत्ववर्जिताया इति स एव दोषः तयोः प्रमाणसंख्याव्याघात इति मन्यते । नन्वनुमानं स्मरणजम् , दृष्टान्तस्मरणभावे भावात्, नैवमर्थापत्तिर्विपर्ययात् ततस्तयोर्भेद इति चेत् ; अत्राह-स्मार्तमेव इति । स्मृतेर्जातं स्मार्तम् । एवकारेण एतत्कथयति-यदि अनुमानोत्थापकोऽर्थो दृष्टान्तस्मरणमन्तरेण अनुमानं नोत्थापयितुमलम् , तर्हि अर्थापत्त्युत्थापकोऽपि तथैवाऽस्तु । अथ विपक्षे सद्भावबाधकप्रमाणबलादेव अर्थोऽर्थापत्तिमुपजनयति, तथा अनुमानमपि इति निरूपयिप्यते । यदि पुनः अर्थापत्तौ दृष्टान्तस्याऽसतों न स्मरणम् , अनुमाने सतोऽपि; अकिञ्चित्करस्य किं स्मरणेन इति समानः तदभावः । अथायं निबन्धो लिङ्गं दृष्टान्तमन्तरेण साध्याविनाभावि ज्ञातुं न शक्यते इति; तथा अर्थापत्त्युत्थापकोऽप्यर्थः', इति सूक्तम्- स्मार्तमेव इति ।
___ ननु यदुक्तं स्मृतिः उपमानवदिति नदोषाय अभ्युपगमादिति चेत् ; अत्राह-गविस्मृतिः १५ इत्यादि ।
[गवि स्मृतिः प्रमाणं स्यात् गवयं पश्यतः कथम् ।
अन्यत्र तद्विलक्ष्येऽपि प्रयोजनवशान्न किम् ॥७॥ उपमावाक्याद् यथा क्वापि सादृश्यप्रतिपत्तिस्तथा कस्यचित् केनचिद् वैलक्षण्यप्रतिपत्तिः अर्थापत्तेः। तदुत्तरप्रत्यक्षात् पूर्वस्मृतिरविशेषेण प्रमाणमस्तु प्रयोजन[वशात्] २० प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्", संज्ञासंज्ञिसम्बन्धप्रतिपत्तिश्च उपमानार्थ इति
किं परिसंख्यानेन ? कृतेन अकृतवीक्षणस्य सर्वस्यैव भवति उपमानम् । नन्वेवमुपमानानुमानयोः अभेदप्रसङ्गः, तथास्तु । उदाहरणसाधर्म्यवैधाभ्यां सह पृथग्वा स एव तत्र साधनम् । अत्रापि उपमानसाधानुमानयोरभेदः स्याद् विशेषादर्शनादिति विपरीतल
क्षणप्रज्ञो जडात्मा । ततोऽनुमानमेव, सर्वथा अविनाभावसम्बन्धप्रतिपत्तिमन्तरेण प्रामा२० ण्यानुपपत्तेः । प्रत्यक्षेऽपि समानः प्रसङ्गः । तथैवानुमानेऽपि । कस्यचित् कथञ्चित् स्वतः सिद्धिमन्तरेण उत्तरस्यावृत्तेः चिन्तोपमानवत् । ]
(१) अनुमानार्थापत्त्योः। (२) अर्थापत्तो साधर्म्यदृष्टान्ते व्याप्तिग्रहणं नावश्यकम् । “अविनाभाविता चात्र तदैव परिगृह्यते । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥"-मी०३लो. अर्था०श्लो० ३० । (३) अर्थापत्तेः। (४) अपि भेदोऽस्तु । "इति तदहिताऽर्थापत्तिःप्रमाणं स्यात् ।"-न्यायकुमु०पृ. ५१९ । (५) कुमारिलप्रभाकरयोः ।(६) अनुमानार्थापत्योः । (७) असत्वात् । (८) दृष्टान्ताभावः । (९) साध्याविनाभावितया ज्ञातुं न शक्येत । (१०) तुलना-"उपमानं प्रसिद्धार्थसाधर्म्यात् साध्यसाधनम् । तद्वैधात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥१९॥"-लघी० । न्यायावता० वा०श्लो. १४ । (११) "प्रसिद्धसाधात् साध्यसाधनमुपमानम"-न्यायसू० ११११६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org