________________
३२६] अभावस्य पृथप्रामाण्यनिरासः
१८३ तद्योग्यमस्तु अविशेषात् ।
यत्पुनरेतत्-'अभावः स्वसमानजातीयप्रमाणवेद्यः प्रमेयत्वात् भाववत्' इति; तदप्यनेन निरस्तम् ; प्रत्यक्षबाधनात् प्रतिज्ञायाः । तथा शृण्वतो वा शब्दात् प्रतिपद्यमानस्य वा देशकालादिनियतम् । अनेन पूर्वस्य हेतोः व्यभिचारं दर्शयति *"अग्निहोत्रं जुहुयात् स्वर्गकामः" [कृ० य० काठक० ६।७] इति वाक्यात् स्वभावाद् अभिमतसत्त्वव ५ अभिमतासत्त्वस्यापि प्रतीतेः, किमन्यथा तदुचारणेनेति ? तस्य किम् ? इत्याह-पुनः इत्यादि । पुनः दर्शनश्रवणाद् ऊर्ध्वं विकल्पद्वयं 'जायते' इत्युपस्कारः । कथंभूतम् ? इत्याहविधिप्रतिषेधलक्षणं विधिप्रतिषेधयोः भावाभावयोः लक्षणं निश्चयनं [यस्य] यस्मिन् वा तत्तथोक्तम् । केन प्रकारेण ? इत्याह इत्थम् इत्यादि । इदं दृश्यमानं च इत्थम अनेन स्वदेशादि[१५२क] प्रकारेणैव नान्यथा परदेशादिप्रकारेण नैव । एवकारोऽत्रापि सम्बध्यते । च इति १० समुच्चये । इतिः एवमर्थे । पुनरपि कथम्भूतम् ? अवधारणपरमुक्तवत् । तत्किम् ? इत्याहकथञ्चन इत्यादि । कथञ्चन केनापि युक्तिप्रकारेण स्मार्तमेव । स्मृतिशब्दः पूर्वोऽनुवर्तते 'इत्येव वर्त्तते' इत्येवं संकीर्येत न वा ? यदि संकीर्येत; तर्हि विधिलक्षणविकल्पवत् प्रतिषेधलक्षणविकल्पोऽपि न स्मृतेः प्रमाणान्तरं स्यात् । अथ न संकीर्यते; प्रतिषेधलक्षणविकल्पवत् विधिलक्षणविकल्पोऽपि प्रमाणान्तरं स्यादिति मन्यते । तन्न कु मा रि लः प्रमाणषट्कवादी । १५
योऽपि प्र भा क रो मन्यते'-'नाऽभावः प्रमाणान्तरं प्रत्यक्षादिप्रमाणपञ्चकशेषत्वादस्य' इति तं प्रत्याह-संभव इत्यादि । अस्यायमर्थः-अनुमानार्थापत्तिव्यपदेशभाक् , च शब्दोऽत्र पूर्वसमुच्चयार्थो द्रष्टव्यः । 'विकल्पद्वयम्' इति सम्बन्धः । कथंभूतम् ? इत्याह-संभवः साध्यभावे भावः नियमेन तदभावे अभावः, दृश्यमानस्य श्रूयमाणस्य वा देशकालादिनियतस्य तयोः प्रत्ययः प्रतीतिः अन्यथानुपपत्तिग्रह इति यावत् । स एव स्व आत्मीयः कारणत्वेन भावो यस्य तत्त- २० थोक्तम् । अनेन यथा अनुमानस्य साध्याभावासंभवनियमनिर्णयलक्षणो हेतुः कारणं तथा अर्थापत्तेरपि इति दर्शयति । पुनरपि कथंभूतम् ? इत्याह-अवधारणपरं 'जीवादिः सत्त्वादिभ्यः परि
(१) प्रत्यक्षादि । (२) "मेयो यद्वदभावो हि मानमप्येवमिष्यताम् । भावात्मके यथा मेये नाभावस्य प्रमाणता ॥ तथैवाभावमेयेऽपि न भावस्य प्रमाणता।"-मी० श्लो० अभाव० श्लो० ४५-४६ । (३) प्रत्यक्षेण घटाद्यभावस्य प्रतीयमानत्वात् । (४) मैत्रा० ६।३६ । (५) अग्निहोत्रादियागप्रतिपादनवत् । (६) बौद्धादिकल्पितस्य 'खादेत् श्वमांसम्' इत्याद्यनिष्टार्थस्य निवृत्तिरपि ततः प्रतीयते इति भावः । (७) 'इत्येव वर्तते' इति द्विलिखितम् । (८) प्रत्यभिज्ञानाख्यस्य सप्तमस्यापि प्रमाणस्य प्रसङ्गात् । (९) "अप्रमीयमाणत्वमेव हि नास्तित्वं नापरं न चाप्रमीयमाणतैव प्रमेयं यस्मात्तदर्थासंसृष्टानुभवयुक्ततैव भात्मनः तस्यार्थस्याप्रमीयमाणता । सा चावस्था आत्मनः स्वसंविदितैव, अतः प्रमेयं नावशिष्यते ।"-बृहतीप०पू० ११९-२० । "तस्माद् भावग्राहकप्रमाणाननुवृत्तिरेव अभावावगमं प्रसूते (पृ.११९) अभावस्य तु स्वरूपा वगतिनास्ति इति न प्रमाणाभावादन्यः प्रमेयाभावः। प्रमाणाभावोऽपि च स्वरूपान्तरानवगमादेव न भावान्तरप्रमितेर्भिद्यते, भावान्तरप्रमितिश्च स्वयं प्रकाशरूपा न प्रमेयतामनुभवतीति प्रमेयमभावाख्यस्य प्रमाणस्य नोपपद्यते । प्रमेयासद्भावाच्च न प्रमाणान्तरमवकल्पत इति स्थितम् । (पृ. १२४) नास्तित्वञ्च प्रमाणानामनुत्पत्यैव गम्यते । नास्तित्वप्रतिपत्तिर्हि तां विना नास्ति कुत्रचित् ॥ योग्यप्रमाणानुत्पत्तेः कारणत्वपरिग्रहात् । अतिप्रसङ्ग-दोषोऽपि नावकाशमुपाइनुते ॥"-प्रक०प० पृ. १२९ । नयवि०पृ. १६२ । तन्त्ररह० पृ० १७ । प्रभाकरवि. पृ० ५७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org