________________
१८२
३०
सिद्धिविनिश्चयटीकायाम्
[अर्थापत्तिरियं चिन्ता मेयान्यापोहनोहनम् ||६॥
देशकालादिनियतं पश्यतः शृण्वतो वा पुनः इदमित्थमेव नान्यथेति विधिप्रतिषेधलक्षणं विकल्पद्वयं कथञ्चन स्मार्तमेवेति संकीर्येत नवा ? संभवप्रत्ययस्वभावमवधारणपरं स्मार्तमेव । ]
[ ३ प्रमाणान्तरसिद्धिः
प्रमाणषट्कविज्ञातो यच्चालुः (योऽर्थः ) साध्याभावे नियमेनाभवन् यत्र अदृष्टमर्थं कल्पयेत् सा अर्थापत्तिः । तदुक्तम्
*“प्रमाणषट्कविज्ञातो यत्रार्थोऽनन्यथाभवन्' ।
अदृष्टं कल्पयेदर्थं सार्थापत्तिरुदाहृता ||" [मी० इलो ० अर्था० श्लो० १] इति । 'अटव्यां गवयदर्शनात् नगरे गवि या स्मृतिः' इत्यनेन गृह्यते, अन्यस्याः प्रमाणान्तरत्वेन १० अविशेषेण प्रसाधितत्वात् । ' यावान् कश्चिद् धूमवान् प्रदेशः स सर्वोऽप्यग्निमान् ' इत्यादि प्रतिपत्तिः चिन्ता । अथ 'इयम् अदृष्टश्रुतपूर्वा इति 'किं स्वरूपा सा' इति पृष्ट इव तत्स्वरूपं दर्शयितुमाह-मेय इत्यादि । मेयोऽनुमेयः अग्न्यादि : विपक्षः (पक्षः) तस्माद् अन्यो यो अनग्न्यादिविपक्षः तस्माद्धेतोः अपोहनं व्यावृत्तिः तस्य ऊहनं वितर्कणम् ।
अथवा, मेयो धूमादिहेतुः तस्य अन्यस्माद् अनग्न्यादेः अपोहनम् तन ( इत्यूहनं १५ चिन्तन) मिति केचित् ; तद्युक्तमन्यथेति वा चिन्त्यम् ; सूत्र एव तदवयवव्याख्याने प्रयोजनाभावात्, "वृत्त्यविशेषप्रसङ्गात् अतिप्रसङ्गाच्च । तस्माद् अन्यथा व्याख्यायते - मेयः प्रत्यक्षादिप्रमाणपरिच्छेद्यः स्वपररूपाभ्यां भावाऽभावात्मको घटादिः तस्य ऊहनम् 'दीर्घोऽयम् अन्यथा वा' इत्यादि रूपेण दर्शनानन्तरं मानसविकल्पेन चिन्तनम्, तत्रैव अन्यस्य पटादे: अपोहनं व्यावृत्तिः, तस्य 'तदिह नास्ति' इति ऊहनं वितर्कणम् । एतदुक्तं भवति - यथा ' तदत्र नास्ति ' २० इति ऊहनदर्शनाद् अभावाख्यं प्रमाणमिष्यते तथा 'इत्थमिदम्' इत्यूहनदर्शनाद् भावाख्यमपि अपरं “तदिष्यताम्, भावांशवद् अभावांशस्यापि [ १५१ ख] प्रत्याक्षादेरेव अन्यथा ग्रहणाद् अभावाख्यमपि तन्नाभ्युपगन्तव्यमिति, तदेतत् सर्वम् उपमानवदिति सम्बन्धः ।
मध्यपदद्वयस्य उत्तरकारिकाद्वयेन यथाक्रमं व्याकरिष्यमाणत्वात् । आद्यन्तपदद्वयं साधिकार्थं कृत्वा व्याख्यातुमाह - ' पश्यतः' इत्यादि । पश्यतः चक्षुरादिना साक्षात्कुर्वतः । किम् । २५ इत्याह ‘देश’ इत्यदि । आदिशब्देन द्रव्यस्वभावपरिग्रहः, तैः नियतम् । अत्रायमभिप्रायःयथा स्वदेशादिना सत्त्वं भावस्य प्रत्यक्षतः प्रतीयते तथा परदेशादिना असत्त्वमपि । ततो निराकृतमेतत्
*" न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः ।
भावांशेनैव सम्बन्धः योग्यत्वादिन्द्रियस्य हि ||" [मी०लो ० अभाव ० लो ० १८] इति । यथैव हि तँतो भावांशस्य प्रतीतेः तंत्र तंद् योग्यं तथा अभावांशस्यापि इति, अत्रापि
Jain Education International
(1) अविनाभूतः सन् । ( २ ) चिन्ता । ( ३ ) व्याख्याकाराः । ( ४ ) टीकातः सूत्रस्य भेदो न स्यादिति भावः । (५) प्रमाणम् । ( ६ ) नास्तिरूपेण ग्रहणसंभवात् । ( ७ ) प्रत्यक्षादेः । (८) भावांशे । ( ९ ) प्रत्यक्षादि ।
For Personal & Private Use Only
www.jainelibrary.org