________________
३।६]
उपमानस्य प्रत्यभिज्ञानेऽन्तर्भावः दिदर्शनवतः संमभिज्ञानं 'किन्नाम प्रमाणम्' इति सम्बन्धः । अपरमपि प्रमाणान्तरमस्य दर्शयन्नाह-संख्यादि इत्यादि । संख्यैकत्वादिलक्षणा आदिर्येषां कार्यकारणभावपरवाक्यदूरासन्नादीनां ते तथोक्ताः तेषां प्रतिपत्तिश्च 'प्रमाणान्तरम्' इति सम्बन्धः । _ 'आत्मनो (आत्ममनो)ऽर्थसन्निकर्षजत्वात् मानसं प्रत्यक्षं सुखादिप्रतिपत्तिवत् सा' इत्येके । तत्राह-पूर्व इत्यादि। पूर्वश्च अपरश्च तयोः निरीक्षणात् तत्प्रतिपत्तिः । अत्रायमभिप्रायः-५ यथा आत्ममनश्चक्षुराद्यर्थ[१५०ख] सन्निकर्षाज जायमानं ज्ञानं चक्षुरादिप्रत्यक्षमुच्यते नान्यत् , तथा आत्ममनोऽर्थसन्निकर्षात् मानसम् इत्युच्यतां न प्रकृतम् । यदि पुनः तदपि ज्ञानत्वात् चक्षुरादिजनितरूपादिज्ञानवत् इन्द्रियार्थसन्निकर्षजम्; तर्हि अनुमानादिना व्यभिचारः । अस्यापि पक्षीकरणे मानसप्रत्यक्षत्वम् । तद्धेतुलिङ्गादेरप्यपेक्षणान्न दोष इति चेत् ; अन्यत्र पूर्वापरनिरीक्षणस्य अपेक्षणान्न दोष इति न समानमिति ।।
एतद्विवृण्वन्नाह-सोपान इति । अत्र आदिशब्देन कारणादिपरिग्रहः, तेषु सह पृथग वा दृष्टेषु सोपानेषु पृथगेव दृष्टेषु कारणादिषु संख्यादिप्रतिपत्तिर्भवन्ती उक्तन्यायेन प्रत्यक्षादेः अतिरिच्येत, ततः पृथक् प्रमाणं भवेत् । कथंभूता ? इत्याह-'पौर्वा' इत्यादि । पूर्वापरयोर्भावः
आदिर्यस्य स्थूलेतरत्वादेः तस्य या स्मृतिः तदपेक्षव नान्यथा इति एवकारार्थः । तथाहि-पूर्वदर्शनाहितसंस्कारस्य अपरदर्शने सति ततः पूर्वस्मरणे च तस्माद् 'अयमेकः तेन द्वितीयः' १५ इत्यादि प्रतिपत्तिः, एवं कारणभावादी योज्यम् । अन्यदपि तद्दर्शयन्नाह-नाम इत्यादि ।
[नामादियोजनाज्ञानं पश्यताञ्चोपमानवत् ।। पूर्वापरप्रमाणव्यक्त्यविनाभाविशब्दादियोजनाज्ञानं सर्व प्रमाणान्तरम् । ]
नाम अभिधानम् आदिर्येषां जातिगुणादीनां ते तथोक्ताः तेषां योजनाज्ञानम् केषां २० वत् ? (तत् ?) इत्याह-पश्यताम् अभिधेयाभिधानादिकम् उपलभमानानाम् । चशब्दो भिन्नप्रक्रमः 'ज्ञानम्' इत्यस्यानन्तरं द्रष्टव्यः। तत् किम् ? इत्याह-उपमानवद् इति । तद्वत् प्रमाणान्तरं स्यात् इत्यर्थः ।
एतद्वयाचष्टे पूर्व इत्यादिना । अभिधानाभिधेयविशेषणादीनां पूर्वापरप्रमाणव्यक्तयः तदविनाभावि यत् शब्दादियोजनाज्ञानं तत् सर्व निरवशेषम् [१५१क] उपमानमिव प्रमा- २५ णान्तरम् ।
किं पुनः आपाद्यान्येतान्येव प्रमाणानि आहोस्वित् पराण्यपि सन्ति इति कश्चित् ? सन्ति इति दर्शयन्तमाह-अर्थापत्तिः इत्यादि ।
(१) 'इयं सा स्त्रीशब्दवाच्या' इत्यादि ज्ञामम् । (२) "प्रत्यभिज्ञानं हि नाम आद्यप्रत्यक्षनिरोधे द्वितीयदर्शने प्रागाहितसंस्काराभिव्यक्ती स्मृतिपूर्व तृतीयं दर्शनम् ।"-न्यायवा. पृ. ४००। “एवं पूर्वज्ञानविशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा ।"-न्यायम. प्रमे० पृ० ३३ । (३) जायमानम् । (४) प्रत्यभिज्ञानाख्यम् । (५) संख्यादिज्ञानम् । (६) अनुमानस्यापि । (७) तस्यास्तु ज्ञानत्वादेव हेतोः मानसज्ञामवत् । (6) प्रमाणान्तरम्-प्रत्यभिज्ञानाख्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org