________________
१८०
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः उपमानादन्यत् [१४९ ख] प्रमाणं [प्रमाणान्तरं] स्यात् अन्यत्र गवयाद् अन्येषु महिष्यादिषु गवय इति संज्ञा तत्संज्ञा तस्याः असंभवस्मृतिः।
कारिकाखण्डं व्याचष्टे-तद्वाक्य इत्यादिना । गोसदृशो गवयः इति वाक्यं तद्वाक्यं तेन उक्तविधिना आहितः संस्कारो यस्य तस्य प्रतिपत्तिवतः । किं तत् ? तन्नामासंबन्धं ५ गवयाभिधानसम्बन्धाभावम् । क ? इत्यत्राह-अगो[७] विसदृशेषु इति । स्वयम् आत्मना ।
ननु 'गौरिव गवयः' इति वाक्यप्रतिपत्तिसहकारिणा मनसा भवतु गोसदृशेषु सामान्येन तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः तद्विसदृशेषु केन' तन्नामाऽसंबन्धप्रतिपत्तिः इति चेत् ? अत्राहअर्थापत्त्या इति । यतो गोसदृशो गवयः, ततोऽर्थात् 'तद्विलक्षणो न गवयः' इतिवाक्यप्रतिपत्तिः
अर्थापत्तिः तया त्यतेनैवतन्ते (उपगम्यते) तदर्शयति-यथा सामान्येन लिङ्गलिङ्गिनोः संज्ञा१. संज्ञिनोः सम्बन्धस्य प्रतिपत्तिः प्रमाणान्तरम्' अनुमानादेः तथा इयमपि इति । किं जातम् ?
इत्याह-प्रमाणान्तरम् उपमानादन्यत् प्रमाणम् । किं तत् ? इत्याह-प्रत्यभिज्ञानम् । कथंभूतम् ? इत्याह-न गवयोऽयम् इति । अयं गोविसदृशो दृश्यमानो न गवयः न गवयशब्दवाच्य इति । 'अयम्' इत्यनेन सामान्यार्थापत्तेः अनुमानवदस्य विशेषं दर्शयति । तत् कुतो
जायते ? इत्याह-तादृशोपलब्धेः इति । गोविसदृशोपलब्धेः इति प्रत्यभिज्ञानपदेन एतत् कथ१५ यति । यदि अस्य पैरो वैधोपमाने अन्तर्भावं ब्रूयात् तर्हि जैनोऽपि अस्य उपमानस्य च
असादृश्येतरप्रत्यभिज्ञाने इति [१५०क] नानयोः ततः प्रमाणान्तरत्वं प्रत्यक्षादिव आगमादेरपि तद्भावादिति ।
अधुना अस्य कारिकाखण्डस्य अन्यार्थो व्याख्यायते-अन्यत्रोक्ताद् अन्य]स्मिन् विषये तत्संज्ञासंभवस्मृतिः तस्य अन्यस्य संज्ञा नाम तस्याः संभवस्मृतिः प्रमाणान्तरमेव । २० तस्याव्याख्याने उत्तरोऽर्थोऽकारिकार्थः स्यात् ।।
'एतदेव विवृण्वन्नाह-अर्थच (अथवा) इत्यादि । अथवा इत्येतद् व्याख्यानान्तरसूचकम् । एकविषाणी खड्गा सप्तपर्णो विषमच्छदः इत्येवम् आहितसंस्काराणां पुरुषाणां पुनः पश्चात् तत्प्रत्यक्षदर्शिनां तत्खड्गादिकं प्रत्यक्षेण द्रष्टुं शीलानाम् अभिज्ञानम्-अयं स खड्गादि
शब्दवाच्योऽर्थः इति प्रत्यभिज्ञानं किन्नाम प्रमाणं स्यात् साधोपमाने वैधोपमाने वा अस्य २५ अनन्तर्भावात् तल्लक्षणत्वादस्यान्यनाम कर्त्तव्यमिति मन्यते ।
अत्रैवोदाहरणान्तरमाह तथे(स्च्ये)त्यादिना ।
[स्त्यादिलक्षणश्रवणेन पुनस्तथादर्शिनः।
संख्यादिप्रतिपत्तिश्च पूर्वापरनिरीक्षणात् ॥५॥
सोपानादिषु सह पृथग्वा दृष्टेषु पौर्वापर्यादिस्मृतिस्तदपेक्षैव । ] ३० स्त्रा(स्च्या)दीनाम् द्वन्द्वः, पुनः अस्य आदिशब्देन बहुव्रीहिः, अस्यापि लक्षणशब्देन षष्ठीसमासः, अस्य च ४वणेन, तस्मात् पुनःतथा श्रवणप्रकारेण दर्शिनः स्त्र्यादि
(१) प्रमाणेन । (२) तर्काख्यम् । (३) नैयायिकः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org