________________
उपमानस्य प्रत्यभिज्ञानेऽन्तर्भावः
[ तदेवमुपमावाक्यसंस्कारात्तत्र पश्यतः । तत्संज्ञासंज्ञिसंबन्धे विशेष्येदनु मानवत् ॥४॥ 'गोसदृशो गवयः' इति वाक्यात् संज्ञासंज्ञिसम्बन्धमवगतवतः अस्येयं संज्ञेति विशेषणप्रतिपत्तिः पुनरनुमानं नातिशेते यतः प्रमाणमनुमानं नापरम् । यदि ]
'तत्' इत्ययं निपातः तस्मिन् इत्यस्यार्थे द्रष्टव्यः । तस्मिन् परोक्षे एवम् उक्तप्रकारेण ५ सति न्याये 'गौरव गवयः' इति वाक्यम् उपमावाक्यं तेन आहितो यः संस्कारः तस्मातत्र *"ज्ञानजो ज्ञानहेतुश्च संस्कारः" इति वचनात् । कथं तद्वाक्यात् स इति चेत् ? पारम्पर्येण ततः तस्य भावात् ततः स इत्युच्यते इत्यदोषः । तथाहि - तद्वाक्यात् प्रतिपत्तिरिति तद्विषयं ज्ञानम्, पुनः तत्सहकारिणा मनसा 'यावान् कश्चित् पदार्थ : गोसदृशः स सर्वो [१४९क] गवयशब्दवाच्यः' इति सामान्येन वाच्यवाचकसम्बन्धविषयमानसमध्यक्षं जन्यते, ततः संस्कार: १० इति स्मृतिः स्मरणं 'जायते' इत्यध्याहारः । क ? इत्यत्राह - - तद् इत्यादि । तौ च तौ संज्ञासंज्ञिनौ च गवयशब्द ग (गो) विशेषौ तयोः सम्बन्धे वाच्यवाचकलक्षणे । कस्य ? पश्यतः । किम् ? गवयम् । सा किम् ? इत्याह - विशेष्येत स्मृत्यन्तराद् भिद्येत । किमिव ? इत्यत्राह - अनुमानवत् तदिव तद्वदिति । इदमत्र तात्पर्यम् - यथा सामान्यविषयायां व्याप्तौ विशेषेण अनुमानं जायमानमपूर्वार्थं तथा मानसप्रत्यक्षेण सामान्येन [ संज्ञा ] संज्ञिसम्बन्धे प्रतिपन्न पुनः १५ तस्य सर्वस्य स्मरणाद् वने गवयदर्शनाद् विशेषेण तत्प्रतिपत्ति: अपूर्वार्थास्तु ।
यत्पुनरत्रोक्तम्- 'सामान्यस्य विशेषनिष्ठत्वात् तत्प्रति [ पत्तौ वि] शेषप्रतिपत्ति:' इति ; तदसारम् ; अन्यत्र समत्वात् ।
कारिकां विवृण्वन्नाह-'गोसदृशो गवयः' इत्यादि । गोसदृशो गवयः इत्येवं वाक्यात् तद्विज्ञानात् सहकारिणः संज्ञासंज्ञिसम्बन्धम् अवगतवतः ज्ञातवतः सामान्येन पुनः कालान्त- २० रेण गवयदर्शनाद् अस्य प्रतीयमानस्य इयं गवयः इति संज्ञा इत्येवं विशेषेण प्रतिपत्तिः व्याप्तिदर्शिनः 'सामान्येन' इति सम्बन्धः । पुनः अनुमानं नातिशेते । यतः अतिशायनात् प्रमाणम् अनुमानं नाऽपरम् उपमानं न प्रमाणं स्यात् । 'यतः' इति वा आक्षेपे, यतो नापरं स्यात् ? स्यादेव, उपमानं प्रमाणमभ्युपगच्छेत् ।
सौगतस्य इतरस्य वा प्रमाणान्तरं दर्शयितुं मतमाशङ्कते - यदि इत्यादिना । सुगमम् । अत्र दूषणमाह-' प्रमाणान्तरम्' इत्यादि ।
[ प्रमाणान्तरमन्यत्र तत्संज्ञाऽसंभवस्मृतिः । ३ । तद्वाक्याहितसंस्कारस्य अगोषु स्वयं तन्नामासम्बन्धमर्थापत्त्या [ उपगम्यते] यथा सामान्येन लिङ्गलिङ्गिसम्बन्धप्रतिपत्तिः प्रमाणान्तरं तथेयमपि प्रत्यभिज्ञानं प्रमाणान्तरम्, न गवयोऽयं तादृशोपलब्धेः । अथवा, एकविषाणी खड्गः सप्तपर्णो विषमच्छद इत्या- ३० हितसंस्काराणां पुनस्तत्प्रत्यक्षदर्शिनामभिज्ञानं किन्नाम प्रमाणं स्यात् 2 ]
३४ ]
૨૦
(१) "ज्ञानजो ज्ञानहेतुश्च संस्कारः" - प्र० वार्तिकाल० ३।५२७ । (२) संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः । (३) वाक्यविज्ञानात् ।
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org