________________
१७८
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः अनुमान प्रमाणं तथा प्रत्यक्षानुभूते स्मृतेः' इति *" एव प्रमाणे" [प्र. वार्तिकाल०] इति मिथ्यावचः । व्यवहारे च प्रमाणमन्तरेण व्याप्तिसिद्धौ किमन्यत्रापि तदन्वेषणेन इति स एव दोषो मिथ्या तद्वच इति । 'प्रतिभासाद्वैतादेश्च प्रतिषेधात् अत्रैव तेन स्थातव्यम् ।।
"तस्य ततोऽविशेषे किं जातम् ? इत्याह-तत इत्यादि । ततः तस्य ततोऽविशेषात् ५ प्रमाणेतरव्यवस्था व्यतिकीर्यंत । कयोः ? इत्याह-लिङ्गलिङ्गिज्ञानयोः लिङ्गज्ञाने व्याप्तिज्ञाने
प्रमाणव्यवस्था लिङ्गिज्ञाने अनुमानज्ञाने "इतरव्यवस्था स्यात् । विपर्ययश्चेष्यते परेण । अथ लिङ्गज्ञानविषयाद् अन्यत्र लिङ्ग (लिङ्गि)ज्ञानस्य॑ वृत्तिरिष्यते ततोऽयमदोषः ; तत्राह-स्वयम् इत्यादि । स्वयम् आत्मना अनुभूतात् व्याप्तिज्ञानेन विषयीकृतात् व्यतिरेको (के) लिङ्गिज्ञानविज्ञानविषयस्य भेदे अङ्गीक्रियमाणे पुनः अनवयवेन साकल्येन व्याप्तिसिद्धरयोगात् सा' १० व्यतिकीर्यत इति सम्बन्धः । "तदनुभूते तद्वैफल्यम् , अन्यत्र तदप्रवृत्तिः इति मन्यते ।
सामान्य इत्यादि अ च ट "मतं दूषयितुं शङ्कते-देशादिविशेषणरहितेन अग्निना तथाभूतस्य धूमस्य व्याप्तिसिद्धिः सामान्यविषया व्याप्तिः इत्युच्यते, विशेषेण पक्षधर्मताबलाद् देशादिविशेषेण तद्भेदेन विशिष्टस्य तैः अनुमितेः इति चेत् ; अत्रोत्तरमाह-पूर्वानुभूत इत्यादि ।
पूर्व यदनुभूतं तस्य या स्मृतिः तस्या अपि न केवलम् अनुमितेरेव [१४८ख] तथाविधस्य १५ अनुमितौ कल्पितस्य विशेषस्य [अ] निराकरणात् कारणात् यत्किञ्चिदेतत् न किञ्चिदेतदि
त्यर्थः । तथाहि-दे[शादि विशेषणरहितस्य अनुभूतस्य तत्सहितस्य पुनः स्मरणे न बाधक पश्यामः । कथं तथाननुभूतस्य तथा स्मरणम् अतिप्रसङ्गादिति चेत् ? कथं तथाविधस्य व्याप्तिज्ञानेनाविषयीकृतस्य अनुमितिः अतिप्रसङ्गात् इति समानात्मत्व (समानम् । "एकत्र) पक्षधर्म
ताग्रहणस्य 'प्रकृते क्षयोपशमस्य बलमिति न विशेषः । दृश्यते हि केनचिद् विशेषेण रहितस्य २० व्याख्यातुः प्रघट्टकस्य ग्रहणेऽपि पुनः स्मर्तृविशेषात् तद्विशिष्टस्य स्मरणम् । अत एव तदनिराकरणात् इत्युक्तम् । एतेन यदुक्तं मीमांसकेन
*"तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥” इति तन्निरस्तम् ; पूर्वानुभूतस्मरणेऽपि अस्य अनुमानवद् भावात् सप्तमप्रमाणप्रसङ्गात् ।
अधुना नैयायिको भूत्वा सूरिः *"सामान्यविषया व्याप्तिः विशेषेण अनुमितिः" इति वदन्तं प्रमाणान्तरमन्यदापादयितुमाह-तदेवम् इत्यादि ।
() प्रामाण्यं स्वीकर्तव्यमिति । (२) प्रमाणस्वीकारेण । (३) 'द्वे एव प्रमाणे' इति वचनम् । (४) अस्तु प्रमाणस्यापि विलोपः अद्वैतोपगमात् इति प्रज्ञाकरगुप्तः, तत्राह-। (५) अनुमानस्य । (६) स्मृत्यन्तरात् । (७) अप्रमाणत्वं स्यात् गृहीतग्राहित्वादिति भावः । (८) अनुमानस्य । (९) प्रमाणेतर व्यवस्था । (१०) व्यप्तिज्ञानविषयीकृते । (११) तुलना-“सामान्येनान्वये सिद्ध पक्षधर्मत्वयोगतः। विशेषनिष्ठता तस्य सम्बन्धग्रहणात्मना ॥"-प्र० वार्तिकाल. ३।४०। (१२) अनुमानस्थले । (१३) स्मृतौ । (१४) विशेषस्यानिराकरणात् । (१५) प्र. वार्तिकाल. पृ० २१ । श्लोकोऽयं मीमांसकोक्तत्वेन उपलभ्यते-सन्मति. टी० पृ० ३१८। प्रमेयक० पृ० ६१ । हेतुबि० टी० पृ० २८० । (१६) प्रामाण्यस्य । (१७) अर्चटम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org