________________
३३] स्मृतेः प्रामाण्यम्
१७७ यावान् कश्चिद् धूमवान् प्रदेशः स सर्वोऽपि अग्निमानिति व्याप्तावसिद्धायाम् अनुमेयप्रतिपत्त्यनुपपत्तेः । सिद्धौ एवमनुमानं स्मृत्यन्तरान्न विशेष्येत । ततो लिङ्गलिङ्गिज्ञानयोः प्रमाणेतरव्यवस्था व्यतिकीर्येत । स्वयमनुभूताद् व्यतिरेके पुनरनवयवेन व्याप्तिसिद्धरयोगात । सामान्यविषया व्याप्तिः तद्विशिष्टानुमितेः इति चेत् ; पूर्वानुभूतस्मृतेरपि तथाविधविशेषानिराकरणात् यत्किञ्चिदेतत् ।]
साकल्येन सामस्त्येन आदितः आदौ सकलानुमानप्रवृत्तेः पूर्वं सिद्धा निश्चिता व्याप्तिः अविनाभावः चेत् । कयोः ? लिङ्गलिगिनोः। अनुमेयस्मृतिः अनुमानं न स्यात् प्रमाणं 'साकल्येन' इत्येतदत्रापि सम्बन्धनीयम् । अत्र दृष्टान्तमाह-विशेषवदिति अननुमानस्मृतिवदिति ।
___ यावान् इत्यादिना कारिकार्थमाह-यावान् कश्चिद् धूमवान् प्रदेशः, उपलक्षणमेतत् १० धानु (तेन) कालोऽपि गृह्यते स प्रदेशादिः सर्वोऽपि न केवलं कश्चिदेव अग्निमान् इत्येवं व्याप्तौ असिद्धायां सत्यां अनुमेयस्य अप्रसिद्धस्य या प्रतिपत्तिः तस्या अनुपपत्तेः अनुमान (नं) स्मृत्यन्तराद् अलिङ्गजात् स्मरणात् न विशेष्येत न भिद्यत । एतदुक्तं भवति-यथा अननुभूते न स्मृत्यन्तरम् [१४७ख] अतिप्रसङ्गात् तथा व्याप्यत्वेनानिश्चितात् लिङ्गात् 'व्यापकत्वेनानिश्चितस्यानुमेयस्य प्रतिपत्तिरपि न युक्ता, अन्यथा भूमिगृहवर्धितस्य' अकस्माद् धूमदर्शनाद् १५ अग्निप्रतिपत्तिः स्यात् । तवैवं (न चैवम् ) व्यापकत्वेनागृहीतस्य ततः प्रतिपत्तिसंभावना. अनुमानस्य स्मृतिविशेषत्वात् अत एवोक्तम्-'स्मृत्यन्तरात' इति, ततः तदसत्त्वेन न विशेष्येत इति मन्यते । तथा 'यावान् कश्चिद्भावः स सर्वः क्षणिक एव' इत्येवं तस्यामसिद्धायां सर्व वाच्यम् । तस्यां सिद्धायां को दोष इति चेत् ? अत्राह-सिद्धौ इति । सिद्धौ निश्चये एवं 'व्याप्तेः' इति विभक्तिपरिणामेन सम्बन्धः, अनुमानं स्मृत्यन्तरात् न विशेष्येत । कुत एतत् ? २० इत्याह-अनुमेय इत्यादि । साध्यं शक्यमभिप्रेतमप्रसिद्धमनुमेयम् इति, [तस्य] या प्रतिपत्तिः तस्याः अनुपपत्तेः व्याप्तिज्ञानेन तस्य निश्चये तदयोगात् । तथा च *"त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम्" [न्यायबि० २।३] इति वचनमात्रम् ; सिद्धसाध्यविषयत्वेन तस्य प्रमाणाभासतेति मन्यते । अनुमानग्रहणमपि उपलक्षणम् , तेन उत्तरप्रदेशादिप्रत्यक्षमपि ततो न विशेष्येत व्याप्तिज्ञानेन प्रदेशादेरपि ग्रहणात् , इतरथा 'सं सर्वोऽपि अग्निमान्' इति प्रतिपत्तेर- २५ योगात्, व्याप्याप्रतिपत्तौ व्यापकाप्रतिपत्तिवत् आधाराप्रतिपत्तौ आधेयप्रतिपत्तिरपि नास्ति, एवमर्थं च प्रदेशग्रहणम् , अन्यथा 'यावान् कश्चिद् धूमः' इति ब्रूयात् । न च भावक्षणिकत्वव्यतिरेकेण अपरं यत्त (यत् तज् ) ज्ञानेनागृहीतम् उत्तराध्यक्षेण गृह्यते । तत एव न तद्वथाप्तिसिद्धिः। नाप्यनुमानमिष्यते इति [१४८क] प्रज्ञा क र गुप्तः (प्ते न) कथं *"द्वे एव प्रमाणे" [प्र. वार्तिकाल० ३।६२] इत्युक्तम् ? व्यवहारेणेति चेत् ; तेनैवं तर्हि यथा व्याप्तिज्ञानेन गृहीते ३०
(१) साध्यत्वेन । (२) अगृहीतव्याप्तिकस्य । (३) पुरुषस्य । (४) व्याप्तौ (५) “साध्यं शक्यमभिप्रेतमप्रसिद्धम्"-न्यायवि० २।३। (६) साध्यस्य । (७) स्मृतेः। (८) प्रदेशः। (९) 'यावान् कश्चिद् भावः स सर्वः क्षणिकः' इति प्रयोगे । (१०) व्यवहारेणैव ।
२३ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org