________________
१७६
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः वक्तव्यम् । ननु नाविसंवाद एव प्रमाणलक्षणं येनैवं स्यात् , अपि तु 'अज्ञातार्थप्रकाशोऽपि । स्मृतौ तंदभावात् न प्रमाणं सेति ; तदाह-गृहीतग्रहणात् । गृहीतस्य दर्शनेन विषयीकृतस्य ग्रहणात् स्मृत्या विषयीकरणात् कारणात् नो न चेत् यदि स्मृतिः प्रमाणम् । अत्रोत्तरमाह-न इत्यादि । यदुक्तं परेण तन्न । कुतः ? प्रयोजनभेदतः। प्रमाणस्य हि प्रयोजनं फलम्-अज्ञान५ निवृत्तिः प्रवृत्तिश्च, तस्य भेदात् , प्रत्यक्षप्रयोजनात् स्मृतिप्रयोजनस्य विशेषात् । ततः यथैव हि प्राक् प्रवृत्तम् आत्मनोऽज्ञानम् अध्यक्षं निवर्तयति पुनः स्वगोचरे प्रवर्त्तयति जनं तथा स्मृतिरपि विशेषाऽभावात् ।
ननु यदुक्तम्-‘स्मृतिः प्रमाणम् अविसंवादात् प्रत्यक्षवत्' इति ; तन्न सारम् ; दृष्टान्ते अर्थसारूप्यात् प्रामाण्यसिद्धेः स्मृतौ तदभावादिति चेत् ; अत्राह-प्रत्यक्षस्यापि इत्यादि । १० न केवलमन्यस्य किन्तु प्रत्यक्षस्यापि प्रामाण्यम् अविसंवादात् न पुनः अर्थाकारानुकारितया।
कुत एतत् ? इत्याह-अतिप्रसङ्गात् । भवतु अविसंवादात् तस्य तदिति चेत् ; अत्राह-स पुनः इत्यादि । सः अविसंवादः पुनः अनुभूतस्य अर्थस्य स्मृतेः यदि स्याद् भवेत् प्रामाण्यं लक्षयति तत्स्मृतः इति । दूषयितुं परमतमाशङ्कते-सविकल्प इत्यादिना । [सविकल्पे] सविकल्पकप्रत्यक्षपक्षे स्मृतेः अनधिगतार्थव्यवसायाभावाद् अयुक्तं प्रामाण्यम् । अनेन एतदर्शयति१५ परः-यथा मम अनिश्चितार्थनिश्चयात् समारोपव्यवच्छेदाद्वा अनुभूतार्थमनित्यत्वाद्यनुमानम् ,
नैवं स्मृतिर्विपर्यया निश्चिते तदयोगात्' इति एवं चेत् । अत्राह-न इत्यादि । यदुक्तं परेण तन्न । कुतः ? प्रयोजनविशेषात् । स च निगदितः । अत्र परेण सह एकवाक्यतामात्मनो दर्शयन्नाह-क्वचिद् इत्यादि । क्वचित् सूभ्रादौ (स्तम्भादौ) सदृशाकाराणां [१४७क] प्रत्य
क्षाणां ये भेदा धारावाभि (वाहि)विशेषाः तेषाम् उत्तरोत्तरपर्यायविशेषसाध्यार्थक्रिया२० वाञ्छायां तथैव प्रयोजनविशेषप्रकारेणैव प्रामाण्याविरोधात् प्रयोजनविशेषात् स्मृतेः प्रामाण्यं
युक्तमिति । कुत एतत् ? इत्यत्राह-कालादिभेदेन आदिशब्दात् क्षेत्रादिपरिग्रहः, अन्यथा अन्येन प्रयोजनविशेषाभावप्रकारेण अनधिगतार्थाधिगतेरपि अगृहीतार्थग्रहणादपि न केवलम् अन्यतः तद्विशेषाणां प्रमाणताऽनभ्युपगमात् सौगतेन यथा जलप्राप्त्येकार्थक्रियावाञ्छायाम्
अवान्तरदर्शनविशेषाणाम् , इतरथा जलाध्यवसायकारणं मरीचिकादर्शनं तद्वत् प्रमाणं भवेत् । २५ यदि पुनरयं निर्बन्धः गृहीतग्रहणान्न स्मृतिः प्रमाणं तर्हि तत एव तद्वत्" सकल[मनु]मानमपि प्रमाणं न स्यादिति दर्शयन्नाह-साकल्येन आदितो व्याप्तिः इत्यादि ।
[ साकल्येनादितो व्याप्तिः पूर्वं चेल्लिङ्गलिङ्गिनोः ।
अनुमेयस्मृतिः सिद्धा न प्रमाणं विशेषवत् ॥३॥ (१) "अज्ञातार्थप्रकाशो वा"-प्र० वा. १७। (२) अज्ञातार्थ प्रकाशाभावात् । (३) “गृहीतग्रहणान्नेष्टं सांवृतं..."-प्र० वा. १।५। (४) अर्थसारूप्याभावात् । (५) प्रत्ययस्य । (६) बौद्धः । (७) प्रमाणं भवति । (८) अनिश्चितार्थनिश्चायकाभावात् (९) समारोपायोगात् कथं तद्वयवच्छेद इति भावः । (१०) स्मृतिवत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org