________________
३।२] स्मृतेः प्रामाण्यम्
१७५ नीलादिमा॑ह्यादृश्याकारैः (नीलादिग्राह्यदृश्याकारैः) चित्रा सदला (शबला) भा प्रतीतिर्यस्य तत्तथोक्तम् , चित्रमेकं यदि तदपि न विरहितम् [१४६क] किन्तु सहितम् । कैः ? पर्यायैः (पर्ययैः) क्रमपरिणामैः एकम् अभिन्नम् उक्तन्यायेन ईयुः सौगताः अवगच्छेयुः यदि इत्यनेनैतद्दर्शयति । तदनवगमे सकलशून्यता स्यादिति तदवगन्तव्यमिति । ततो निराकृतमेतत् यदुक्तं परेण-*"अनुभूते स्मरणम् इत्येतन्नानुभवेन ज्ञायते तेन स्मरणाविषयीकरणे, ५ नानेन अनुभवस्यापरिच्छेदात् ।" इत्यादि । 'तद् इदम्' इति स्मरणप्रत्यक्षे लेखक (एव तद्) व्यतिरेकेण नापरं प्रत्यभिज्ञानम् , तदभावे न तर्कोऽपि इति कथमुक्तम् 'प्रतिपत्त्वा बाधनात्' ? किं कारयत् तत्तथा यदि ? इत्याह-बहिः इत्यादि । बहिः स्वतः अन्यत्र अनुगमयतु (त) ज्ञापयतु (त्) । किम् ? इत्याह-द्रव्य इत्यादि । यथैव हि तदेकं चित्राह (चित्राभ)मात्मानं बिभर्ति तथैव तथाविधं बहिर्गमयति । तथा च यदुक्तं परेणं-*"स्मरणविषयस्य क्षणिक- १० स्वेन नाशात् प्रत्यभिज्ञागोचरस्य अभावात् [न] प्रवृत्तौ प्राप्तिर्यतः तदविसंवादः" इति ; तदनेन निरस्तम् । ततः स्थितम्-यदि तथाविधं चित्तंतर्हि सम्यक सामान्यसंवि [दि] ति । तदेवं स्मरणादेः अविसंवादे सिद्धे यदपरं सिद्ध तदर्शयन्नाह-प्रमाणम् इत्यादि ।
[प्रमाणमविसंवादात् मिथ्या तद्विपर्ययात् ।
गृहीतग्रहणान्नो चेन्न प्रयोजनभेदतः ॥२॥ प्रत्यक्षस्यापि प्रामाण्यमविसंवादात् नपुनराकारानुकारितया अतिप्रसङ्गात् । स पुनरनुभूतस्मृतेर्यदि स्यात् प्रामाण्यं लक्षयति । सविकल्पेऽनधिगतार्थव्यवसायाभावादयुक्तमिति चेत् ; न प्रयोजनविशेषात् , क्वचित् सदृशाकारभेदविशेषाणामुत्तरोत्तरपर्यायविशेषसाध्यार्थक्रियावाञ्छायां तथैव प्रामाण्याविरोधात् । अन्यथा कालादिभेदेन अनधिगताधिगतेरपि प्रमाणतानभ्युपगमात् ।]
प्रमाणं स्मृतिः । कुतः ? अविसंवादात् । मिथ्या अप्रमाणं स्मृतिः इति सम्बन्धः । [कुतः ? तद्] विपर्ययात् । विसंवादात् । 'प्रत्यक्षतदाभासवत्' इति निदर्शनमत्र
(१) अनुभवेन । (२) अनुभूतत्वस्य परिच्छेदायोगादिति भावः। (३) स्मरणेन । (४) तुलना"ननु अनुभूते जायमानमित्येतत् केन प्रतीयताम् ? न तावदनुभवेन तत्काले स्मृतेरेवासत्त्वात् । न चासती विषयीकर्तुं शक्या । न चाविषयीकृता तत्रोपजायते इत्यधिगतिः । न चानुभवकाले अर्थस्य अनुभूतताऽस्ति, तदा तस्यानुभूयमानत्वात् । तथा चानुभूयमाने स्मृतिरिति स्यात् । अथानुभूते स्मृतिरित्येतत् स्मृतिरेव प्रतिपद्यते; न; अनया अतीतानुभवार्थयोरविषयीकरणे तथा प्रतीत्ययोगात् ।"-प्रमेयक० पृ० ३३६ । (५) "तस्मात् स एवायमिति प्रत्ययद्वयमेतत्"-प्र. वार्तिकाल. पृ० २२। “यदतीतं न तद् ग्राह्यं यदा ग्राह्यं न तत्तथा । स्मर्यमाणेन रूपेण तदतीतं न वस्तुसत् ॥ निश्चयस्य दृढत्वाच्च प्रामाण्यमुपपत्तिमत् । प्रत्यभिज्ञानमप्येवमक्षयोगस्त्वपार्थकः ॥"-प्र. वार्तिकाल० पृ० ५९३ । प्र. वा. स्ववृ. टी पृ० ७८ । (६) प्रत्यभिज्ञानाभावे । (७) बौद्धेन । "अविसंवादसद्भावात् प्रमाणं ज्ञानमिष्यते । वर्तमानेऽविसंवादो न तु पूर्वविनाशिनि ॥ न स्याद्यदि तदेकत्वं किं ततोऽर्थक्रिया न सा..."-प्र. वार्तिकाल. पृ. ५९३ । (6) चित्रात्मकम् । (९) तुलना-"प्रमाणमर्थसम्बन्धात् प्रत्यक्षान्वयिनी स्मृतिः।"-प्रमाणसं० श्लो. १०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org