________________
तृतीयः प्रस्तावः
[ ३. प्रमाणान्तरसिद्धिः] एवं प्रस्तावद्वयेन सविकल्पमध्यक्षं प्रमाणं प्रसाध्य अधुना स्मरणप्रत्यभिज्ञानोहानां प्रामाण्यमविसंवादिनां व्यवस्थापयितुकामः तत्स्वरूपाविसंवादनिबन्धनं प्रस्तुतप्रस्तावद्वयार्थ स्मरन्नाह प्रस्तावादौ सम्यग् इत्यादि वृत्तम् ।
[सम्यक् सामान्यसंवित् व्यभिचरति न वै सत्स्वभावं परस्मात् , चित्तं निर्णेतुमनलं स्वमपगतं सिद्धसाध्यैकरूपम् । संभाव्यार्थाकारविरहं तदपि विरहितं चित्रमेकं यदीयुः, चित्राभं द्रव्यमेकं बहिरनुगमयत् तत्स्वतः पर्ययैस्तैः॥१॥]
'अर्थः-सौगतानुसारेण स्मरणादिसंवित् सामान्यसंवित इत्युक्तम् , तत्र तस्या एव सामान्यसंवित्त्वात् । सा किम् ? इत्याह-सम्यग इति । सम्यग् अविसंवादिनी सती वा १० 'काचित्' इत्यपेक्षम् । अत्र युक्ति (क्तिं) 'व्यभिचरति' इत्यादिकामाह-चित्तंज्ञानं व्यभि
चरति [१४५ख] जहाति नवै नैव सत्स्वभावत(वं) अर्थात्मनोः विद्यमानं स्वरूपम् , क्वचित् प्लुतौ (स्मृतौ) लौकिकशास्त्रीयविभ्रमे यदि विभ्रमेतररूपमेकं ज्ञानं चेदित्यर्थः । तदेव निर्णेतुं निश्चेतुं स्वम् आत्मानम् , उपलक्षणमेतत् तेन परं च गृह्यते, अनल[म]समर्थम् ।
[कथं] भूतम् ? अपगत (तं) व्यावृत्तम् । कुतः ? परस्माद् अन्यस्मात् सजातीयाद् १५ विजातीयाच्च 'अ[प]गतम्' इति वचनात् , अन्यथा तं निर्णेतुं समर्थमिति गम्यते, यदि स्वविषये निर्णयजननेतरस्वभाववदित्यर्थः । तदेव च यदि सिद्धसाध्यैकरूपं सिद्धं निश्चितं सदादिसाध्यं फलानुमेयं स्वर्गादिप्रापणादिकम् एकं रूपं यस्य तत्तथोक्तं दृश्येतररूपमेकं चेदिति मन्यते । व्यवहारापेक्षया उक्तम् ।
यः पुनर्मन्यते धर्मो त्तर:-*'स्थवीयान् एको ग्राह्याकारो मिथ्या विचार्यमाणस्य २० अयोगात् , ततो व्यतिरिक्तं निरंशं संविन्मानं परमार्थसत् ।" इति ; तत्राह-संभाव्य
इत्यादि । संभाव्यः अर्थाकारविरहः आलोक्यः सदादिभेदो यस्य तत्तथोक्तं चित्तमेकं यदि इति ।
योवि (योऽपि) मन्यते प्रज्ञा क र गुप्तः-*"न नीलादिसुखादिशरीरव्यतिरिक्तं संवेदनमस्ति अनुपलम्भात्" [प्र०वार्तिकाल०] तदेव चित्रमेकं ज्ञानम् *"चित्रप्रतिभा२५ सापि" [प्र. वार्तिकाल० ३।२२०] इत्यादि वचनात् । तं प्रत्याह-विचित्र इत्यादि ।
() कारिकार्थः । (२) सौगतमते । (३) "नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्षणात्"-प्र. वार्तिकाल० ३।३१३। (१) "चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं चित्रमनेकमशक्यविवेचनाश्च बुद्धीलादवः।"-प्र०वार्तिकाल ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org