________________
२।२८-२९ ]
वैशेषिकाभिमतसविकल्पनिरासः
१७३
'अन्यथानुपपन्नत्वम्' इत्यादिकम्, अन्यच्च (अन्यस्य ) स्वलक्षणादर्शनम्, वैशेषिकस्यापि (स्यावि) भागिनो' [१४४ख ] वर्त्तननिषेधं च दर्शयन्नाह - प्रत्यक्षम् इत्यादि । [ प्रत्यक्षं यतो द्रव्यं गुणपर्यायात्मकं ततः ।
परोक्षमपि द्रव्यस्य सिद्धस्यानुमितेः स्वतः ॥ २८ ॥
अन्तम् (अत्र) अपि शब्दो भिन्नप्रक्रमः 'प्रत्यक्षम्' इत्यस्यानन्तरं द्रष्टव्यः । प्रत्य- ५ क्षमपि द्रव्यं घटादि परोक्षं दृश्येतरात्मकं यतः ततो गुणपर्यायात्मकम् इति । एतत् ? इत्यत्राह - स्वतः स्वरूपेण सिद्धस्य निश्चितस्य द्रव्यस्य अनुमितेः अनुमेयत्वाद् अन्यथा सर्वो हेतुः आश्रयासिद्धः स्यात् । न चैतदिष्यते परेण ।
ननु यदि तैत्सिद्धं कथमनुमेयमिति चेत् ? अत्रा [ह - ] फलोपजननशक्त्याद्यात्मना । नहि व्यक्तिवत् शक्तिरपि तस्यै प्रत्यक्षा; तदनुमानवैफल्यप्रसङ्गात्, तथाव्यवहाराभावाच्च । यदि पुनः १० सौगतस्येव नैयायिकस्यापि अविकल्पं दर्शनं ततोऽयमदोषः इति तदपि नोत्तरम् ; सौगतेन सहाय (न्य) स्मै जलाञ्जलेर्दानात् । निश्चिते च न विभ्रमभाव इत्युक्तम् । तन्न शक्तिः प्रत्यक्षा | नापि शक्तिवद् व्यक्तिरपि परोक्षा; सर्वस्य आन्ध्यप्राप्तेः प्रमाणविरोधात् । एवमपि व्यक्तिशक्त्योरभेदे न तो गुणपर्यायात्मकं तदिति चेत्; न प्रत्यक्षेतरैकान्तः स्यात् । भेदादिति चेत्; कथं ‘द्रव्यस्य शक्तिः' इति व्यपदेश: अतिप्रसङ्गात् ? तत्र समवायात्; न; 'अस्य निषेधात् । १५ इहेतिप्रत्ययहेतुः समवायस्य शक्ति: यदि "ततो भिन्ना; कथं तस्य इति व्यपदिश्यतां समवायान्तराभावात् ? चर्चितमेतदिति यत्किञ्चिदेतत् ।
तं प्रति दूषणान्तरमाह - सामान्यादेकान्तः (सामान्येत्यादि) । [ सामान्याद्यर्थसमवायादेर्विविक्तं ततो ह्यसत् ।
प्रत्येकं द्विबहुषु कार्यं स्वांशैः सर्वात्मना न तत् ॥ २९ ॥ ] [सामान्यादि] एकान्तेन विविक्त ं भिन्नम् ? कुतः ? अर्थसमवायादेः [१४५क] अर्थात् द्रव्यादेः समवायाद् आदिशब्दाद् अन्त्यविशेषात् । समवायादिग्रहणं दृष्टान्तार्थम् । यथा "तस्य सामान्यादि ततो विविक्तमदृश्यम् हि यस्मात् तस्माद् असत् तथा "अस्यापि इति । तथा च प्रयोगः - यद् यद्रूपतया कालत्रयेऽपि न प्रतीयते न तत् तद्रूपतया सत् यथा आत्मादि पुद्गलरूपतया कालत्रयेऽपि अप्रतीयमानम्, तद्रूपतया असत्त्वेन प्रतीयते २५ च एकान्तेन अर्थसमवायादेः विविक्तं सामान्यादि इति । अत्रैव दूषणान्तरमाह - प्रत्येकम् इत्यादि। सामान्यादि एकमेकं प्रत्येकं समवायिषु मध्ये । कथम्भूतेषु ? द्विबहुषु द्वयोः परमाण्वादिद्रव्ययोः कार्य (कार्य) द्रव्यादि वर्त्तत इति द्विग्रहणं स्वांशैः स्वैकदेशः सर्वात्मना सर्वस्वभावेन न 'वर्त्तते' इत्युपस्कारः । चर्चिमेतत् ॥छ ||
इति रवि भद्र पादोपजीव्य न न्त वी र्य विरचितायां सिद्धिविनिश्चय टी का यां सविकल्पकसिद्धिः द्वितीयः प्रस्तावः ॥ छ ॥
(१) बौद्धस्य । (२) निरंशस्य वृत्तिप्रतिषेधम् । (३) द्रव्यम् । (४) द्रव्यस्य । ( ५ ) शक्त्यनुमान । (६) व्यक्ति शक्त्यात्मकत्वात् । (७) अभेदे सति व्यक्तिः प्रत्यक्षा शक्तिः परोक्षेति द्वयात्मकता न स्यादिति भावः । (८) घटस्यापि पटः स्यात् । (९ ) समवायस्य । (१०) समवायात् । ( ११ ) समवायादेः । (१२) द्रव्यादेरपि ।
Jain Education International
For Personal & Private Use Only
२०
३०
www.jainelibrary.org