________________
१७२
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पसिद्धिः
;
दीनां तथैव वृत्तिर्न स्यात् । न खलु 'इदमनु (मत्र ) वर्त्तते' इत्येतत् 'तद्सम्बन्धाद् युज्यते यतः कुतश्चित् तदनुषङ्गात् । 'सम्बन्धात् स्यात्' इति चेत्; कुतः सम्बन्धः समवायः, सम्बन्धासम्बन्धाद् (सम्बन्ध्यसम्बद्धत्वात् ) गगनादिवत् ? दूषणान्तरमाह-न चेह इत्यादि । अत्रायमर्थःयत एव न द्रव्यादीनां क्वचिद् वृत्तिः अत एव तत्प्रतीतिरपि न स्यादिति, अन्यथा ईश्वरादेरेव ५ स्यात् । कथं वा कस्यचित् प्रत्यक्षः समवायः इन्द्रियार्थसन्निकर्षाभावात् ? सर्वथापि (अन्यथा - पि) तत्प्रत्यक्षत्वे अलं चक्षुषोऽर्थेन सन्निकर्षसाधनेन ?
[ अन ] यदुक्तं परे - 'सर्वस्य सामान्यस्य सर्वगतत्वे समवायस्य च गोत्वादिप्रत्ययसाङ्कर्यमिति *“दधि खादेति चोदितः उष्ट्रमपि धावेत्" [प्र०वा० ३।१८३] इत्यत्र चो प्रत्युत्तरम् - सम्बन्धस्यापिवि (स्यावि) शेषेऽपि न सम्बन्धिनः सः, नहि कुण्डबदरयोः १० संयोगो यथा कुण्डे [बदरे च ] वर्त्तते' तथा ' बदरमपि " इति तद् दूषयन्नाह - [१४४क] सामान्य इत्यादि । इदमत्र तात्पर्यम् - सर्वसर्वगते सामान्ये इदं प्रत्युत्तरम्, व्यक्तिसर्वगते वा ? प्रथमपक्षे सामान्यसमवाययोर्व्यापित्वेऽपि क्वचिदेव द्रव्यत्वस्य पृथिव्यादिषु एव गुणत्वस्य रूपादिष्वेव कर्मत्वस्य गमनादिष्वेव समीहितप्रत्ययहेतुत्वं द्रव्यादिप्रतीतिनिमित्तत्वं नान्यत्र इत्येवं वैचित्र्यस्य तयोः” "समर्थेतरस्वभावभेदेन शबलत्वस्य संभवे अङ्गीक्रियमाणे द्रव्यमेव १५ सामान्यविशेषात्मकं चित्रं भवितुमर्हति । एवं मन्यते " तयोर्व्यापित्वपक्षे नेदं प्रत्युत्तरम् - *“सम्बन्धस्याऽविशेषेऽपि तं (न) सम्बन्धिनः सः " इति ; सम्बन्धवत् सम्बन्धिनोऽपि सामान्यस्याविशेषात् इदं तु युक्तम् - तदविशेषेस्वा (पेऽप्यात्मभूत कार्यजननशक्ति विशेषः " इति । "तत्र च सर्वत्रानेकान्तसिद्धिः । द्वितीये पक्षे स्वविशेषव्यापित्वं देशादिभिन्नानेकस्वाकारव्यापित्वं निरंशनिष्क्रियात्मनः सामान्यस्य समवायस्य च कथं केन प्रकारेण स्वस्थः २० पिशाचाद्यनुपहतः प्रस्थापयेत् । ननु तथाविधस्यापि सर्वात्मना स्वावारेषु (स्वाकारेषु) वृत्तेः तत्तस्य स प्रस्थापयेदिति चेत् ; अत्राह - द्रव्य इत्यादि । [द्रव्यादिषु ] प्रत्याधारं तस्य भेदात् स्वरूपहानेः 'कथं प्रस्थापयेत्' इति ? यत एवं तत् तस्मात् एतत् प्रस्तुतप्रस्तावव्यवस्थाप्यमानं प्रत्यक्षं द्रव्यपर्यायात्म [क]मेव । यदि वा एतत् विचार्यमाणं वस्तु प्रत्यक्षं तत्परिच्छेद्यं द्रव्यपर्यायात्मकमेव युक्तम् इति ।
१४
I
I
(१) समवाय्य सम्बद्धात् समवायात् । (२) तुलना - " इत्ययुक्तः स सम्बन्धो न युक्तः समवानिभिः ।" आप्तमी० इलो० ६४ । (३) नहि स्वसम्बिन्धिभिः असम्बद्धः कश्चित् सम्बन्धो भवितुमर्हति । (४) वृत्यभावेऽपि तत्प्रतीतौ ईश्वरकालादेरेव सा प्रतीतिर्भवतु इति दोषः । ( ५ ) सन्निकर्षाभावेऽपि । (६) वैशेषिकेण । (७) “चोदितो दधि खादेति किमुष्ट्रं नाभिधावति । " ( प्र० वा० ) इति बौद्धस्य प्रश्ने । (८) अविशेषः, येन दुध्याख्यः सम्बन्धी उष्ट्ररूपः स्यात् । ( ९ ) उभयनिष्ठत्वात् संयोगस्य । (१०) बदराख्यं द्रव्यमुभयनिष्ठं न हि भवितुमर्हति । ( ११ ) सामान्यसमवाययोः । (१२) क्वचिदेव समीहितप्रत्ययहेतुतया सामर्थ्यमन्यत्र तु असामर्थ्यमिति स्वभावभेदेन । “यद्यपि अपरिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि” ( पृ० ३१४ ) यथा कुण्डदध्नोः संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदाद् आधाराधेयनियमः ।”-प्रश० भा० पू० ३२७ । (१३) सामान्यसमवाययोः । (१४) स्वभावभूतशक्तिभेदः । (१५) स्वभावभूतशक्तिविशेषस्वीकारे च । (१६) स्वव्यक्तिसर्वगतत्वपक्षे । (१७) निरंशस्य निष्क्रियस्यापि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org