________________
२।२७ ]
वैशेषिकाभिमतसविकल्प निरासः
१७१
९ अथे मतम् - सामान्यसमवायानवस्था अथ मतम् - सामान्यसमवायानामपि सत्तासम्बन्धे ; द्रव्यादिवदपरसामान्यसम्बन्धः स्यात्, न चैवमिति । अयमपि परस्यैव दोषोऽस्तु न जैनस्य, तेन क्वचिदन्यतस्तत्त्वानभ्युपगमात् । कुत एतत् ? इत्यत्राह - सामान्य इत्यादि । [सामान्यतो: ] जातितद्वतः तादात्म्यं कथञ्चिदेकत्वं युक्तम् उपपन्नं यत इति ।
एवं तावद् द्रव्यादिभ्यो भिन्नं सामान्यं निराकृत्य सांप्रतं तत्सम्बन्धं निराकुर्वन्नाह - ५ समवायस्य इत्यादि । ननु सोऽपि 'समवायानवस्थानुषङ्गात्' इत्यनेन निरस्तः; सत्यम् ; तथापि परतो जात्यादीनां तत्त्वे निरस्ते इदानीमन्यथापि निराक्रियत इति विशेषः । परस्य अनेकं दर्शनम् - 'स्वत एव समवायिषु समवायो वर्त्तते' इत्येकम् । [१४३] 'विशेषणीभावसम्बन्धात्' इत्यपरम्' ं । 'न वर्त्तते' इत्यन्यत् । तदेतद् दर्शनत्रयं चेतसि व्यवस्याप्य प्रथमेतावद् दूषणं योजयति - समवायस्य समवायान्तराभावेऽपि 'स्वत एव' इति यावत्, वृत्तौ समवा- १० यिषु वर्त्तते (वर्तने) अङ्गीक्रियमाणे किं पुनः इतरेषां द्रव्यादीनां तथैव येनैव प्रकारेण सम - वायस्य तेनैव वृत्तिर्न स्यात् ? स्यादेव । तथा च किं समवायकल्पनयेति भावः । अत्रैव दूषणान्तरमाह-न च इत्यादि । न च इह विषाणादिषु गौः शाखादिषु वृक्षः इत्येवं प्रतीतिर्बुद्धिः स्याद्भवेत्, समवायस्य कार्यत्वेन 'सम्बन्धिनी' इति सम्बन्धः । एवं मन्यते 'इह विषाणादिषु गौः शाखादिषु वृक्षः' इति बुद्धः समवायः साध्यते तत्कार्यभूतायाः, यदा तु समवायः १५ स्वत एव क्वचिद् वर्तते तह (तर्हि ) 'समवायो वर्त्तते' इति बुद्धिर्न समवायनिमित्ता यथा तथा " प्रकृतापि इति, अनेन तद्धेतोर्व्यभिचार उक्तः । द्वितीये समवायस्य समवायान्तराभावे अपिशब्दाद् अन्यस्य विशेषणीभावसम्बन्धस्य भावे वृत्तौ किं पुनः इतरेषां द्रव्यादीनां तथैव समवायाद् वृत्तिर्न स्यात् ? स्यादेव इति समवायतद्द्द्रव्यादीनामपि कचिद् वृत्तौ विशेषणीभावसम्बन्ध इति मन्यते । दूषणान्तरमाह - न चेह इत्यादि । पूर्ववद् व्याख्यानम् । अयं तु विशेषः २० 'इह समवायो वर्त्तते' इत्यस्याः प्रतीतेः यथा विशेषणीभावः कारणास्था ( कारणं तथा ) “अन्यस्या अपि इति । अथवा, विशेषणीभावः [१४३ ख] सम्बन्धो यदि सम्बन्धान्तरं (न्तरेण) स्वसम्बन्धिषु वर्तते ; तह नि ( तदाऽन) वस्थानात् नचेत्यादि दूषणम् । अथ स्वतः; समवायो - पि तथैव वर्तते इति समवायस्य इत्यादि तदवस्थम् । यदि पुनः, न ते समवाये तथा प्रसङ्गः इति कुतः "ततः 'इहेदम्' इति प्रतीतिः ? तृतीयेऽपि समवायस्य तदन्तराभावे, अपिशब्दो २५ भिन्नप्रक्रमः ‘वृत्तौ’ इत्यस्य अनन्तरं द्रष्टव्यः । ततोऽयमर्थ: - वृत्तावपि, अपिशब्दाच्च (चा) वृत्तौ 'किं पुनः समवायेन' इति विभक्तिपरिणामेन सम्बन्धः । कुत एतत् ? अत्राह - इतरेषां द्रव्या
( १ ) ( एतचिह्नान्तर्गतः पाठः पुनर्लिखितः । (२) वैशेषिकस्यैव । (३) वैशेषिकस्य । ( ४ ) "अविभागिनो वृत्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः । " - प्रश० भा० पृ० ३२९ । (५) “समवाये अभावे च विशेषणविशेष्यभावादिति ” – न्यायवा० १|१|४ " तस्माद् विना सम्बन्धान्तरं विशेषणविशेष्यभाव एषितव्य इति सिद्धम् " - न्यायवा० ता० टी० पृ० १११ (६) स्वत एव । (७) इह शाखादिषु वृक्षः इत्यादि बुद्धिरपि । (८) 'इह शाखादिषु वृक्षः' इत्यादि प्रतीतेरपि । (९) स्वत एव । (१०) समवायात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org