________________
सिद्धिविनिश्चयटीकायाम्
एतेन 'सामान्यं सामान्यम्' इति प्रतीतिः चिन्तिता ।
ननु किमुच्यते - ' तदभावप्रसङ्गात्' इति यावता स्वत एव तेषां तत्र सामर्थ्यम्, तत एव सेति चेत् ; अत्राह-स्वतः इत्यादि । केषाञ्चित् सामान्य-समवाय- अन्त्यविशेषाणां सत्त्वं विद्य मानत्वम्, अन्यथा प्रधानादिवत् कुतस्तद्व्यवस्था, नाऽपर (स्था, स्वतः अपर) सत्तासम्बन्ध५ मन्तरेण अनुस्यूतिप्रत्ययहेतुत्वं नेतरेषां द्रव्यादीनाम् इत्येवम् अस्यापि वैशेषिकस्यापि न केवलं सौगतस्यैव [१४२] निष्प्रमाणिका प्रवृत्तिः ।
अत्र कश्चिदाह - 'सामान्यादौ सत्त्वज्ञेयत्वा वसतिसमिष्यति (त्वादौ असति सा मिथ्या इति) कुतो योगिनामपि तर्तेः प्रधानादिविपर्ययेण सामान्यादिसिद्धि: ? कथं च सा तंत्रोपचरिता ? भिन्नँसत्तादिवस्तुसम्बन्धमन्तरेण उत्पत्तेः; द्रव्यादौ सा तथा स्यात्, अत्रापि तदभावाद् "अप्रतीतेः । १० तदुक्तम् - * “ न पश्यामः क्वचित् किञ्चित् सामान्यं वा " [ सिद्धिवि० २।१२] इत्यादि । तत्प्रतीतेः "अत्र तदनुमानं च चिन्तितम् । यदि पुनस्तत्र तदुपचारात्, अत्र सा भिन्नविशेषणनिमित्ता” अन्यथा तद्योगादिति मतिः; सापि न युक्ता; अत्र उपचारात् तत्र" मुख्या इत्यस्यापि 'प्राप्तः ः । न च स्वयंकल्पितात् मुख्योपचारविभागात् तत्त्वसिद्धिः ; अतिप्रसङ्गादिति ।
99
१४
१७०
अपरस्त्वाह-'सामान्यं सामान्यम्' इत्यनुस्यूतिप्रत्ययस्य समवायहेतुत्वात् ' स्वत:' इत्या१५ द्ययुक्तमिति; तन्न; इदमिहेतिप्रत्ययस्य तन्निमित्तत्वात्", इतरथा 'घटोऽयं घटोऽयम्' इत्यादेरपि प्रत्ययस्य तन्निमित्तत्वसिद्ध: किं सामान्येन ? अपि च, 'किमिदं सामान्यं नाम' इति प्रश्ने किमुत्तरं वक्तव्यम् ? 'एकम् अनेकवृत्ति तत्" इति चेत्; अवयविद्रव्य-संयोग-द्वित्वादिसंख्यादौ " प्रसङ्गः । अनुवृत्तिविज्ञाननिमित्तमिति चेत्; समवायः सामान्यं प्रसक्तम्" इति न 'सामान्यं सामान्यम्' इति ज्ञानं " तन्निमित्तमिति साधूक्तम् - 'स्वतः' इत्यादि । भवतु तर्हि सामान्यादीनामपि अन्यतः सत्त्वमनुस्यूतिप्रत्ययहेतुत्वं चेति चेत्; अत्राह - अन्यथा [ १४२ख ] इत्यादि । अन्येन स्वतः ततप्र (तत्प्र) त्ययहेतुत्वाभावप्रकारेण अन्यतः तद्भावप्रकारेण सामान्यानां समवायस्य च अनवस्थानुषङ्गात् 'अस्यापि निष्प्रमाणिका वृत्तिः' इति सम्बन्धः । तथाहि - द्रव्यादिवत् यदि सामान्यानामपि अपरसामान्यसम्बन्धात् सत्त्वं तत्प्रत्ययहेतुत्वं वा; तर्हि तत्सम्बन्धात्तस्यापि अपरसत्सम्बन्धात् तस्याप्य पर सत्सम्बन्धादित्यनवस्था । समवायस्यापि अन्यतः तत्त्व ; अन्यस्य २५ समवायस्य चान्यः समवाय इति समवायानवस्था ।
२०
[ २ सविकल्पसिद्धिः
(१) सवज्ञेयत्वादिप्रतीतेरभावप्रसङ्गात् । ( २ ) सामान्यादीनाम् । (३) सांख्याभिमत । ( ४ ) सरवादिप्रतीतेः । (५) सामान्यादौ । (६) "भिन्नविशेषणं मुख्यं दण्ड्यादिवत्" - प्र० वार्तिकाल० १९५ । (७) इति चेत्; । (८) उपचरिता । ( ९ ) भिन्नसत्तादीनां सम्बन्धाभावात् । (१०) भिन्नस्य सामान्यस्य अप्रतीतेः । (११) द्रव्यादौ । ( १२ ) सामान्यादौ । (१३) अत एव मुख्या । (१४) द्रव्यादौ । ( १५ ) सामान्यादौ । (१६) समवायहेतुकत्वात् । ( १७ ) "स्वविषय सर्वगतमभिन्नात्मकमनेकवृत्ति'''''–प्रश० भा० पृ० ३११ । (१८) सामान्यत्वप्रसङ्गः अनेकवृत्तित्वात् । (१९) समवायेऽपि समवायः समवायः इत्यनुवृत्तिज्ञाननिबन्धनं भवत्येव । ( २० ) समवायनिमित्तम् । (२१) वैधिकस्यापि । (२२) सखे तत्प्रत्यय हेतुत्वे च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org