________________
२०२७ ]
वैशेषिकाभिमतसविकल्पनिरासः एकस्य एकस्य असहायस्य असहायस्य स्वतन्त्रस्य वा सामान्यस्य द्रव्यस्य [गुणस्य] कर्मणोऽन्यस्य वा विनिश्चयात् । सन्निव (सन्ति च) ताः । ततः तदभावप्राप्तः परस्य प्रमाणविरोध इति मन्यते। अत्रैवार्थे नहि' इत्यादि वृत्तिर्भविष्यति । अथवा, सामान्यानां सत्त्वादीनां याअनुस्यूतिधियः 'इदं सामान्यम् , इदं सामान्यम्' इति बुद्धयः, बहुवचनात् तथाभिधानानि च यानि ताः तानि च न स्युः इति । कुत एतत् ? इत्यत्राह-एकस्य इत्यादि । एकस्य एकस्य [१४१क] ५ अपरसामान्यसहायरहितस्य सत्त्वादिसामान्यस्य विनिश्चयात् । अत्रापि 'न चैकवस्तुसम्ब न्धम्' इत्यादि व्याख्यातम् । समवायिनां च या अनुस्यूतिधियः ताश्च न स्युः, बहुवचनं पूर्ववद् व्याख्येयम् । कुत एतत् ? इत्यत्राह-एकस्य इत्यादि । एकस्य असहायस्य द्रव्यस्य गुणस्य कर्मणः समवायस्य अन्यस्य [च] विनिश्चयात् । अत्र व्याख्यानम्-'समवायस्य' इत्यादि । समवायस्य वा स्वतन्त्रस्य समवायसम्बन्धरहितस्य विनिश्चयात्। अत्र व्याख्यानं १० 'न चेह' इत्यादि ।
नहि इत्यादिना कारिकार्थमाह-नहि भिन्नेषु । केषु ? इत्याह द्रव्य इत्यादि । तेषु किम् ? इत्यादि (त्याह-) अनुवृत्तिज्ञानं 'सद् द्रव्यं सन् गुणः सत् कर्म' इत्याद्यनुगमज्ञानं' युक्तम् उपपन्नम् सदृशप्रतीतिर्वा 'अनेन अयं समानः' इति बुद्धिर्वा नहि 'युक्ता' इति सम्बन्धः । यत् परस्य युक्तं तदाह-किन्तर्हि किन तेषां द्रव्यादीनाम् एकेन असाधारणेन १५ सामान्यादिना सम्बन्धः समवायः तस्य प्रतीतिरेव युज्यते नान्यानुभूतानामिक (नानामुक्तानामेक) सूत्रसम्बन्धप्रतीतिवत् । यदि वा, ते च, एकं च सामान्यादि सम्बन्धश्च समवायः तेषां प्रतीतिरेव परस्परविलक्षणानां युज्यते । ननु समवायस्य अतिसूक्ष्मत्वेन अनुपलक्षणाद् भ्रान्त्या तदनुवृत्तिज्ञानमिति चेत् ; अत्राह-भ्रान्तेरभावात् अनुवृत्तिज्ञानविभ्रमाऽयोगात् जातितद्वताम् अवयव-अवयविनां गुण-गुणिनां क्रिया-तद्वतां सम्बन्धस्य च भेदेन निर्णये विभ्रमाऽभावात् । २० न वै खलु घट[१४१ख]पटयोभिन्नयोः निर्णये[ए] कस्य अन्यतरानुवृत्तिप्रतीतिरिति मन्यते ।
ननु यदुक्तम्-'द्रव्यादिषु मिन्नेषु अनुवृत्तिज्ञानं सामान्यनिबन्धनं न भवति' इति; तदयुक्तम् ; अनुमानबाधनात् प्रतिज्ञायाः। तच्च अनुमानम्-'द्रव्यादिषु भिन्नेषु अभिन्नं ज्ञानं ततो भिन्नविशेषणनिबन्धनं तत्प्रत्ययविशिष्टप्रत्ययत्वात् पुरुषे दण्डीतिप्रत्ययवत्' इति चेत् ; अत्राहनचैक इत्यादि । न च नैव एकेन वस्तुना सामान्येन यः सम्बन्धः तमन्तरेण भिन्नेषु २५ द्रव्यादिषु समानप्रत्ययो न भवत्येव अपि तु भवत्येव, प्रतिषेधद्वयेन प्रकृतार्थगतेः । कुत एतत् ? इत्यत्राह-सामान्यानाम् इत्यादि। सामान्यानां सत्त्वादिजातीनां स्वतः अन्यसम्बन्धरहितानाम् आत्मनैव सत्त्वज्ञेयत्वादि आदिशब्देन पदार्थत्वपरिग्रहः, तस्य प्रतीतेरभावप्रसङ्गात् । 'नच' इत्यादिना गतेन सम्बन्धः । अस्ति च तत्प्रतीतिः, ततोऽनैकान्तिको हेतुरिति मन्यते ।
(१) विशेषस्य, अवयविनो वा। (२) अनुस्यूतबुद्धयः । (३) द्रव्यत्वगुणत्वादीनि अपरसामान्यानि। (४) वैशेषिकस्य । (५) द्रव्यादयः। (६) घटस्य पटस्य वा । (७) द्रव्यगुणकर्मसु सत्सदिति प्रत्ययो विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनः भिन्नेषु अनुगतप्रत्ययात् कम्बलादिषु नीलद्रव्यसम्बन्धात् नीलं नीलमिति ज्ञानवत् ।...एवं दण्डीति ज्ञाने दण्डो निमित्तम्.."-प्रश. व्यो. पृ०६८७ । प्रश०कन्द. पृ० ३१३ । (6) द्रव्यादिप्रत्ययात् विशिष्टप्रत्ययत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org