________________
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः [प्र०वा० ११५०] इति वचनात् 'न कञ्चिदर्थ पुष्णाति' इति मन्यते । तथापि तत्करणे दूषणमाह-कृतस्य करणाऽभावात् इति । अन्यथा अनेन (अन्येन प्रकारेण) कृतस्य बुद्धः स्वतः सिद्धौ निर्णीतौ प्रमाणान्तरस्य अनुमानस्य आनर्थक्यम् , 'असिद्धा च (द्धौ अ) संभवः तदानर्थक्याऽसंभवौ प्रतिपत्तव्यौ । निर्लोठितं चैतदिति । ५ एवं सौगतस्य अविकल्पकमध्यक्षं निराकृत्य वैशेषिकस्य सविकल्पकं तन्निराकर्तुमाहप्रत्यक्षम् इत्यादि।
[प्रत्यक्षं सविकल्पं चेत् सामान्यसमवायिनाम् ।
अनुस्यूतिधियो न स्युरेकस्यात्र विनिश्चयात् ॥२७॥
न हि भिन्नेषु द्रव्यादिष्वनुवृत्तिज्ञान युक्तं सदृशप्रतीतिर्वा । तदेकसम्बन्धप्रती१० तिरेव किन्न युज्यते भ्रान्तेरभावात् । न चैकवस्तुसम्बन्धमन्तरेण भिन्नेषु द्रव्यादिषु
समानप्रत्ययो न भवति सामान्यानां स्वतः सत्त्वज्ञेयत्वादिप्रतीतेरभावप्रसङ्गात् । केषाञ्चित् स्वतः सत्त्वं नेतरेषामित्यस्यापि निष्प्रमाणिका प्रवृत्तिः, अन्यथा सामान्यसमवायानवस्थानुषङ्गात् सामान्यतद्वतोस्तादात्म्य युक्तम् । समवायस्य समवायान्तराभावेऽपि वृत्तौ
किं पुनरितरेषां तथैव वृत्तिनं स्यात् । न च इह विषाणादिपु गौः शाखादिषु वृक्षः इति १५ प्रतीतिः स्यात् । सामान्यसमवाययोापित्वेऽपि क्वचिदेव समीहितप्रत्ययहेतुत्वं नान्य
त्रेति वैचित्र्यसंभवे द्रव्यमेव चित्र भवितुमर्हति । निरंशनिष्क्रियात्मनः सामान्यस्य समवायस्य च स्वविशेषव्यापित्वं कथं स्वस्था प्रस्थापयेत् द्रव्याद्याधारभेदात् स्वरूपहानेः । तदेतत् प्रत्यक्षं द्रव्यपर्यायात्मकं युक्तम् । ]
प्रत्यक्षं सविकल्पकं (ल्पं) व्यवसायात्मकं चेद यदि । केषाम् ? [१४०ख २० इत्याह-सामान्य इत्यादि । सामान्येन समवायिनांसमवायवतां द्रव्यगुणकर्मणाम् , यदि
वा, सामान्यानां समवायिनां च द्रव्य-गुण-कर्म-अन्त्यविशेषाणां समवायसम्बन्धवताम् , सामर्थ्यात् समवायस्यापि तद् इत्युक्तं भवति-*"नाऽगृहीतविशेषाणां (विशेषणा) विशेष्य बुद्धिः" इति वचनात् । समवायाप्रत्यक्षत्वे 'समवायिनां तत्' इति वक्तुशक्तेः । अत्र दूषणमाह
अनुस्यूति इत्यादि । सत्तासामान्येन द्रव्यगुणकर्मणाम्, तैश्च तस्य, द्रव्यत्वगुणत्वकर्मत्व२५ सामान्येन द्रव्यादीनां प्रत्येकम् , तैः तस्य च, द्रव्येण गुणकर्मणाम्, तैः तस्य', अवयविनां (अव
यविना अवयवानाम् ), तैर्वा तस्य कथञ्चित्तादात्म्येन व्याप्तयः अनुस्यूयतः (तयः) तासां धियो गृहीतयो न स्युः , अत्र अस्मिन् प्रत्यक्षे सविकल्पे सति अङ्गीक्रियमाणे वा । कुत एतत् ? इत्यत्राह-एकस्य विनिश्चयात् इति । एकस्य इत्यत्र वीप्सा द्रष्टव्या । ततोऽयमर्थः
(१) स्वतः असिद्धी अनुमानस्य असंभव इति भावः । (२) प्रत्यक्षम् । (३) द्रव्यत्वगुणस्वकर्मस्वादिना । (४) प्रत्यक्षम् (५) तुलना-"विशिष्टबुद्धिरिष्टेह नचाज्ञातविशेषणा ।"-मी० श्लो• अपोह० श्लो० ८८ । (६) प्रत्यक्षम् । (७) सत्तासामान्यस्य । (८) द्रव्यादिभिः । (९) द्रव्यत्वगुणत्वकर्मत्वसामान्यस्य । (१०) गुणकर्मभिः । (११) द्रव्यस्य । (१२) अवयवैर्वा । (१३) अवयविनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org