________________
२।२६] अनेकान्तात्मकचिद्रूपसिद्धिः
१६७ व्यापारादेः बुद्धिपूर्वकात् परिच्छिनत्ति स्वयं विषयीकरोति व्यवच्छिनत्ति च कुतश्चिद् वृक्षादेः व्याहारादितत्कार्याभावाद्वा इत्येवं निःप्रमाणिकैव अस्य बौद्धस्य प्रवृत्तिः 'सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्' इत्यस्मादन्य (दस्य) न्यायस्याभेदादिति मन्यते ।
ननु यदुक्तम्-'कथञ्चिदसिद्धात्मनो बुद्धः' इत्यादि; तदयुक्तम् ; सच्चेतनादिरूपेणापि तस्याः प्रत्यक्षत्वादिति चेत् ; अत्राह-स्वतश्च (श्चेत्) इत्यादि ।
[स्वतश्चेत्सर्वथा सिद्धिः वुद्धेः किं तत्र हेतुना।
स्वतश्चेत्सर्वथाऽसिद्धिः बुद्धेः किं तत्र हेतुना ? ॥२६॥ यथैव ह्यवितर्कयतः समारोपव्यवच्छेदः न सविकल्पप्रत्यक्षमन्तरेण संभवति तथैव प्रत्यक्षविकल्पे च पुनः समारोपव्यवच्छेदस्मृतिः न कञ्चिदर्थं पुष्णाति स्वतः समारोपानुत्पादात् , कृतस्य करणाभावात् , अन्यथा कृतस्य स्वतः सिद्धौ प्रमाणान्तरानर्थक्यासं-१० भवौ प्रतिपत्तव्यौ । निर्लोठितं चैतदिति]
__स्वतः परनिरपेक्षा सिद्धिः ज्ञप्तिः चेद यदि बुद्धः सर्वथा सदादिरूपेणेव रूपान्त. रेणापि किं न किञ्चित् तत्र बुद्धौ हेतुना लिङ्गेन नीलाद्याकारेणेव सर्वाकारैः तस्याः प्रत्यक्षसिद्धत्वादिति भावः । तथा च *"यदवभासते तज्ज्ञानं यथा सुखादि । यद् यथाऽवभासते तत्तथैव परमार्थसद् व्यवहारावतारि यथा नीलं नीलतयाऽवभासमानं तथैव तदवतारि, १५ [अव] भासन्ते च क्षणिकतया सर्वे भावाः" इत्यादि प्रज्ञा क र स्य विज्ञानैकान्तवादिनो न कञ्चिदर्थं पुष्णाति समारोपव्यवच्छेदस्य निराकरिष्यमाणत्वादनन्तरम् । 'स्वतश्चेत् सर्वथाऽसिद्धिः बुद्धः किं तत्र हेतुना' धर्माद्यसिद्धौ हेतोरप्रवृत्तिरिति भावः ।
सौत्रान्तिकं प्रति प्रतिपादितं दूषणं समानं योगाचारस्यापीति मन्वान आचार्यः तदेव दृष्टान्तीकृत्य 'तथैव' इत्यादिना कारिकां विवृणोति । यथैव हि [१४०क] येनैव हि प्रकारेण २० सौत्रान्तिकस्य न संभवति । किम् ? इत्याह-समारोपव्यवच्छेदः, समारोपव्यवच्छेदहेतुत्वाद् अनुमानं तव्यच्छेदै इत्युच्यते । किमन्तरेण ? सविकल्पप्रत्यक्षमन्तरेण निर्विकल्पप्रत्यक्षाद् इत्यभिप्रायः । किं कुर्वतः ? [अ] वितर्कयतः धर्मादिकन (धादिकम) निश्चिन्वतः, न च अनिश्चितं तदनुमानाय प्रभवति, शेषमत्र चिन्तितम् । यद्वक्ष्यते-'निलोपि(निर्लोठितं चैतद्' इति । तर्हि सविकल्पकप्रत्यक्षेमति स भवति (प्रत्यक्षेऽपि न संभवति;) इत्याह-प्रत्यक्ष २५ इत्यादि । प्रत्यक्षस्य विकल्पे वा (च) भेदे च व्यवसायमकेव (यात्मके च) प्रत्यक्षे मतिः (सति) पुनः समारोपव्यवच्छेदस्मृतिः क्षणिकाद्यनुमानं न कञ्चिदर्थ पुष्णाति क्षणिकत्वादेः प्रत्यक्षतो निर्णयादिति भावः । समारोपव्यवच्छेदं करोतीति चेत् ; अत्राह-स्वतः इत्यादि । स्वयं समारोपानुत्पादात् , निश्चये तदद्योगात् , *"निश्चयारोपमनसोः बाध्यबाधकभावातः"
___(१) ० २ टि० १० । (२) अनुमानम् । (३) 'समारोपव्यवच्छेदं करोति' इत्याशङ्कायामाह-। (४) समारोपव्यवच्छेद इत्युच्यते कार्य कारणोपचारात् । (५) धादिकम् । (१) निश्चयचित्तस्य आरोपचित्तस्य च परस्परं बाध्यबाधकभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org